यत् पुनरात्मज्ञानादविद्योच्छेदः तदुच्छेदात् संसारनिवृत्तिः फलमित्युपन्यस्तम् , तदसत् ; अहमित्यात्मानं नित्यमेव जानाति सर्वो लोकः । न च संसारो निवृत्तः । अथ पुनरहंप्रत्ययावसेयादन्यदेवात्मरूपं पराकृतभोक्तृभोक्तव्यभोगग्रन्थिज्ञेयत्वेनात्मज्ञानविधिना ज्ञाप्यत इति, तदसत् ; विधिर्हि सामान्यतः सिद्धस्य क्रियात्मनो विशेषसिद्धौ प्रभवति, नात्यन्तमसिद्धसद्भावे । तद्यदि नाम ज्ञानं लोके सिद्धं, तथापि निरस्तप्रपञ्चात्मविषयमसिद्धं आकाशमुष्टिहननवत् न विधातुं शक्यम् । अथ तादृगात्मज्ञानं सिद्धम् ? किं विधिना ? यदपि मतान्तरं प्रत्यक्षादेरगोचरत्वात् शास्त्रस्य च कार्यार्थत्वात् सङ्कर्षपर्यन्त एव विचारे वेदार्थपरिसमाप्तौ प्राप्तायां वेदान्तेष्वपि कार्यनिष्ठता समाना, ब्रह्मतत्त्वावबोधश्च कार्यम् ; अधिकारिनियोगविषयतया अवगमात् ; अतः तद्विचाराय शारीरकारम्भः इति, तदप्युक्तेन न्यायेन ब्रह्मावगमस्य सिद्धत्वे असिद्धत्वे च कार्यत्वासम्भवेन प्रत्युक्तम् ॥
सिद्धान्त्येकदेशिना विधिरस्तीत्युक्तं यत् समाधानं तदप्ययुक्तम् , कर्मस्थप्रयोजनासम्भवादेव ज्ञानविध्ययोगादित्याह -
यत्पुनरात्मज्ञानादित्यादिना ।
अविहित ज्ञानसन्तानस्यानिवर्तकत्वे सति तस्य विधानेऽप्यनिवर्तकत्वमेवेति भावः ।
तर्हि अलौकिकात्मतत्वज्ञानम् अविद्यादिदोषनिवृत्तिफलं विधीयतामित्याशङ्कते -
अथ पुनरिति ।
ज्ञेयत्वेनेति ।
विधेयज्ञानविषयत्वेनेत्यर्थः ।
यथा सामान्यप्रसिद्धयागमुद्दिश्यानुभूतयागव्यक्तिसदृशं यागव्यक्त्यन्तरं बुद्धिस्थमेव विधीयते, एवमलौकिकात्मज्ञानं सामान्यतः प्रसिद्धमुद्दिश्य पूर्वानुभूतज्ञानव्यक्तिसदृशं ज्ञानव्यक्त्यन्तरं बुद्धावाकलय्यत्तत्कर्तव्यं तयेतिकर्तव्यतया विधेयमिति वक्तव्यम् । तस्य तु ज्ञानस्यात्यन्ताप्रसिद्धत्वात् न विधानसम्भव इत्याह -
तदसत् ; विधिर्हीति ।
ज्ञानसामान्यस्य लोके सिद्धत्वात् तदुद्देशेन विधाने तद्व्यक्तित्वेन अलौकिकात्मज्ञानं कर्तव्यतया प्रमीयतामित्याशङ्क्य तादृगात्मज्ञानसामान्यव्यक्तित्वेनाप्रसिद्धत्वात् तादृशज्ञानव्यक्त्यन्तरस्य बुद्धावारोपयितुमशक्यत्वात् न विधानसम्भव इत्याह -
तद्यदि नामेति ।
तादृगात्मज्ञानस्य तादृगात्मनि ज्ञानस्येतिसिद्धत्वेऽपि पुरुषान्तरे सिद्धत्वे अन्याधिकारिणः तदप्रतिपत्तेः न तादृशं व्यक्त्यन्तरं कर्तव्यतया बुद्धौ रूपयितुं शक्यमिति बहिरेव दूषणमभिप्रेत्य स्वात्मनि सिद्धत्वे दूषणमाह -
किं विधिनेति ।
विचार इति ।
विचारे कृते इत्यर्थः । तद्विचाराय विधिशेषब्रह्मविचाराय शास्त्रारम्भ इत्यर्थः ।