अपरं मतमिति ।
पूर्वोक्तारम्भप्रकारयोः पाश्चात्यं मतं स एव प्रतिपत्तिविधिवादी उपपादयतीत्यर्थः ।
महातात्पर्येण कार्यपरादपि वेदादवान्तरतात्पर्येण ब्रह्मणोऽपि प्रतिपत्तेर्युक्तः प्रतिपत्तिविधिरित्याह -
सत्यम् , कार्यविषय इति ।
अर्थान्तरपरात् शब्दात् अर्थान्तरप्रतिपत्तिः अयुक्तेति तत्राह -
तस्मिन् सतीति ।
रूपस्य चाक्षुषत्वेन रूपिभेदा (आत्मादी ? ) नां चाक्षुषत्वं, न तु स्वप्रधानतयेति भावः ।
ब्रह्मणो वेदविषयत्वे वेदजन्यतद्विषयज्ञानश्रुतविधिः कथं स्यादिति चोदयति -
कथमिति ।
अस्ति शब्दज्ञानेऽपि विधानमिति समर्थयितुमाह -
तदुच्यत इति ।
इदं वाक्यमात्मनोऽनात्मरूपताप्रतिपादकमतोऽपुरुषार्थविषयत्वेनाप्रमाणत्वात् तस्य विधिनिष्ठत्वं दूरनिरस्तमिति नेत्याह -
न तावत् न तावत् सर्वरूपतेतिसर्वात्मरूपतेति ।
प्रतिपन्नप्रपञ्चमुद्दिश्य अप्रतिपन्नात्मरूपस्यैव विधानसम्भवादित्यर्थः ।
दूषणान्तरमाह -
यदि सर्वरूपतेति ।
किं तर्हि प्रतिपाद्यत इत्यत आह -
अतः सर्वस्येति ।
अनात्मस्वभावविलयनेनेतिअनात्मस्वरूपविषयेनेति ।
नेति नेतीत्यादिवाक्येऽपि अनात्मोपमर्देनात्मनो विधेयतया अवगतिर्दृष्टा इत्यर्थः ।
अनात्मविलयनेन आत्मनोऽद्वितीयत्वप्रतिपादनात् प्रमाणत्वेऽपि अत्र ज्ञाने वस्तुनि वा विधिर्नावगम्यत इत्याह -
नन्वत्रेति ।
कल्प्यतां विधिरिति ।
पूषा प्रपिष्टभाग इत्यादाविवेति भावः ।
प्रतीते विध्यर्थ इति ।
कालत्रयास्पृष्टतया अनुष्ठानयोग्ये कर्मणि कालत्रयास्पृष्टतया शब्दावगतद्रव्यदेवतासम्बन्धसामर्थ्यात्सामर्थ्याप्रतिपन्न इति प्रतिपन्ने तदन्यथानुपपत्त्या च विधायकपदार्थे नियोगे प्रतिपन्ने पश्चाद्विधिः विधायकपदं कल्प्यत इत्यर्थः ।
विधिं कल्पयित्वेति ।
विधायकपदं कल्पयित्वेत्यर्थः ।
अपूर्वं प्रमाणकौशलमिति ।
अर्थवादसंसर्गेष्वपि विधिपदकल्पनाप्रसङ्गादिति भावः । किं प्रतीतइत्यादिगतप्रतीतिशब्दः प्रमितिवाचीति द्रष्टव्यम् ।
प्रतीते अप्रतीते वेति विकल्पस्य सर्वत्र सम्भवात् क्वापि विधिकल्पनं न स्यादिति चोदयति -
ननु ननु श्रूयमाणम्अश्रूयमाण इति ।
तत्र शब्दावगतद्रव्यदेवतासम्बन्धात् कालत्रयास्पृष्टात् विध्यर्थाविध्यर्थ विनाभूतेतिविनाभूतक्रिया गम्यते । तया च नियोगो गम्यत इति श्रुतसामर्थ्यात् प्रतिपन्ने विध्यर्थे व्यवहारार्थं पूष्णः पिष्टद्रव्यत्यागः कर्तव्य इति विधिपदोपसंहारो युक्तः, इह तु श्रुतसामर्थ्यात् विध्यर्थप्रतीत्यभावात् , शब्देनैव विधिप्रमितिमङ्गीकुर्वता विधिकल्पना न शक्या इत्याह -
सत्यं युक्तं तत्रेति ।
समासाभिहितः प्रपिष्टो भागो यस्येति बहुव्रीहिसमासाभिहितः ।
प्रमाणाभावादिति ।
अभूदित्यादिवाचकशब्दाभावादित्यर्थः । अन्यविधिशेषत्वेन तत् स्तावकतया सालम्बनत्वं कथञ्चिदालम्बनत्वमिति द्रष्टव्यम् ।
कार्यपरता कल्प्यतेकार्यता कल्प्यत इति इति ।
कर्तव्यता कल्प्यते । क्रियां परिकल्प्य क्रियावच्छिन्नविधिः कल्प्यत इत्यर्थः ।
स चेति ।
आत्मपदेन श्रुत आत्मेत्यर्थः ।
पुरुषविशेषमनाश्रित्येति ।
नियोगप्रतिपत्तारं पुरुषविशेषमित्यर्थः ।
विश्वजिदादिष्विति ।
विश्वजिता यजतेति वाक्यात् प्रतीयमाननियोगस्य स्वर्गं फलं कल्पयित्वा तत्कामोऽधिकारित्वेन कल्प्यत इत्यर्थः ।
सर्वस्यात्मस्वभावतास्वभावनाख्येतिख्यसंसर्गोऽपि विधिसंसृष्टःसंसृष्टवद् किम् इति वैदिकसंसर्गत्वात् वायुर्वै क्षेपिष्ठेत्यादिसंसर्गवदित्यभिप्रायेणाह -
अथापीति ।
धातुना विनेति ।
धात्वर्थेन विनेत्यर्थः । नियोगस्य भूतसंसर्गविषयत्वायोगादिति भावः ।
धातुनैवधातुगवेति सहेति ।
नियोगविषयधात्वर्थस्यापि वैदिकसंसर्गेणाविनाभावादिति भावः ।
कोऽसौ धातुरिति ।
सर्वधात्वर्थकल्पनेऽपि दोषोऽस्तीति भावः ।
यागः कर्तव्यः, दानं कर्तव्यम् , होमः कर्तव्यः इति सर्वधात्वर्थान्वयिनः कृतिधात्वर्थस्यातिलङ्घने कारणाभावात् प्रथमं कृतिधातुमपस्थापयति ।
यदि तावत्कर्तव्यमिति ।
प्रपञ्चविलयनेनैव आत्मदर्शनं वक्तव्यम् । तत्र वास्तवप्रपञ्चस्य आत्मविधानेऽपि अनात्मस्वभावनिवृत्तिः न युज्यत इत्याह -
तत्रानात्मस्वभावतेति ।
कर्तव्यमित्युक्ते किं केन कथमित्याकाङ्क्षा भवति । तत्र कथमितीतिकर्तव्यताकाङ्क्षानिवृत्तये सापि न निर्दिष्टेत्याह -
इति कर्तव्यता चेति ।
यमादयस्तु इतिशमादयस्तु ज्ञाने इतिकर्तव्यं न प्रपञ्चविलये इतिकर्तव्यमिति भावः ।
प्रपञ्चस्य सत्यत्वमङ्गीकृत्य दूषयति -
एवमपीति ।
उभयधात्वर्थविधौ दूषणान्तरमाह -
अशक्यार्थोपदेशश्चेति ।
न हि वस्त्विति ।
अवस्तुत्वे तद्विलयनेन वस्त्वन्तरात्मना ज्ञातुं शक्यते । वस्तुत्वे वस्त्वन्तरात्मना उपासितुं शक्यते, नन्वितिन तु ज्ञातुं शक्यते, वस्तुनो लयासम्भवादित्यर्थः ।
सत्यपक्षे अनात्मस्वभावानिवृत्त्याशक्यानिवृत्त्याशङ्केतिर्थोपदेशदोषो वेदे । तद्दोषपरिहाराय अनात्मनोऽसत्यत्वमङ्गीकृत्य तत्प्रविलयनेन सर्वमात्मेति प्रमाणज्ञानं विधिवदितिविधिपदव्यतिरिक्तपदसमुदायात्मकवाक्यप्राप्तमनूद्य तस्मिन् विधिमात्रमध्याह्रियत इत्याह -
एवं तर्हि ज्ञातव्य इति ।
धात्वर्थोऽनुवाद इतिधात्वर्थोनुवादः अनूद्यमान इत्यर्थः ।
विधानमनर्थकमिति ।
विधिनिमित्तप्रवृत्तिमनपेक्ष्य अभिधानाख्यविधिपदरहितवाक्येन ब्रह्मसंवेदनं निष्पन्नं चेत् विधानमनर्थकमित्यर्थः ।
अध्ययनमात्रात् निष्पन्नस्य ज्ञानस्य अविधितो जन्यत्वात् न पुरुषार्थाय भवतीति पुनर्ज्ञानान्तरं तादृशं विधीयते पुरुषार्थपर्यन्तत्वायेत्याह -
पुनः कर्तव्यतयेति ।
प्रथमं चेदपुरुषार्थः, विधिस्पर्शाद्वा कथं तादृशं द्वितीयं पुमर्थाय भवेदित्यत आह -
यथा मन्त्रेष्विति ।
प्रयोगवचनस्तत्र विधायक इति ।
मन्त्रजन्यद्वितीयप्रत्ययस्यानुष्ठापकः प्रयोगवचनाख्यो विधिरस्ति । न तथा आत्मनि द्वितीयज्ञानस्यानुष्ठापकोऽस्तीत्यर्थः ।
आत्मन्यपि द्वितीयज्ञानस्यानुष्ठापकः प्रयोगवचनः सम्पाद्यत इत्याह पूर्ववादी -
इहापीति ।
अधिकारिणा साङ्गं कर्म अनुष्ठापयन् विधिः प्रयोगवचन इत्युच्यते ।
अन्यतः सिद्धत्वादिति ।
ब्राह्मणवाक्ये प्रमितत्वादित्यर्थः ।
प्रत्ययपरत्वमिति ।
द्रव्यादिप्रकाशनेन अपूर्वोपकारिप्रत्ययमात्रे मन्त्राणां तात्पर्यं नार्थतथात्व इत्यर्थः ।
स्वार्थविधिपराणामिति ।
प्रयोजनवदज्ञातार्थावगमपर्यवसितानामित्यर्थःप्रयोजनवत् अज्ञानस्यार्थेति निमित्तत्वत् पर्यवसितामित्यर्थः इति ।
प्रत्ययपरत्वं विरुध्यत इति ।
विधिविषयप्रत्ययजनकत्वेन विधिं प्रति शेषत्वं विरुध्यत इत्यर्थः ।
विधेयप्रत्ययसमर्पणेन विधिप्रमितिहेतुत्वमज्ञातार्थप्रमितिहेतुत्वं चोभयं नेयम्चोभयनीय इति इत्याह -
अन्यार्थमपि प्रकृतमितिकृतमिति ।
शब्दातिरिक्तस्योभयार्थत्वेऽपि शब्दस्य तात्पर्यात् सकृत्कार्यहेतोर्नोभयार्थत्वमिति तत्राह -
यथा च पदार्थानामिति ।
पञ्चप्रयाजपदार्थानामित्यर्थः ।
प्रत्ययस्यापीति ।
विधिविषयप्रत्ययजननेन विधिप्रमितये च भविष्यतीत्यर्थः ।