पञ्चपादिका
वक्तव्यकाशिका
 

तदेतदनिरूपितमिव दृश्यतेकथम् ? मन्त्राः स्वाध्यायविधिनोपादापिताः स्वार्थस्यान्यतः सिद्धत्वात् तं प्रमातुमशक्नुवन्तः प्रमाणत्वात् प्रच्युताः व्रीह्यादिवत् प्रमेयतामापन्नाः श्रुत्यादिप्रमाणैः, युक्तं यद्विनियुज्येरन् , विनियुक्ताश्चानुष्ठेयस्यानुष्ठानकाले स्मृत्यपेक्षस्य स्मारकतया गृह्येरन्निति, इह तुइदं सर्वं यदयमात्मेति यत् पदसमन्वयनिमित्तं सर्वस्यात्मस्वभावताग्राहिविज्ञानं, तत् स्वविषयस्य अन्यतोऽसिद्धत्वात् प्रमेयपरत्वात् विधेर्विषयःअथ विधेर्विषयो प्रमेयमवगमयितुमलम् युगपदुभयं सम्भवति ; वैरूप्यप्रसङ्गात्

ब्रह्मण्याभिधानिकप्रथमप्रत्ययेन पुरुषार्थसिद्धेः न विधिविषयद्वितीयप्रत्ययसमर्पकत्वं वेदान्तानामिति दर्शयितुं मन्त्रेभ्यो वैलक्षण्यमाह -

तदेतदनिरूपितमिवेति ।

मन्त्राः स्वाध्यायेति ।

सप्रयोजनत्वे हेतुमाहअत्र प्रतीकोद्धरणं न दृश्यते,

प्रमितिप्रयोजनेन सप्रयोजनत्वाभावमाह -

स्वार्थस्येति ।

ब्राह्मणवाक्येन प्रमितत्वादित्यर्थः ।

प्रमाणत्वे श्रुत्यादिप्रमाणान्तरेण विनियोज्यत्वासम्भवात् विनियोज्यत्वे हेतुमाह -

प्रमेयतामापन्ना इति ।

स्मारकतया प्रयोगवचनेन गृह्येरन्नित्यर्थः ।

न प्रमेयमवगमयितुं क्षम इति ।

विधिविषययोषिदग्न्यादिज्ञानस्य तद्धेतुवाक्यस्य च प्रमेयपरत्वादर्शनादिति भावः ।

एकतात्पर्यविशिष्टतया सर्वपदानामेककार्यकरत्वमिति वक्तव्यं पदैकवाक्यवाक्यवादिनेति न दृश्यतेतावादिना इत्यङ्गीकृत्य विधिब्रह्मणोः अलौकिकत्वात् विधिप्रमितिं तदपेक्षितब्रह्मप्रमितिं च करोति चेत् वाक्यमेकतात्पर्यस्य कालान्तरव्यापारान्तरासम्भवात् एकव्यापारेणोभयप्रमितिं युगपदेव कुर्यात् तच्चायुक्तमित्याह -

न युगपदुभयमिति ।

एकस्य शब्दजन्यज्ञानस्य प्रमाणत्वात् तद्विषयब्रह्मणो ज्ञानात् प्राक् योग्यत्वाख्याज्ञातज्ञानेन ज्ञायमानप्रमितिविशिष्टतया साध्यत्वं ज्ञातप्रमितिरूपफलविशिष्टतया प्राधान्यं चेति त्रितयं सम्भाव्यते । तस्यैव ज्ञानस्य विधेयतया क्रियात्वात् विषयेण सह यत् ब्रह्मज्ञानमित्यनूद्य अनूद्यदद्देशेनेतितदुद्देशेन विधेयत्वं वक्तव्यम् , तथा सति अनूद्यमानक्रियाविशेषणतया ब्रह्मणोऽनुवाद्यत्वायाज्ञातत्वविरुद्धज्ञातत्वं वक्तव्यम् । उद्देश्यक्रियाविशेषणब्रह्मण उद्देश्यत्वाय साध्यत्वविपरीतसिद्धत्वं वक्तव्यम् । विधेयक्रियां प्रति ब्रह्मणः कर्मकारकतया आश्रयतया प्राधान्यविपरीतगुणत्वं वक्तव्यमित्येवम् , ब्रह्मणि विरुद्धरूपापत्तिः स्यादित्याह -

वैरूप्यप्रसङ्गादिति ।

प्रथमज्ञानमर्थपरम् , द्वितीयज्ञानं विधिविषयतया तत्परमित्यविरोधोऽपि न सम्भवति, शब्दस्योभयपरत्वाभावे तज्जन्यज्ञानस्य असकृज्जातस्येतिसकृज्जातस्यापि उभयपरत्वानुपपत्तेरिति द्रष्टव्यम् ।