ब्रह्मण्याभिधानिकप्रथमप्रत्ययेन पुरुषार्थसिद्धेः न विधिविषयद्वितीयप्रत्ययसमर्पकत्वं वेदान्तानामिति दर्शयितुं मन्त्रेभ्यो वैलक्षण्यमाह -
तदेतदनिरूपितमिवेति ।
मन्त्राः स्वाध्यायेति ।
सप्रयोजनत्वे हेतुमाहअत्र प्रतीकोद्धरणं न दृश्यते,
प्रमितिप्रयोजनेन सप्रयोजनत्वाभावमाह -
स्वार्थस्येति ।
ब्राह्मणवाक्येन प्रमितत्वादित्यर्थः ।
प्रमाणत्वे श्रुत्यादिप्रमाणान्तरेण विनियोज्यत्वासम्भवात् विनियोज्यत्वे हेतुमाह -
प्रमेयतामापन्ना इति ।
स्मारकतया प्रयोगवचनेन गृह्येरन्नित्यर्थः ।
न प्रमेयमवगमयितुं क्षम इति ।
विधिविषययोषिदग्न्यादिज्ञानस्य तद्धेतुवाक्यस्य च प्रमेयपरत्वादर्शनादिति भावः ।
एकतात्पर्यविशिष्टतया सर्वपदानामेककार्यकरत्वमिति वक्तव्यं पदैकवाक्यवाक्यवादिनेति न दृश्यतेतावादिना इत्यङ्गीकृत्य विधिब्रह्मणोः अलौकिकत्वात् विधिप्रमितिं तदपेक्षितब्रह्मप्रमितिं च करोति चेत् वाक्यमेकतात्पर्यस्य कालान्तरव्यापारान्तरासम्भवात् एकव्यापारेणोभयप्रमितिं युगपदेव कुर्यात् तच्चायुक्तमित्याह -
न युगपदुभयमिति ।
एकस्य शब्दजन्यज्ञानस्य प्रमाणत्वात् तद्विषयब्रह्मणो ज्ञानात् प्राक् योग्यत्वाख्याज्ञातज्ञानेन ज्ञायमानप्रमितिविशिष्टतया साध्यत्वं ज्ञातप्रमितिरूपफलविशिष्टतया प्राधान्यं चेति त्रितयं सम्भाव्यते । तस्यैव ज्ञानस्य विधेयतया क्रियात्वात् विषयेण सह यत् ब्रह्मज्ञानमित्यनूद्य अनूद्यदद्देशेनेतितदुद्देशेन विधेयत्वं वक्तव्यम् , तथा सति अनूद्यमानक्रियाविशेषणतया ब्रह्मणोऽनुवाद्यत्वायाज्ञातत्वविरुद्धज्ञातत्वं वक्तव्यम् । उद्देश्यक्रियाविशेषणब्रह्मण उद्देश्यत्वाय साध्यत्वविपरीतसिद्धत्वं वक्तव्यम् । विधेयक्रियां प्रति ब्रह्मणः कर्मकारकतया आश्रयतया प्राधान्यविपरीतगुणत्वं वक्तव्यमित्येवम् , ब्रह्मणि विरुद्धरूपापत्तिः स्यादित्याह -
वैरूप्यप्रसङ्गादिति ।
प्रथमज्ञानमर्थपरम् , द्वितीयज्ञानं विधिविषयतया तत्परमित्यविरोधोऽपि न सम्भवति, शब्दस्योभयपरत्वाभावे तज्जन्यज्ञानस्य असकृज्जातस्येतिसकृज्जातस्यापि उभयपरत्वानुपपत्तेरिति द्रष्टव्यम् ।