व्रीहिणां तावत् प्रमाणान्तरसिद्धत्वात् अनुवाद्यत्वं सिद्धमिति विशिष्टरूपेण सिद्धतया उद्देश्यत्वं च भवति । प्रोक्षणक्रियां प्रति कारकत्वात् गुणत्वं च स्यादिति त्रितयं विद्यते प्रोक्षणजन्यातिशयविशिष्टतया साध्यत्वं प्राग्यान्यमितिप्राधान्यमतिशयअतिशयतेतिजननयोग्यत्वरूपविधेयत्वाख्यप्रमेयत्वं चेति त्रितयं विद्यत इत्येवं विरुद्धत्रिकद्वयप्रतीतिः एकस्मिन् शब्दजन्यज्ञाने प्रसज्यते । तथापि प्रोक्षणादिसंस्कारकर्माणि विधीयन्ते तद्वत् ब्रह्मज्ञानेऽपि विधिः स्यादिति चोदयति -
नन्वेवं सतीति ।
गुणकर्मविधिवाक्यजन्यज्ञाने अनुवाद्यत्वमुद्देश्यत्वं गुणत्वं चेति त्रितयं प्रतीयते । क्रियाजन्यातिशयस्यावैभक्तिकत्वात् साध्यत्वादित्रितयं न वाक्यजन्यज्ञाने प्रतीयते, किन्तु कर्मस्थातिशयाय क्रियाविधानान्यथानुपपत्तिरूपार्थापत्त्या प्रमीयते इतिप्रतीयते । अतो न वैरूप्यं गुणकर्मसु । ब्रह्मणि तु वैरूप्यप्रतीतावपि तत्र ज्ञाने विधिः स्यात् , न चेत् गुणकर्मणामपि विधिर्नस्यादिति चोदयति -
नन्वेवं सतीति ।
प्रमाणान्तरेण जातप्रमितिविशिष्टतया सिद्धरूपव्रीह्यादीनुद्दिश्य तत्रातिशयाय गुणकर्मविधानात् विधेयक्रियया साध्यातिशयविशिष्टतया साध्यत्वं प्रतीयते । अतः साध्यरूपस्यैव न सिद्धत्वप्रतीतिः, नापि सिद्धरूपस्यैव साध्यत्वप्रतीतिरिति न तत्र वैरूप्यप्रतीतिः, ब्रह्मणि तु विधेयज्ञानेन जातप्रमितिविशिष्टतया सिद्धरूपेणोद्देश्यत्वं विधेयज्ञानेन ज्ञायमान यत्नतयैव प्रमित्या विशिष्टरूपेण साध्यत्वं च युगपत् प्रतीयत इति वैरूप्यप्रतीतिः अस्त्येव । अतो न तज्ज्ञानविधिसम्भव इत्याह -
न निराकृतमित्यादिना ।
क्रत्वङ्गभूतकारकसंस्कारार्थानि कर्माणि गुणकर्माण्युच्यन्ते ।
फलं तद्विधीयते इति ।
फलाय तद्गुणकर्म विधीयत इत्यर्थः ।
उभयासम्भवादिति ।
ब्रह्मप्रमितिहेतुत्वं विधिविषयतया विधिप्रमितिहेतुत्वं च ब्रह्मज्ञानस्यासम्भवादित्यर्थः । एकज्ञानेन प्रमितं ब्रह्मोद्दिश्य तज्ज्ञानान्तरं विधीयत इति वक्तुं ननेति न दृश्यते शक्यते सामग्रीभेदाभावादेव ज्ञानद्वयस्यापि प्रमेयभेदासम्भवादैकरूप्यादिति द्रष्टव्यम् ।
अस्तु तर्हि विधायकपदव्यतिरिक्तपदसमुदायस्य पृथगेव ब्रह्मस्वरूपं प्रतिपाद्य पुनस्तदनुवादज्ञानं जनयित्वा तस्य विधिविषयत्वसमर्पणेन पुनर्विधायकपदेन पदैकवाक्यतेति, नेत्याह -
न स एव समन्वय इति ।
अवान्तरवाक्यस्य प्रमाणत्वायोगादिति ।
पदैकवाक्यत्वादेव देवान्तरवाक्येतिअवान्तरवाक्याभावादेव तस्य प्रमाणत्वायोगादित्यर्थः ।
तर्हि विधिपदेन यानि पदैकवाक्यभूतानि तद्व्यतिरिक्तपदानां पृथगन्वयेन ब्रह्मप्रतिपत्तिशेषता इत्याशङ्कते -
अथार्थवादपदानामिवेति ।