पञ्चपादिका
वक्तव्यकाशिका
 

अथ पुनः शाब्दज्ञानान्न तथा अनुभवः, तेन साक्षात्करणाय विधिरिति, किं तत् ज्ञानमनुभवाय विधीयते ? प्रत्यक्षादीनां तावदगोचरः ; चक्षुषा गृह्यते’ (मु. उ. ३-१-८) इत्यादिमन्त्रवर्णात्शाब्दं नेष्यते भवता, सत्यम् शाब्दज्ञानं विधिविकलमनुभवायालं, विहितं तु अनुभवहेतुरिति, तदयुक्तम् ; यत्तावत् स्वाध्यायाध्ययनविधिग्राहितात् पदसमन्वयात् स्वभावतः समुत्पन्नं, तत् तावन्न विधीयते ; प्रमेयपरतया विधिविषयत्वानुपपत्तेरित्युक्तम्अथ पुनस्तदेव ज्ञानं सन्तनुयादिति विधीयते, तत् कथं लभ्यत उपास्तिध्यायत्योः ज्ञानसन्तानवाचिनोरन्यतरस्याप्युपादानमन्तरेण ? नापि ज्ञानेनैव स्वसन्तानो लक्ष्यते ; साहचर्याद्यव्यभिचरितसम्बन्धाभावात्नाप्यभ्यासात् साक्षाद्भावः सिद्धःनापि श्रूयते, येन तदुद्देशेन ज्ञानसन्तानो विधीयेतननु किमत्र श्रवणेन ? स्वयमेव साक्षात्कारकरणाय पुरुषार्थत्वादभिमुखः पुरुषः ; सिद्धश्च ज्ञानाभ्यासः शास्त्रश्रवणादौ साक्षात्करणे हेतुः, यद्येवं किं विधिना ? स्वयमेव पुरुषार्थे निर्ज्ञाते हेतौ प्रवर्ततेयत् पुनः निदर्शनं शाल्यर्थं कुल्याः प्रणीयन्ते इति, युक्तं तत्र ; प्रत्यक्षत उभयार्थताया उपलभ्यमानत्वात् , इह पुनः निदर्शनं न्यायतः प्रतिपत्तव्यम् न्यायो युगपत् सम्भवतीत्युक्तम्यदपीदमुक्तंपदार्थानां विधायकः शब्दः क्रमस्यापि विधायकः, एवमैकात्म्यस्य प्रतिपादकः समन्वयो विधिविषयमपि ज्ञापयिष्यतीति, तदप्यपेशलम्यत् तावत् प्रत्येकं प्रयाजादिविधयः, तैः पुनः तेषामेव विधानम्नापि ते क्रमशब्दाभिधेयाःप्रयोगवचनोऽपि प्रयुञ्जानः तानेव प्रयुङ्क्ते ते क्रम इत्युक्तम् क्रमो नाम एकान्ततो नास्त्येव ; तद्बुद्धिशब्दयोः निरालम्बनत्वप्रसङ्गात्तत्र क्रमो नाम वस्तुभूतो धर्मो विद्यत एव एव केनचिदुपाधिना वनवत् क्रमबुद्धिशब्दालम्बनं भवेयुःस्मृतिविज्ञानमेव वा अनुष्ठानकाले यथोपलब्धिपदार्थान् परामृशेत्सर्वथा अस्ति तावत् एकैकपदार्थालम्बनज्ञानातिरिक्तं ज्ञानान्तरम्तच्च एकत्वात् कर्तुः अनेकत्वाच्च पदार्थानां, युगपदनुष्ठानासम्भवादपेक्षितं सन्निहितं प्रयोगवचनेन गृह्यत इति युक्तम् तथेह ज्ञानद्वयमस्ति ; यदैकात्म्ये विधिविषयत्वे वर्तेततस्मादिह विधेयाभावाद्विधानाश्रवणादध्याहारे प्रमाणाभावात् प्रयोगवचनोऽस्ति, यो मन्त्राणामिव ज्ञानस्यापि पुनः प्रयोगं विधास्यतेतस्मादसदेतत् कार्यविषयोऽपि वेदो वस्तुतत्त्वं अवबोधयति इतियत् पुनः निदर्शनंचक्षू रूपे सति द्रव्यमपि बोधयति एवं कार्ये सति तत्त्वमपि वेदोऽवगमयतीतियुक्तं तत्र यद्यदवबोधयति चक्षुः, तत्र स्वतन्त्रमेव प्रमाणम् , इह पुनः यत्र तात्पर्यं, तस्य प्रमेयता, यद्यत् प्रतीयते, तस्य तस्य इति वैषम्यम्आहमा भूद्ज्ञानद्वयं, योऽयमाभिधानिकः प्रत्ययः, विधिविषय एव भवतुतस्मिन् विहिते अर्थात् सर्वस्यात्मस्वभावता सिध्यति ; सविषयत्वादवगमस्यएवमपि अविवक्षितोऽर्थः शब्दात् , विवक्षितस्त्वर्थादिति शोभतेतरां वाक्यार्थवित्ता ? नियोगतः प्रतिपत्तिविधिः वास्तवं संसर्गं गमयतिभवन्ति हि परिकल्पितविषया अपि प्रतिपत्तयश्चोदनालक्षणाः फलवत्यःवाचं धेनुमुपासीते’त्येवमाद्याःएतदेवात्र युक्तम् ; अतत्परस्य प्रत्यक्षादिविरोधे तथाध्यवसायहेतुत्वायोगात्तस्मात् कार्यनिष्ठे वेदे वस्तुतत्त्वसिद्धिः मनोरथ एवअतो अहंप्रत्ययावसेय एवात्मा तस्य शब्दावसेयमतीन्द्रियं रूपान्तरमस्ति ; शब्दस्य तत्र सामर्थ्याभावात्एवं सति अयमात्मा ब्रह्म’ (बृ. उ. २-५-१९) एष आत्मान्तर्याम्यमृतः’ (बृ. उ. ३-७-३) इति ब्रह्मान्तर्याम्यादिशब्दा अहंप्रत्ययावसेय एवात्मनि कथञ्चिद्वर्तन्तेतेन आत्मा तत्त्वमसि’ (छा. उ. ६-८-७) इति विद्यमानैरारोपितैश्च गुणैरात्मोपासनं मोक्षफलं विधीयते इति, युक्तम्अतः कार्यानुरक्तस्य वेदार्थस्य सम्भवात् तस्य सर्वात्मना विचारितत्वात् किमपरमवशिष्टम् ? यत् ब्रह्मजिज्ञासारम्भं प्रयुञ्जीत, उच्यतेस्यादेतदेवम् , यदि सर्व एव वेदार्थो विचार्यत्वेनअथातो धर्मजिज्ञासे’ति उपक्रान्तो विचारितश्च स्यात् , यावता कार्यनिष्ठ एव वेदभागो विचारितो, वस्तुतत्त्वनिष्ठः

न तथानुभव इति ; प्रत्यक्षादीनामिति ; न चक्षुषेति ; नेष्यत इति ; तदयुक्तं यत्तावदिति ; स्वभावत इति ; अथ पुनस्तदेव ज्ञानमिति ; तत्कथं लभ्यत इति ; ज्ञानेनैवेति ; नाप्यभ्यासादिति ; तत्कथं लभ्यत इति ; नापि श्रूयत इति ; ननु किमिति इतिकिमत्र श्रवणेनेति ; शास्त्रश्रवणादाविति ; युक्तं तत्रेत्यादिना ; ज्ञापयिष्यतीति ; यत्तावदिति ; न तेषामेव विधानमिति ; नापि त इति ; प्रयोगवचनोऽपीति ; न ते क्रमा इत्युक्तमिति ; न च क्रमो नामेति ; तत्र क्रमो नामेति ; त एव वेति ; वनवदिति ; स्मृतिविज्ञानमेव वेति ; तत्रैकत्यादितितच्चैकत्वात् कर्तुरिति ; सन्निहितं चेति ; युक्तं तत्रेति ; प्रतीयत इति ; शोभतेतरामिति ; न च नियोगत इति ; भवन्ति हीति ; एतदेवात्रेति ; अतत्परस्येति ; तस्मात् कार्यनिष्ठ इत्यादिना ॥ ; स्यादेतदेवमिति ; विचारितश्च स्यादिति ;

न तथानुभव इति ।

अग्रहणनिवृत्तावपि मिथ्याज्ञानतत्संस्कारनिरासिसाक्षात्करणं नास्ति । अतः तदर्थं ज्ञानान्तरेऽपि विधिरित्यर्थः । किं तद् ज्ञानमिति किं करणकं ज्ञानमित्यर्थः ।

प्रत्यक्षागोचरत्वात् तन्मूलानुमानाद्यगोचर इत्यभिप्रेत्याह -

प्रत्यक्षादीनामिति ।

अस्मदीयप्रत्यक्षागोचरत्वेऽपि योगिप्रत्यक्षगम्यमिति तत्राह -

न चक्षुषेति ।

नेष्यत इति ।

साक्षात्करणहेतुरिति नेष्यत इत्यर्थः ।

शब्दसामर्थ्यादुत्पन्नं प्राथमिकं ज्ञानं तत् सन्तानो वा साक्षात्करणाय विधीयत इति विकल्प्य न प्राथमिकज्ञाने विधिरित्याह -

तदयुक्तं यत्तावदिति ।

स्वभावत इति ।

स्वसामर्थ्येन विधिवाक्यात् विधिविषयज्ञानवत् विधिमन्तरेण उत्पन्नमित्यर्थः । उभयपरत्वे वैरूप्यस्य दर्शितत्वादिति वाक्यशेषः ।

प्रथमज्ञानादवगते ब्रह्मणि तदुद्देशेन संस्कारद्वारेण साक्षात्करणहेतुज्ञानसन्तानो विधीयत इति चोदयति -

अथ पुनस्तदेव ज्ञानमिति ।

उपासनाविधित्वेन अभिमतानामात्मेत्येवोपासीतेत्यादीनां अहमिति स्वभावप्रवृत्तज्ञानं प्रत्यलौकिकात्माख्यविषयसमर्पकत्वादेव विधित्वायोगात् निदिध्यासितव्य इत्यस्यापि आत्मस्तुतित्वादेव विधित्वाभावात् उपासनाविधिसामर्थ्यात् सन्तानविध्यवगमायोगादात्मानं पश्येदिति दर्शनविधानसामर्थ्यात् सन्तानविधिर्गम्यत इति वक्तव्यम् । तच्चायुक्तमित्याह -

तत्कथं लभ्यत इति ।

ज्ञानेनैवेति ।

पश्येदित्युक्तज्ञानेनैवेत्यर्थः ।

निदिध्यासितव्य इत्यस्य उपासनाविधित्वेऽपि साक्षात्करणाहेतुत्वात् शाब्दज्ञानादविशेष इत्याह -

नाप्यभ्यासादिति ।

अभ्यासात् किमित्याह -

तत्कथं लभ्यत इति ।

ज्ञानेनैवेत्यारभ्य - अभ्यासादित्यन्तं द्विवारमावृतंअभ्यासात् साक्षात्करणासम्भवेन न तदपरोक्षं कर्तुं शक्यं किन्तु, मिथ्याऽऽपरोक्ष्यमिति भावः ।

`ततस्तुं तं पश्यते निष्कलं ध्यायमान'मु०उ० ३ - १ - ८ इत्यत्र ध्यायमानो ध्याननिमित्तचित्तैकाग्र्यद्वारसहितवाक्यज्ञानं लब्ध्वा ज्ञानप्रसादेनपश्यतीत्यन्वयमङ्गीकृत्य अभ्यासात् साक्षाद्बोधो न श्रूयते इत्याह -

नापि श्रूयत इति ।

ऐकाग्र्याद्वारेण आपरोक्ष्यहेतौ तत्कामस्य प्रवत्तिसिद्धेः न प्रतिसिद्धेन प्रवृत्त्य इतिश्रवणापेक्षा । ऐकाग्र्यद्वारेण अपरोक्षहेतुत्वस्यान्वयव्यतिरेकाभ्यामेव ज्ञातत्वात् न हेतुत्वज्ञानाय च श्रवणापेक्षा इति चोदयति -

ननु किमिति इतिकिमत्र श्रवणेनेति ।

शास्त्रश्रवणादाविति ।

गानशास्त्रतज्जन्यज्ञानाभ्यासात् गानापरोक्ष्यं दृष्टमित्यर्थः ।

अनेकांशत्वात् कुल्याया युगपदनेकार्थत्वमुपपद्यते स्थायित्वात्क्रमेण अनेकार्थत्वं चोपपद्यते प्रत्यक्षदृष्टत्वाच्च न विरोधः । नेह उभयार्थतायां प्रत्यक्षप्रमाणं विद्यते । अतो न्यायतः प्रतिपत्तव्यं तत्र तात्पर्यविशिष्टतया सकृत्कार्यहेतुशब्दस्य क्रमेण उभयार्थत्वायोगात् युगपदुभयार्थत्वं वक्तव्यम् । तच्च न सम्भवतीति उभयार्थत्वे न्यायाभावश्च उक्त इत्याह -

युक्तं तत्रेत्यादिना ।

ज्ञापयिष्यतीति ।

विषयसमर्पणेन विधिमपि ज्ञापयिष्यतीत्यर्थः ।

पदार्था एव शब्दगम्याः क्रमस्तु अनेकेषामेकपुरुषानुष्ठेयत्वं क्रमं विना नोपपद्यत इत्यर्थापत्तिसिद्ध इत्याह ।

यत्तावदिति ।

ये तावदित्यर्थः ।

न तेषामेव विधानमिति ।

तेषां प्रयाजादीनां धर्मभूतक्रमस्य न विधानमर्थापत्तिअर्थापत्तित्वादितिगम्यत्वादित्यर्थः ।

पदार्थमात्रस्य क्रमस्यपदार्थमात्रस्य पदार्थवदिति पदार्थवत् शब्देन विधानमिति नेत्याह -

नापि त इति ।

क्रमस्य प्रयोगवचनप्रयोज्यत्वात् विहिततया अङ्गत्वमिति नेत्याह -

प्रयोगवचनोऽपीति ।

पदार्था एव क्रमः, तस्मात् पदार्थान् प्रयुञ्जानः सिद्धं क्रममपि प्रयुङ्क्त इति नेत्याह -

न ते क्रमा इत्युक्तमिति ।

एकैकस्मिन् पदार्थेऽदर्शनात् अनेकपदार्थाश्रयत्वे पदार्थयौगपद्यात् क्रमायोगात् अयौगपद्ये च उभयाश्रयधर्मायोगात् क्रमो नास्त्येवेत्याशङ्क्य दुर्निरूपत्वेऽपि अनिर्वचनीयक्रमोऽस्त्येवेत्याह -

न च क्रमो नामेति ।

संयोगवदुभयाश्रयत्वे पदार्थयौगपद्यमित्युक्तम् । तत्राह -

तत्र क्रमो नामेति ।

क्रमत्वादेव धर्मिणां न यौगपद्यापेक्षेति भावः ।

देशकालवस्तूपाधिपरामर्शमन्तरेण क्रमो न दृश्यत इति तत्राह -

त एव वेति ।

वनवदिति ।

एकदेशस्थत्वोपाधिना वृक्षेषु वनबुद्धिशब्दवदित्यर्थः ।

अनुष्ठेयपदार्थानामनिष्पन्नस्वभावत्वात् न देशकालवस्तुक्रम इति तत्राह -

स्मृतिविज्ञानमेव वेति ।

पाठक्रम एव स्मर्यमाणोऽनुष्ठेयपदार्थेषु उपरज्यत इत्यर्थः ।

अनुष्ठेयपदार्थं विशेषणतया अर्थापत्त्या प्रमीयते क्रमो न तु विधीयत इत्याह -

तत्रैकत्यादितितच्चैकत्वात् कर्तुरिति ।

तदिति ज्ञानान्तरालम्बनभूतं क्रमवस्तु उच्यते -

सन्निहितं चेति ।

अर्थक्रमाभावे पाठक्रममित्यर्थः । गृह्यत इति प्रयोगवचनेन अनुस्मर्यत इत्यर्थः ।

अत्र प्रमाणद्वयेनैव प्रमेयद्वयसिद्धिरिति प्रकरणार्थः । यथा चक्षुः संसृष्टेऽर्थे प्रमाणं भवति न तथा शब्दः शक्तिप्रतियोगितया सम्बन्धिन्यर्थे प्रमाणम् । किन्तु यत्र तात्पर्यं तत्र सम्भूयैव शब्दाः प्रमाणमित्याह -

युक्तं तत्रेति ।

प्रतीयत इति ।

शक्त्या प्रतीयत इत्यर्थः ।

शोभतेतरामिति ।

ब्रह्मण्यप्रमाणं श्रुतिः श्रुत्यर्थापत्तिः प्रमाणमित्युक्तिर्न युक्तेत्यर्थः ।

अवगमभिधानेतिअवगमविधानानुपपत्तिः नावगम्यवस्तुतत्त्वं गमयतीत्याह -

न च नियोगत इति ।

नियोगतः नियमेन इत्यर्थः ।

आरोपित विषयत्वे फलासम्भवात् वास्तवसंसर्गविषयत्वं विधेयज्ञानस्येति तत्राह -

भवन्ति हीति ।

विधेयज्ञानस्यारोपितविषयत्वे प्रमितिरूपदृष्टप्रयोजनासम्भवात् अदृष्टफलकल्पना स्यादित्याशङ्क्य प्रमाणविरोधादेव दृष्टासम्भवात् अदृष्टकल्पनैव युक्तेत्याह -

एतदेवात्रेति ।

अतत्परस्येति ।

विधौ तात्पर्यादेव अद्वितीयब्रह्मणि तात्पर्यहीनस्येत्यर्थः ।

अलौकिकब्रह्मप्रतिपादनेन तज्ज्ञानविधिनिष्ठताऽयोगाल्लौकिकात्मनि आरोपितविषयोपासनविधिपरा वेदान्ता विचारिताश्चेत्याह -

तस्मात् कार्यनिष्ठ इत्यादिना ॥

शब्दानां कार्यान्वितस्वार्थबोधने समर्थादितिसामर्थ्यात् सर्वो वेदः कार्यपरतया विचारित इत्युच्यते, किं वा सूत्रकाराद्यभियुक्तवचनसामर्थ्यात् कार्यपरतया विचारित इत्युच्यते इति विकल्प्य प्रथमकल्पस्य समन्वयसूत्रे निराकरणमभिप्रेत्य द्वितीयकल्पं निराकरोति -

स्यादेतदेवमिति ।

धर्मस्यैव विचार्यत्वेन उपक्रान्तत्वेऽपि धर्मवत् प्रासङ्गिकत्वेन ब्रह्मापि विचारितमिति, नेत्याह -

विचारितश्च स्यादिति ।