पञ्चपादिका
वक्तव्यकाशिका
 
अथ पुनः शाब्दज्ञानान्न तथा अनुभवः, तेन साक्षात्करणाय विधिरिति, किं तत् ज्ञानमनुभवाय विधीयते ? प्रत्यक्षादीनां तावदगोचरः ; ‘न चक्षुषा गृह्यते’ (मु. उ. ३-१-८) इत्यादिमन्त्रवर्णात् । शाब्दं च नेष्यते भवता, सत्यम् न शाब्दज्ञानं विधिविकलमनुभवायालं, विहितं तु अनुभवहेतुरिति, तदयुक्तम् ; यत्तावत् स्वाध्यायाध्ययनविधिग्राहितात् पदसमन्वयात् स्वभावतः समुत्पन्नं, तत् तावन्न विधीयते ; प्रमेयपरतया विधिविषयत्वानुपपत्तेरित्युक्तम् । अथ पुनस्तदेव ज्ञानं सन्तनुयादिति विधीयते, तत् कथं लभ्यत उपास्तिध्यायत्योः ज्ञानसन्तानवाचिनोरन्यतरस्याप्युपादानमन्तरेण ? नापि ज्ञानेनैव स्वसन्तानो लक्ष्यते ; साहचर्याद्यव्यभिचरितसम्बन्धाभावात् । नाप्यभ्यासात् साक्षाद्भावः सिद्धः । नापि श्रूयते, येन तदुद्देशेन ज्ञानसन्तानो विधीयेत । ननु किमत्र श्रवणेन ? स्वयमेव साक्षात्कारकरणाय पुरुषार्थत्वादभिमुखः पुरुषः ; सिद्धश्च ज्ञानाभ्यासः शास्त्रश्रवणादौ साक्षात्करणे हेतुः, यद्येवं किं विधिना ? स्वयमेव पुरुषार्थे निर्ज्ञाते हेतौ प्रवर्तते । यत् पुनः निदर्शनं शाल्यर्थं कुल्याः प्रणीयन्ते इति, युक्तं तत्र ; प्रत्यक्षत उभयार्थताया उपलभ्यमानत्वात् , इह पुनः निदर्शनं न्यायतः प्रतिपत्तव्यम् । स च न्यायो न युगपत् सम्भवतीत्युक्तम् । यदपीदमुक्तं — पदार्थानां विधायकः शब्दः क्रमस्यापि विधायकः, एवमैकात्म्यस्य प्रतिपादकः समन्वयो विधिविषयमपि ज्ञापयिष्यतीति, तदप्यपेशलम् । यत् तावत् प्रत्येकं प्रयाजादिविधयः, तैः पुनः न तेषामेव विधानम् । नापि ते क्रमशब्दाभिधेयाः । प्रयोगवचनोऽपि प्रयुञ्जानः तानेव प्रयुङ्क्ते । न ते क्रम इत्युक्तम् ॥ न च क्रमो नाम एकान्ततो नास्त्येव ; तद्बुद्धिशब्दयोः निरालम्बनत्वप्रसङ्गात् । तत्र क्रमो नाम वस्तुभूतो धर्मो विद्यत एव । त एव केनचिदुपाधिना वनवत् क्रमबुद्धिशब्दालम्बनं भवेयुः । स्मृतिविज्ञानमेव वा अनुष्ठानकाले यथोपलब्धिपदार्थान् परामृशेत् । सर्वथा अस्ति तावत् एकैकपदार्थालम्बनज्ञानातिरिक्तं ज्ञानान्तरम् ॥ तच्च एकत्वात् कर्तुः अनेकत्वाच्च पदार्थानां, युगपदनुष्ठानासम्भवादपेक्षितं सन्निहितं च प्रयोगवचनेन गृह्यत इति युक्तम् । न तथेह ज्ञानद्वयमस्ति ; यदैकात्म्ये विधिविषयत्वे च वर्तेत । तस्मादिह विधेयाभावाद्विधानाश्रवणादध्याहारे च प्रमाणाभावात् न प्रयोगवचनोऽस्ति, यो मन्त्राणामिव ज्ञानस्यापि पुनः प्रयोगं विधास्यते । तस्मादसदेतत् कार्यविषयोऽपि वेदो वस्तुतत्त्वं अवबोधयति इति ॥ यत् पुनः निदर्शनं — चक्षू रूपे सति द्रव्यमपि बोधयति एवं कार्ये सति तत्त्वमपि वेदोऽवगमयतीति । युक्तं तत्र यद्यदवबोधयति चक्षुः, तत्र स्वतन्त्रमेव प्रमाणम् , इह पुनः यत्र तात्पर्यं, तस्य प्रमेयता, न यद्यत् प्रतीयते, तस्य तस्य इति वैषम्यम् । आह — मा भूद्ज्ञानद्वयं, योऽयमाभिधानिकः प्रत्ययः, स विधिविषय एव भवतु । तस्मिन् विहिते अर्थात् सर्वस्यात्मस्वभावता सिध्यति ; सविषयत्वादवगमस्य । एवमपि अविवक्षितोऽर्थः शब्दात् , विवक्षितस्त्वर्थादिति शोभतेतरां वाक्यार्थवित्ता ? न च नियोगतः प्रतिपत्तिविधिः वास्तवं संसर्गं गमयति । भवन्ति हि परिकल्पितविषया अपि प्रतिपत्तयश्चोदनालक्षणाः फलवत्यः ‘वाचं धेनुमुपासीते’त्येवमाद्याः । एतदेवात्र युक्तम् ; अतत्परस्य प्रत्यक्षादिविरोधे तथाध्यवसायहेतुत्वायोगात् । तस्मात् कार्यनिष्ठे वेदे वस्तुतत्त्वसिद्धिः मनोरथ एव । अतो अहंप्रत्ययावसेय एवात्मा । न तस्य शब्दावसेयमतीन्द्रियं रूपान्तरमस्ति ; शब्दस्य तत्र सामर्थ्याभावात् । एवं च सति ‘अयमात्मा ब्रह्म’ (बृ. उ. २-५-१९) ‘एष त आत्मान्तर्याम्यमृतः’ (बृ. उ. ३-७-३) इति ब्रह्मान्तर्याम्यादिशब्दा अहंप्रत्ययावसेय एवात्मनि कथञ्चिद्वर्तन्ते । तेन ‘स आत्मा तत्त्वमसि’ (छा. उ. ६-८-७) इति विद्यमानैरारोपितैश्च गुणैरात्मोपासनं मोक्षफलं च विधीयते इति, युक्तम् । अतः कार्यानुरक्तस्य वेदार्थस्य सम्भवात् तस्य च सर्वात्मना विचारितत्वात् किमपरमवशिष्टम् ? यत् ब्रह्मजिज्ञासारम्भं प्रयुञ्जीत, उच्यते — स्यादेतदेवम् , यदि सर्व एव वेदार्थो विचार्यत्वेन ‘अथातो धर्मजिज्ञासे’ति उपक्रान्तो विचारितश्च स्यात् , यावता कार्यनिष्ठ एव वेदभागो विचारितो, न वस्तुतत्त्वनिष्ठः ॥
न तथानुभव इति ; प्रत्यक्षादीनामिति ; न चक्षुषेति ; नेष्यत इति ; तदयुक्तं यत्तावदिति ; स्वभावत इति ; अथ पुनस्तदेव ज्ञानमिति ; तत्कथं लभ्यत इति ; ज्ञानेनैवेति ; नाप्यभ्यासादिति ; तत्कथं लभ्यत इति ; नापि श्रूयत इति ; ननु किमिति इतिकिमत्र श्रवणेनेति ; शास्त्रश्रवणादाविति ; युक्तं तत्रेत्यादिना ; ज्ञापयिष्यतीति ; यत्तावदिति ; न तेषामेव विधानमिति ; नापि त इति ; प्रयोगवचनोऽपीति ; न ते क्रमा इत्युक्तमिति ; न च क्रमो नामेति ; तत्र क्रमो नामेति ; त एव वेति ; वनवदिति ; स्मृतिविज्ञानमेव वेति ; तत्रैकत्यादितितच्चैकत्वात् कर्तुरिति ; सन्निहितं चेति ; युक्तं तत्रेति ; प्रतीयत इति ; शोभतेतरामिति ; न च नियोगत इति ; भवन्ति हीति ; एतदेवात्रेति ; अतत्परस्येति ; तस्मात् कार्यनिष्ठ इत्यादिना ॥ ; स्यादेतदेवमिति ; विचारितश्च स्यादिति ;

न तथानुभव इति ।

अग्रहणनिवृत्तावपि मिथ्याज्ञानतत्संस्कारनिरासिसाक्षात्करणं नास्ति । अतः तदर्थं ज्ञानान्तरेऽपि विधिरित्यर्थः । किं तद् ज्ञानमिति किं करणकं ज्ञानमित्यर्थः ।

प्रत्यक्षागोचरत्वात् तन्मूलानुमानाद्यगोचर इत्यभिप्रेत्याह -

प्रत्यक्षादीनामिति ।

अस्मदीयप्रत्यक्षागोचरत्वेऽपि योगिप्रत्यक्षगम्यमिति तत्राह -

न चक्षुषेति ।

नेष्यत इति ।

साक्षात्करणहेतुरिति नेष्यत इत्यर्थः ।

शब्दसामर्थ्यादुत्पन्नं प्राथमिकं ज्ञानं तत् सन्तानो वा साक्षात्करणाय विधीयत इति विकल्प्य न प्राथमिकज्ञाने विधिरित्याह -

तदयुक्तं यत्तावदिति ।

स्वभावत इति ।

स्वसामर्थ्येन विधिवाक्यात् विधिविषयज्ञानवत् विधिमन्तरेण उत्पन्नमित्यर्थः । उभयपरत्वे वैरूप्यस्य दर्शितत्वादिति वाक्यशेषः ।

प्रथमज्ञानादवगते ब्रह्मणि तदुद्देशेन संस्कारद्वारेण साक्षात्करणहेतुज्ञानसन्तानो विधीयत इति चोदयति -

अथ पुनस्तदेव ज्ञानमिति ।

उपासनाविधित्वेन अभिमतानामात्मेत्येवोपासीतेत्यादीनां अहमिति स्वभावप्रवृत्तज्ञानं प्रत्यलौकिकात्माख्यविषयसमर्पकत्वादेव विधित्वायोगात् निदिध्यासितव्य इत्यस्यापि आत्मस्तुतित्वादेव विधित्वाभावात् उपासनाविधिसामर्थ्यात् सन्तानविध्यवगमायोगादात्मानं पश्येदिति दर्शनविधानसामर्थ्यात् सन्तानविधिर्गम्यत इति वक्तव्यम् । तच्चायुक्तमित्याह -

तत्कथं लभ्यत इति ।

ज्ञानेनैवेति ।

पश्येदित्युक्तज्ञानेनैवेत्यर्थः ।

निदिध्यासितव्य इत्यस्य उपासनाविधित्वेऽपि साक्षात्करणाहेतुत्वात् शाब्दज्ञानादविशेष इत्याह -

नाप्यभ्यासादिति ।

अभ्यासात् किमित्याह -

तत्कथं लभ्यत इति ।

ज्ञानेनैवेत्यारभ्य - अभ्यासादित्यन्तं द्विवारमावृतंअभ्यासात् साक्षात्करणासम्भवेन न तदपरोक्षं कर्तुं शक्यं किन्तु, मिथ्याऽऽपरोक्ष्यमिति भावः ।

`ततस्तुं तं पश्यते निष्कलं ध्यायमान'मु०उ० ३ - १ - ८ इत्यत्र ध्यायमानो ध्याननिमित्तचित्तैकाग्र्यद्वारसहितवाक्यज्ञानं लब्ध्वा ज्ञानप्रसादेनपश्यतीत्यन्वयमङ्गीकृत्य अभ्यासात् साक्षाद्बोधो न श्रूयते इत्याह -

नापि श्रूयत इति ।

ऐकाग्र्याद्वारेण आपरोक्ष्यहेतौ तत्कामस्य प्रवत्तिसिद्धेः न प्रतिसिद्धेन प्रवृत्त्य इतिश्रवणापेक्षा । ऐकाग्र्यद्वारेण अपरोक्षहेतुत्वस्यान्वयव्यतिरेकाभ्यामेव ज्ञातत्वात् न हेतुत्वज्ञानाय च श्रवणापेक्षा इति चोदयति -

ननु किमिति इतिकिमत्र श्रवणेनेति ।

शास्त्रश्रवणादाविति ।

गानशास्त्रतज्जन्यज्ञानाभ्यासात् गानापरोक्ष्यं दृष्टमित्यर्थः ।

अनेकांशत्वात् कुल्याया युगपदनेकार्थत्वमुपपद्यते स्थायित्वात्क्रमेण अनेकार्थत्वं चोपपद्यते प्रत्यक्षदृष्टत्वाच्च न विरोधः । नेह उभयार्थतायां प्रत्यक्षप्रमाणं विद्यते । अतो न्यायतः प्रतिपत्तव्यं तत्र तात्पर्यविशिष्टतया सकृत्कार्यहेतुशब्दस्य क्रमेण उभयार्थत्वायोगात् युगपदुभयार्थत्वं वक्तव्यम् । तच्च न सम्भवतीति उभयार्थत्वे न्यायाभावश्च उक्त इत्याह -

युक्तं तत्रेत्यादिना ।

ज्ञापयिष्यतीति ।

विषयसमर्पणेन विधिमपि ज्ञापयिष्यतीत्यर्थः ।

पदार्था एव शब्दगम्याः क्रमस्तु अनेकेषामेकपुरुषानुष्ठेयत्वं क्रमं विना नोपपद्यत इत्यर्थापत्तिसिद्ध इत्याह ।

यत्तावदिति ।

ये तावदित्यर्थः ।

न तेषामेव विधानमिति ।

तेषां प्रयाजादीनां धर्मभूतक्रमस्य न विधानमर्थापत्तिअर्थापत्तित्वादितिगम्यत्वादित्यर्थः ।

पदार्थमात्रस्य क्रमस्यपदार्थमात्रस्य पदार्थवदिति पदार्थवत् शब्देन विधानमिति नेत्याह -

नापि त इति ।

क्रमस्य प्रयोगवचनप्रयोज्यत्वात् विहिततया अङ्गत्वमिति नेत्याह -

प्रयोगवचनोऽपीति ।

पदार्था एव क्रमः, तस्मात् पदार्थान् प्रयुञ्जानः सिद्धं क्रममपि प्रयुङ्क्त इति नेत्याह -

न ते क्रमा इत्युक्तमिति ।

एकैकस्मिन् पदार्थेऽदर्शनात् अनेकपदार्थाश्रयत्वे पदार्थयौगपद्यात् क्रमायोगात् अयौगपद्ये च उभयाश्रयधर्मायोगात् क्रमो नास्त्येवेत्याशङ्क्य दुर्निरूपत्वेऽपि अनिर्वचनीयक्रमोऽस्त्येवेत्याह -

न च क्रमो नामेति ।

संयोगवदुभयाश्रयत्वे पदार्थयौगपद्यमित्युक्तम् । तत्राह -

तत्र क्रमो नामेति ।

क्रमत्वादेव धर्मिणां न यौगपद्यापेक्षेति भावः ।

देशकालवस्तूपाधिपरामर्शमन्तरेण क्रमो न दृश्यत इति तत्राह -

त एव वेति ।

वनवदिति ।

एकदेशस्थत्वोपाधिना वृक्षेषु वनबुद्धिशब्दवदित्यर्थः ।

अनुष्ठेयपदार्थानामनिष्पन्नस्वभावत्वात् न देशकालवस्तुक्रम इति तत्राह -

स्मृतिविज्ञानमेव वेति ।

पाठक्रम एव स्मर्यमाणोऽनुष्ठेयपदार्थेषु उपरज्यत इत्यर्थः ।

अनुष्ठेयपदार्थं विशेषणतया अर्थापत्त्या प्रमीयते क्रमो न तु विधीयत इत्याह -

तत्रैकत्यादितितच्चैकत्वात् कर्तुरिति ।

तदिति ज्ञानान्तरालम्बनभूतं क्रमवस्तु उच्यते -

सन्निहितं चेति ।

अर्थक्रमाभावे पाठक्रममित्यर्थः । गृह्यत इति प्रयोगवचनेन अनुस्मर्यत इत्यर्थः ।

अत्र प्रमाणद्वयेनैव प्रमेयद्वयसिद्धिरिति प्रकरणार्थः । यथा चक्षुः संसृष्टेऽर्थे प्रमाणं भवति न तथा शब्दः शक्तिप्रतियोगितया सम्बन्धिन्यर्थे प्रमाणम् । किन्तु यत्र तात्पर्यं तत्र सम्भूयैव शब्दाः प्रमाणमित्याह -

युक्तं तत्रेति ।

प्रतीयत इति ।

शक्त्या प्रतीयत इत्यर्थः ।

शोभतेतरामिति ।

ब्रह्मण्यप्रमाणं श्रुतिः श्रुत्यर्थापत्तिः प्रमाणमित्युक्तिर्न युक्तेत्यर्थः ।

अवगमभिधानेतिअवगमविधानानुपपत्तिः नावगम्यवस्तुतत्त्वं गमयतीत्याह -

न च नियोगत इति ।

नियोगतः नियमेन इत्यर्थः ।

आरोपित विषयत्वे फलासम्भवात् वास्तवसंसर्गविषयत्वं विधेयज्ञानस्येति तत्राह -

भवन्ति हीति ।

विधेयज्ञानस्यारोपितविषयत्वे प्रमितिरूपदृष्टप्रयोजनासम्भवात् अदृष्टफलकल्पना स्यादित्याशङ्क्य प्रमाणविरोधादेव दृष्टासम्भवात् अदृष्टकल्पनैव युक्तेत्याह -

एतदेवात्रेति ।

अतत्परस्येति ।

विधौ तात्पर्यादेव अद्वितीयब्रह्मणि तात्पर्यहीनस्येत्यर्थः ।

अलौकिकब्रह्मप्रतिपादनेन तज्ज्ञानविधिनिष्ठताऽयोगाल्लौकिकात्मनि आरोपितविषयोपासनविधिपरा वेदान्ता विचारिताश्चेत्याह -

तस्मात् कार्यनिष्ठ इत्यादिना ॥

शब्दानां कार्यान्वितस्वार्थबोधने समर्थादितिसामर्थ्यात् सर्वो वेदः कार्यपरतया विचारित इत्युच्यते, किं वा सूत्रकाराद्यभियुक्तवचनसामर्थ्यात् कार्यपरतया विचारित इत्युच्यते इति विकल्प्य प्रथमकल्पस्य समन्वयसूत्रे निराकरणमभिप्रेत्य द्वितीयकल्पं निराकरोति -

स्यादेतदेवमिति ।

धर्मस्यैव विचार्यत्वेन उपक्रान्तत्वेऽपि धर्मवत् प्रासङ्गिकत्वेन ब्रह्मापि विचारितमिति, नेत्याह -

विचारितश्च स्यादिति ।