पञ्चपादिका
वक्तव्यकाशिका
 

तथा हिशास्त्रारम्भो व्याख्यातृभिरेवं निरूपितःकथम् ? धर्मो नाम कश्चित् साधयितुः कालान्तरे श्रेयस्साधनो लोकाख्यप्रमाणाभासोत्थेन ज्ञानेन सामान्यतो विषयीकृतःतद्विशेषं प्रति विप्रतिपन्नाः परीक्षकाः केचिदग्निहोत्रादिकं धर्ममाचक्षते ; केचिच्चैत्यवन्दनादिकम्तत्र अग्निहोत्रादिलक्षण एव धर्मोऽभिप्रेतः तत्प्रतिपादकानां वेदवाक्यानां विचारावसरो नापि विवक्षितार्थत्वम्अतः चैत्यवन्दनादीनामेवान्यतमो धर्मःतत्प्रतिपादकानां बुद्धादिवाक्यानामेवान्यतमं विचार्यम् ; वा तदपि हि पौरुषेये वाक्ये शब्दशक्त्यनुसारेणार्थः, अपि तु तेन विवक्षितः इत्येवमाशङ्किते धर्माय वेदवाक्यानि विचारयिष्यन् तदर्थविवक्षाविचारावसरप्रदर्शनार्थम्अथातो धर्मजिज्ञासाइति सूत्रयामास जैमिनिःवेदमधीत्य अनन्तरं धर्मजिज्ञासा कर्तव्या, स्नानं गुरुकुलनिवृत्तिरूपमिति दर्शयितुमितिएवं स्थिते शास्त्रारम्भे, सर्ववेदार्थविषयं शास्त्रमिति प्रतीतिः, किन्तु धर्मातिरिक्तोऽपि सिद्धरूपो वेदार्थोऽस्ति, पर्युदस्तो जैमिनिना ; न्यायान्तरविषयत्वादिति, गम्यते

प्रारभ्यमाणविचारो धर्मविषयो न वेदार्थमात्रविषय इत्युपपादयति -

तथाहि तथा चेतिशास्त्रारम्भ इति ।

अत्र शास्त्रारम्भशब्देन प्रथमसूत्रमुच्यते ।

एवं निरूपित इति ।

धर्ममात्रविचारारम्भविषयत्वेन निरूपितो न वेदार्थविचारारम्भविषयत्वेनेत्यर्थः ।

वेदवाक्यानि विचारयेदित्यादिभाष्यलिङ्गात् वेदार्थमात्रविचारारम्भो गम्यत इति शङ्कते -

कथामिति ।

सामान्यप्रसिद्धिविशेषविप्रतिपत्त्योः भाष्यकारेण धर्म एव प्रदर्शितत्वात् धर्म एव विचार्यत इत्याह -

धर्मो नाम इति ।

धर्मस्य सामान्यतः प्रसिद्धं रूपमाह -

साधयितुः कर्तुः कलान्तरेकालान्तरे श्रेयःसाधन इति ।

लोकाख्यप्रमाणस्य प्रत्यक्षाद्यन्तर्भावे प्रमाणत्वमनन्तर्भावपक्षे आभासत्वं चास्तीति मत्वा आभासत्वमुच्यत इति द्रष्टव्यम् । विशेषविप्रतिपत्तिश्च धर्म एव दर्शितेत्याह -

तद्विशेषं प्रतीति ।

धर्म एव पूर्वपक्षप्राप्तिश्च दर्शितेत्याह -

तत्र अग्निहोत्रेति ।

अभिप्रेतो धर्मोऽग्निहोत्रादिनैवेत्यन्वयः । न तत्प्रतिपादकानामिति नकारस्योत्तरेणाप्यन्वयः ।

लोकायत आह -

न वा तदपीति ।

तेन विवक्षित इति ।

अस्यास्मिन्नर्थे विवक्षास्तीति बोधयति शब्द इत्यर्थः ।

धर्मायेति ।

धर्मनिर्णयायेत्यर्थः । विचारयिष्यन् उत्तरसूत्रैः विचारयिष्यन्नित्यर्थः । तदर्थविवक्षाविचारावसर इति अथशब्दार्थमाह । तस्याम्नायस्यार्थे विवक्षास्ति तस्यैव विचारावसरश्चास्तीति अथशब्देन प्रदर्शनार्थमित्यर्थः ।

विवक्षाविचारावसरे, धर्मविचारान् सूत्रार्थान् सूत्रयोजनया दर्शयन्नाह -

वेदमधीत्येति ।

वेदस्यार्थविवक्षाप्रदर्शने सति वेदार्थविचारः कर्तव्य इति वक्तव्ये धर्मग्रहणात् तदतिरिक्तोऽपि वेदार्थोऽस्ति । तस्योपादानं मा भूदिति मन्यते सूत्रकार इति गम्यत इत्याह -

एवं स्थिते इति ।

शास्त्रारम्भ इति ।

प्रथमसूत्र इत्यर्थः ।

न्यायान्तरविषयत्वादिति ।

साध्यैकरूपोत्त्पत्यादिविधिनिर्णायकतर्काविषयत्वात् न्यायान्तरविषयत्वं सिद्धरूपब्रह्मण इत्यर्थः ।