स्वाध्यायस्य अर्थविवक्षाविचारहेतुत्वप्रतिपादकाथातःशब्दविरोधः स्याद्वेदार्थविचारप्रतिज्ञाभाव इति चोदयति -
कथं यत्तावदिदमिति ।
धर्मस्यैव सामान्यप्रसिद्धिविशेषविप्रतिपत्त्योर्भावात् तस्यैव पुरुषार्थसाधनत्वावगमाच्च जिज्ञासार्हत्वात् धर्म एव विचार्यते न वेदार्थः, तस्य सामान्यप्रसिद्ध्यादेरभावादित्याह -
उच्यत इत्यादिना ।
वेदहेतुप्रयुक्त्यापि धर्मविचारः सम्भवति, तस्यापि वेदार्थत्वादित्याह -
अग्निहोत्रादिरपीति ।
दैवगत्यादैवगत्य इति पुरुषार्थस्य साधनत्वात् विप्रतिपत्तावन्यतरकोटित्वाच्चकोटित्वाप्यधर्मस्यैवेति धर्मस्यैव विचारयोग्यत्वमित्याह -
धर्मतया विचारपदवीमुपारोहतीति ।
धर्मतयेति ।
दैवगत्या पुरुषार्थसाधनतयेत्यर्थः ।
यतस्तस्येति ।
विप्रतिपत्तिस्कन्धत्वात् विचारयोग्यता विद्यत इत्यर्थः । अत्रावसरशब्देन योग्यताऽभिधीयते । विवक्षितोऽसौ स्वाध्याय इत्यथशब्देन प्रदर्शनं युज्यत इत्यध्याहारः ।
अध्ययनादेव पुरुषार्थसिद्धेर्न धर्मविचारः कर्तव्य इति तत्राह -
न चाध्ययनमात्रादिति ।
वेदस्यार्थविवक्षास्ति, अत एव विचारस्यानुग्राह्यप्रमाणमपि भवति । अतो निरर्थकत्वं मत्वा न स्नातव्यं किन्तु त्वदिष्टो धर्मः, किं वेदार्थः किं वा अन्य इति जिज्ञासस्वेति वदतः सूत्रकारस्य धर्मग्रहणं युक्तमित्याह -
अतोऽध्ययनानन्तरमित्यादिना ।
सूत्रे धर्म इति वेदार्थं उच्यत इत्याशङ्क्य अधीतवेदस्य मम वेदार्थेऽनुभवितव्यमिति नापेक्षा, अपि तु पुरुषार्थसाधन धर्म एव अपेक्षा इति उक्तावेव ज्ञानार्थविचारे प्रवृत्तिरित्याह -
यतो न वेदार्थतयेति ।
स्वरूपप्रमाणकथनायेति मुखतो धर्मलक्षणपरं सूत्रमर्थात् प्रमाणप्रतिज्ञेति प्राभाकराः मुखतः प्रमाणप्रतिज्ञा अर्थात् धर्मलक्षणपरमिति वार्तिककारीयाः । सर्वथाप्युभयकथनपरत्वमस्तीति भावः । वेदप्रमाणको धर्म इति स्यात् । धर्मस्यैव सकलवेदार्थतया विचार्यत्वे वेदप्रमाणको धर्म इति स्यादित्यर्थः ।
कार्यशून्यवस्तुविषयवेदभागमङ्गीकृत्य तस्यापि धर्मविषयत्वप्रसङ्गव्यावृत्तये चोदनामग्रहीत् सूत्रकार इत्याह -
तन्नूनमिति ।
चोदनाग्रहणं सर्वस्य वेदस्य धर्मे प्रामाण्यपरिहाराय न भवति, किन्तु धर्मविषयप्रामाण्यादिप्रवर्तकत्वद्योतनाय तदपि चोदनानिष्पाद्यधर्माख्यार्थभावनायाः स्वर्गादिभाव्यनिष्ठतया पुरुषार्थत्वद्योतनायेत्याह -
ननु चोदनाग्रहणस्येति ।
प्रेरणाकर्मणः प्रेरणाभिधायकस्य चुदप्रेरण इति धातोर्निष्पन्नरूपं चोदनेति पदमिति योजना । प्रेरणात्मकोविधिरिति शब्देन भावनोच्यते ।
अपुरुषार्थ इति ।
पुरुषार्थभावशून्यां स्वयमपि प्रयत्नत्वेन क्लेशार्थत्वात् अपुरुषार्थामर्थभावनां पुरुषेण निष्पादयितुमशक्नुवन् इत्यर्थः ।
कर्मतामिति ।
भाव्यतां साध्यतामित्यर्थः ।
एकदोपादानादितिएकपदोपादानादिति ।
यजेतेत्येकपदोपादानात् प्रत्ययार्थभावनायाः सन्निहिततरमित्यर्थः ।
अध्ययनविधिरिति ।
अध्येतव्य इति तव्यप्रत्ययगतशब्दभावनेत्यर्थः ।
अध्ययने माणवकं प्रेरयन्निति ।
अध्ययनार्थभावनामवाप्तस्वाध्यायभाव्यनिष्ठां माणवकेन निष्पादयन्नित्यर्थः ।
अध्ययनस्य वेदस्य अध्ययनार्थभावनाभाव्यस्य पुरुषार्थत्वाभावे भाव्यविशिष्टरूपेण स्वरूपेण चापुरुषार्थार्थभावनां भावयितुमशक्नुवन्ती शब्दभावना स्वभाव्याध्यस्वभाव्यध्यानार्थेतियनार्थभावनायाः पुरुषार्थत्वायैव स्वर्गादिकमेव यागाद्यर्थभावनाभाव्यं कल्पयित्वा तस्याः पुमर्थत्वसम्पादनेन तद्भाव्यत्वात् । यजेतेत्यादिशब्दभावनायाश्च पुरुषार्थत्वमापाद्य तद्बोधकत्वेन अवाप्तस्वाध्यायस्य च पुमर्थतासम्पादनेन तद्भाव्यत्वायतद्भाव्यत्वेति स्वभाव्याध्ययनार्थभावनायाश्च पुरुषार्थत्वमापादयति । अतः क्रतुभावनायाः पुरुषार्थत्वसिद्धये न चोदनाग्रहणमित्याह -
नाध्ययनस्य पुरुषार्थरूपेति ।
असन्देहादिति ।
वेदान्तानामर्थान्तरपरत्वसन्देहनिवृत्तेरित्यर्थः ।
सन्देहः स्यादिति ।
सन्देहान्तरमपि स्यादित्यर्थः ।
वेदांश्चैके सन्निकर्षमिति ।
वेदांश्च प्रति एके पुरुषाः सन्निकर्षं पौरुषेयत्वं वदन्तीति यावत् ।
लक्षणसूत्रे प्राप्तं वेदग्रहणं विहाय अन्यत्र कुर्वन् न बुद्धिपूर्वकारी स्यादिति परिहरति -
सोऽयमिति ।
आभाणक इति ।
ऐतिह्यमित्यर्थः ।
अतः सर्ववेदस्य धर्मपरत्वव्यावृत्तये चोदनाग्रहणमित्याह -
ततअत इतिश्चोदनेति ।
कृत्स्नस्य वेदस्य धर्मविषयत्वेऽपि वचनमस्तीत्याह -
ननु दृष्टो हीति ।
तस्याम्नायस्य दृष्टप्रयोजनं कर्मावबोध इत्यर्थः । तद्भूतानामित्यत्र तेषु सिद्धेषु रूपादिष्वर्थेषु भूतानां वर्तमानानां क्रियार्थेन क्रियाशेषत्वेन समाम्नायः समुच्चारणमिति योजना ।
दर्शितं कार्यनिष्ठत्वं सत्यं तदित्यत्र तच्छब्देन परामृशति ।
प्रक्रमबलादिति ।
प्रथमद्वितीयसूत्रप्रक्रमसामर्थ्यात् उत्तरं सामान्यवचनं प्रकृतविशेषे क्रियाप्रकरणस्थवाक्ये उपह्रियत इति मातृकायाम्उपसंह्रियत इत्यर्थः ।
वचनत्रयस्य साधारणं परिहारमुक्त्वा एकैकस्यासाधारणं परिहारमाह -
अपि च दृष्टो हीत्यादिना ।
तस्यार्थः, कर्मावबोधनमित्याम्नायमात्रस्य धर्मावबोधे विनियोगः स्पष्ट इति चोदयति -
कथमिति ।
आम्नायस्य अर्थसद्भावपरं भाष्यं न धर्मातिरिक्तार्थाभावपरमित्याह -
वेदाध्ययनानन्तरमित्यादिना ।
स्नानविधायकमाम्नायमिति ।
वेदमधीत्य स्नायादित्याम्नायमित्यर्थः ।
अतिक्रमिष्यामः इममाम्नायमिति ।
वेदमधीत्य अर्थं विचार्य स्नायादित्यर्थं स्वीकुर्म इत्यर्थः ।
अनतिक्रामन्त इति ।
यथाश्रुतार्थं गृह्णन्त इत्यर्थः ।
अयोगव्यवच्छेद इति ।
वेदस्य कर्मावबोधनासम्बन्धं व्यावर्त्य सम्बन्धः प्रतिपाद्यत इत्यर्थः ।
नान्ययोगव्यवच्छेद इति ।
वेदस्यार्थान्तरसम्बन्धो नास्तीति नाभिधीयत इत्यर्थः ।
कर्मशब्दस्य प्रमेयवाचित्वात् तेन धर्मब्रह्मणोरभिधानं स्यादित्याशङ्क्य धर्मनिर्णयार्थं प्रवृत्तप्रकरणबलाद्धर्मस्यैवाभिधानमित्याह -
कर्मशब्देन चेति ।
कार्यत्वादिति ।
कर्मव्युत्पत्तिसम्भवादिति भावः ।
अक्रियार्थानां नियोजनत्वेतिनिष्प्रयोजनत्वप्रसङ्गो न दोषायेति तत्राह -
स्वाध्यायाध्ययनविधिरिति ।
स्वार्थप्रयोजनहीनानाम् अक्रियार्थत्वे निष्प्रयोजनत्वं स्यादिति परिहरति -
भवत्विति ।
तेषामपि पूषाप्रपिष्टभागइत्यादिसंसर्गेष्विव प्रयोजनं कल्प्यतामिति, नेत्याह -
एकवाक्यत्वादिति ।
`अधस्तात् समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्य’ इत्युपरिधारणस्य पूर्वेण एकवाक्यस्य विधानवत् सप्रयोजनो विधिः कल्प्यतामिति नेत्याह -
कल्पयितुं चाशक्यत्वादिति ।
अतः सूत्रं क्रियाप्रकरणपठितनिष्प्रयोजनवाक्यविषयमित्याह -
अतःस्वयमिति ।
तद्विधान्येवेति ।
अर्थवादाधिकरणे क्रियाप्रकरणस्थप्रकरणस्थेतिनिष्प्रयोजनवाक्यान्येवोदाहृतानि, न वेदान्तवाक्यानीत्यर्थः ।