पञ्चपादिका
वक्तव्यकाशिका
 

तत् कथम् ? यत् तावदिदम् उच्यते ; धर्मो नाम लोकप्रवादात् सामान्यतः सिद्धःतस्य स्वरूपप्रमाणयोः विप्रतिपत्तावग्निहोत्रादिरपि वेदार्थो धर्मतया विचारपदवीमुपारोहति ; यतः तस्यापि विचारावसरो विद्यते, तेन विवक्षितोऽसौ चाध्ययनमात्रात् कृतकृत्यताअतोऽध्ययनानन्तरं गुरुकुलान्निवर्त्तितव्यं, किन्तु वेदार्थो धर्मः, किं वा अन्य एवेति जिज्ञासामर्हतीति वदितुं धर्मग्रहणं युक्तम् अथातो धर्मजिज्ञासेति, वेदार्थजिज्ञासेति ; यतो वेदार्थतया ज्ञाने प्रवृत्तिःयत् पुनः धर्मस्य स्वरूपप्रमाणकथनाय द्वितीयं सूत्रं, तत् वेदप्रमाणको धर्म इति स्यात् किमिदंचोदनालक्षणःइति ? तत् नूनं सर्वो वेदो धर्म एव कार्यात्मके पर्यवस्यति, कश्चिदस्य भागः कार्यताशून्ये वस्तुतत्त्वेऽपि वर्तते इति मन्यतेननु चोदनाग्रहणस्यान्यदेव प्रयोजनं, ‘चुद प्रेरणेइति प्रेरणकर्मणश्चोदनेति रूपम् ; ततः प्रेरणात्मको विधिरपुरुषार्थे प्रेरयितुमशक्नुवन् पदान्तराभिहितमपि स्वर्गादिकं भावनाकर्मतामापादयति एकपदोपादानात् संनिहिततरं धात्वर्थं विहायेति कथयितुमिति, नैतत् सारम् , अध्ययनविधिरध्ययने माणवकं प्रेरयन् अध्ययनस्य पुरुषार्थरूपार्थावबोधकत्वमनापाद्य शक्नोति प्रेरयितुम् ; पारम्पर्येणाप्यपुरुषार्थे विधेरपर्यवसानात् , अतः तदर्थं चोदनाग्रहणम् ; वेदग्रहणेनापि तत्सिद्धेःअपि वेदग्रहणमेव युक्तम् ; असन्देहात् , चोदनाग्रहणे हि सन्देहः स्यात् ; लोकेऽपि विद्यमानत्वात्अथ वेदाधिकरणेवेदांश्चैके सन्निकर्षमि’ति विशेषाभिधानात् वैदिकत्वसिद्धिरिति, सोऽयमाभाणको लोकेपिण्डमुत्सृज्य करं लेढी’ति, सूत्रकारस्याप्यकौशलं प्रदर्शितं स्यात्ततश्चोदनाग्रहणादचोदनात्मकोऽपि वेदभागोऽभिप्रेत इति गम्यते, येन वेदार्थमात्रस्य धर्मत्वं मा भूदिति चोदनेत्यवोचत्तदेवं सूत्रकार एव स्वशास्त्रविषयातिरिक्तं वेदभागमविचारितमसूसुचत्ननुदृष्टो हि तस्यार्थः कर्मावबोधनम्’ ‘तद्भूतानां क्रियार्थेन समाम्नायः’ ‘आम्नायस्य क्रियार्थत्वात्इति सर्वस्य कार्यार्थत्वं दर्शितं, सत्यम् ; तत् प्रक्रमबलात् तन्निष्ठो वेदभाग इति गम्यते, सर्वत्रअपि दृष्टो हि तस्यार्थः कर्मावबोधनमि’ति सर्वस्य कर्मावबोधनमर्थ उच्यते, कथम् ? वेदाध्ययनानन्तरं स्नानविधायकमाम्नायमुपलभ्य वेदस्यानर्थकत्व आशङ्कितेअतिक्रमिष्याम इममाम्नायम् , अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवकल्पयेम ; दृष्टो हि तस्यार्थः कर्मावबोधनम्इत्यर्थसद्भावः प्रदर्शितो नार्थान्तरासद्भावःसोऽयमयोगव्यवच्छेदो नान्ययोगव्यवच्छेदःकर्मशब्देन धर्म एव कार्यत्वादभिहितः ; यतः तदवबोधप्रवृत्तो वेदस्यार्थवत्त्वं मृगयते, किं वेदस्यार्थो विद्यते ? वा ? धर्मत्वेनावगन्तुं शक्यते ? वा इति ? तस्मात् कर्मावबोधनमेव वेदार्थोऽभिप्रेतो भाष्यकृतःयत् पुनःआम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामि’ति, तत्र यद्यानर्थक्यमर्थाभावः, तदसत् ; यतः एवमेवभूतार्थमनुवदन्तीति दर्शितोऽर्थःअथ निष्प्रयोजनत्वम् ; स्वाध्यायाध्ययनविधिर्निष्प्रयोजनमक्षरमात्रमपि ग्राहयतीति, भवतुसोऽरोदीतित्यादीनाम् ; अपुरुषार्थप्रतिपादकत्वात् एकवाक्यत्वात् पृथक्कार्यकल्पनानुपपत्तेः, कल्पयितुं चाशक्यत्वात्यानि पुनः अपास्ताशेषाशिवमात्मानमनुभवपर्यन्तम् अवबोधयन्ति वाक्यानि, तान्यनवद्यप्रयोजनत्वाद्भवन्तितरामेव प्रयोजनवन्तिअतः स्वयमपुरुषार्थत्वात् तदर्थोपकारितया कथञ्चित् पुरुषार्थस्तावकत्वेन प्रयोजनवत्त्वमुक्तं, सर्वस्यैवाक्रियार्थत्वेन आनर्थक्यमाशङ्क्य क्रियार्थत्वेनार्थवत्वमुक्तम्तथा तद्विधान्येव तत्र वाक्यान्युदाहृतानि

कथं यत्तावदिदमिति ; उच्यत इत्यादिना ; अग्निहोत्रादिरपीति ; धर्मतया विचारपदवीमुपारोहतीति ; धर्मतयेति ; यतस्तस्येति ; न चाध्ययनमात्रादिति ; अतोऽध्ययनानन्तरमित्यादिना ; यतो न वेदार्थतयेति ; तन्नूनमिति ; ननु चोदनाग्रहणस्येति ; अपुरुषार्थ इति ; कर्मतामिति ; एकदोपादानादितिएकपदोपादानादिति ; अध्ययनविधिरिति ; अध्ययने माणवकं प्रेरयन्निति ; नाध्ययनस्य पुरुषार्थरूपेति ; असन्देहादिति ; सन्देहः स्यादिति ; वेदांश्चैके सन्निकर्षमिति ; सोऽयमिति ; आभाणक इति ; ततअत इतिश्चोदनेति ; ननु दृष्टो हीति ; प्रक्रमबलादिति ; अपि च दृष्टो हीत्यादिना ; कथमिति ; वेदाध्ययनानन्तरमित्यादिना ; स्नानविधायकमाम्नायमिति ; अतिक्रमिष्यामः इममाम्नायमिति ; अनतिक्रामन्त इति ; अयोगव्यवच्छेद इति ; नान्ययोगव्यवच्छेद इति ; कर्मशब्देन चेति ; कार्यत्वादिति ; स्वाध्यायाध्ययनविधिरिति ; भवत्विति ; एकवाक्यत्वादिति ; कल्पयितुं चाशक्यत्वादिति ; अतःस्वयमिति ; तद्विधान्येवेति ;

स्वाध्यायस्य अर्थविवक्षाविचारहेतुत्वप्रतिपादकाथातःशब्दविरोधः स्याद्वेदार्थविचारप्रतिज्ञाभाव इति चोदयति -

कथं यत्तावदिदमिति ।

धर्मस्यैव सामान्यप्रसिद्धिविशेषविप्रतिपत्त्योर्भावात् तस्यैव पुरुषार्थसाधनत्वावगमाच्च जिज्ञासार्हत्वात् धर्म एव विचार्यते न वेदार्थः, तस्य सामान्यप्रसिद्ध्यादेरभावादित्याह -

उच्यत इत्यादिना ।

वेदहेतुप्रयुक्त्यापि धर्मविचारः सम्भवति, तस्यापि वेदार्थत्वादित्याह -

अग्निहोत्रादिरपीति ।

दैवगत्यादैवगत्य इति पुरुषार्थस्य साधनत्वात् विप्रतिपत्तावन्यतरकोटित्वाच्चकोटित्वाप्यधर्मस्यैवेति धर्मस्यैव विचारयोग्यत्वमित्याह -

धर्मतया विचारपदवीमुपारोहतीति ।

धर्मतयेति ।

दैवगत्या पुरुषार्थसाधनतयेत्यर्थः ।

यतस्तस्येति ।

विप्रतिपत्तिस्कन्धत्वात् विचारयोग्यता विद्यत इत्यर्थः । अत्रावसरशब्देन योग्यताऽभिधीयते । विवक्षितोऽसौ स्वाध्याय इत्यथशब्देन प्रदर्शनं युज्यत इत्यध्याहारः ।

अध्ययनादेव पुरुषार्थसिद्धेर्न धर्मविचारः कर्तव्य इति तत्राह -

न चाध्ययनमात्रादिति ।

वेदस्यार्थविवक्षास्ति, अत एव विचारस्यानुग्राह्यप्रमाणमपि भवति । अतो निरर्थकत्वं मत्वा न स्नातव्यं किन्तु त्वदिष्टो धर्मः, किं वेदार्थः किं वा अन्य इति जिज्ञासस्वेति वदतः सूत्रकारस्य धर्मग्रहणं युक्तमित्याह -

अतोऽध्ययनानन्तरमित्यादिना ।

सूत्रे धर्म इति वेदार्थं उच्यत इत्याशङ्क्य अधीतवेदस्य मम वेदार्थेऽनुभवितव्यमिति नापेक्षा, अपि तु पुरुषार्थसाधन धर्म एव अपेक्षा इति उक्तावेव ज्ञानार्थविचारे प्रवृत्तिरित्याह -

यतो न वेदार्थतयेति ।

स्वरूपप्रमाणकथनायेति मुखतो धर्मलक्षणपरं सूत्रमर्थात् प्रमाणप्रतिज्ञेति प्राभाकराः मुखतः प्रमाणप्रतिज्ञा अर्थात् धर्मलक्षणपरमिति वार्तिककारीयाः । सर्वथाप्युभयकथनपरत्वमस्तीति भावः । वेदप्रमाणको धर्म इति स्यात् । धर्मस्यैव सकलवेदार्थतया विचार्यत्वे वेदप्रमाणको धर्म इति स्यादित्यर्थः ।

कार्यशून्यवस्तुविषयवेदभागमङ्गीकृत्य तस्यापि धर्मविषयत्वप्रसङ्गव्यावृत्तये चोदनामग्रहीत् सूत्रकार इत्याह -

तन्नूनमिति ।

चोदनाग्रहणं सर्वस्य वेदस्य धर्मे प्रामाण्यपरिहाराय न भवति, किन्तु धर्मविषयप्रामाण्यादिप्रवर्तकत्वद्योतनाय तदपि चोदनानिष्पाद्यधर्माख्यार्थभावनायाः स्वर्गादिभाव्यनिष्ठतया पुरुषार्थत्वद्योतनायेत्याह -

ननु चोदनाग्रहणस्येति ।

प्रेरणाकर्मणः प्रेरणाभिधायकस्य चुदप्रेरण इति धातोर्निष्पन्नरूपं चोदनेति पदमिति योजना । प्रेरणात्मकोविधिरिति शब्देन भावनोच्यते ।

अपुरुषार्थ इति ।

पुरुषार्थभावशून्यां स्वयमपि प्रयत्नत्वेन क्लेशार्थत्वात् अपुरुषार्थामर्थभावनां पुरुषेण निष्पादयितुमशक्नुवन् इत्यर्थः ।

कर्मतामिति ।

भाव्यतां साध्यतामित्यर्थः ।

एकदोपादानादितिएकपदोपादानादिति ।

यजेतेत्येकपदोपादानात् प्रत्ययार्थभावनायाः सन्निहिततरमित्यर्थः ।

अध्ययनविधिरिति ।

अध्येतव्य इति तव्यप्रत्ययगतशब्दभावनेत्यर्थः ।

अध्ययने माणवकं प्रेरयन्निति ।

अध्ययनार्थभावनामवाप्तस्वाध्यायभाव्यनिष्ठां माणवकेन निष्पादयन्नित्यर्थः ।

अध्ययनस्य वेदस्य अध्ययनार्थभावनाभाव्यस्य पुरुषार्थत्वाभावे भाव्यविशिष्टरूपेण स्वरूपेण चापुरुषार्थार्थभावनां भावयितुमशक्नुवन्ती शब्दभावना स्वभाव्याध्यस्वभाव्यध्यानार्थेतियनार्थभावनायाः पुरुषार्थत्वायैव स्वर्गादिकमेव यागाद्यर्थभावनाभाव्यं कल्पयित्वा तस्याः पुमर्थत्वसम्पादनेन तद्भाव्यत्वात् । यजेतेत्यादिशब्दभावनायाश्च पुरुषार्थत्वमापाद्य तद्बोधकत्वेन अवाप्तस्वाध्यायस्य च पुमर्थतासम्पादनेन तद्भाव्यत्वायतद्भाव्यत्वेति स्वभाव्याध्ययनार्थभावनायाश्च पुरुषार्थत्वमापादयति । अतः क्रतुभावनायाः पुरुषार्थत्वसिद्धये न चोदनाग्रहणमित्याह -

नाध्ययनस्य पुरुषार्थरूपेति ।

असन्देहादिति ।

वेदान्तानामर्थान्तरपरत्वसन्देहनिवृत्तेरित्यर्थः ।

सन्देहः स्यादिति ।

सन्देहान्तरमपि स्यादित्यर्थः ।

वेदांश्चैके सन्निकर्षमिति ।

वेदांश्च प्रति एके पुरुषाः सन्निकर्षं पौरुषेयत्वं वदन्तीति यावत् ।

लक्षणसूत्रे प्राप्तं वेदग्रहणं विहाय अन्यत्र कुर्वन् न बुद्धिपूर्वकारी स्यादिति परिहरति -

सोऽयमिति ।

आभाणक इति ।

ऐतिह्यमित्यर्थः ।

अतः सर्ववेदस्य धर्मपरत्वव्यावृत्तये चोदनाग्रहणमित्याह -

ततअत इतिश्चोदनेति ।

कृत्स्नस्य वेदस्य धर्मविषयत्वेऽपि वचनमस्तीत्याह -

ननु दृष्टो हीति ।

तस्याम्नायस्य दृष्टप्रयोजनं कर्मावबोध इत्यर्थः । तद्भूतानामित्यत्र तेषु सिद्धेषु रूपादिष्वर्थेषु भूतानां वर्तमानानां क्रियार्थेन क्रियाशेषत्वेन समाम्नायः समुच्चारणमिति योजना ।

दर्शितं कार्यनिष्ठत्वं सत्यं तदित्यत्र तच्छब्देन परामृशति ।

प्रक्रमबलादिति ।

प्रथमद्वितीयसूत्रप्रक्रमसामर्थ्यात् उत्तरं सामान्यवचनं प्रकृतविशेषे क्रियाप्रकरणस्थवाक्ये उपह्रियत इति मातृकायाम्उपसंह्रियत इत्यर्थः ।

वचनत्रयस्य साधारणं परिहारमुक्त्वा एकैकस्यासाधारणं परिहारमाह -

अपि च दृष्टो हीत्यादिना ।

तस्यार्थः, कर्मावबोधनमित्याम्नायमात्रस्य धर्मावबोधे विनियोगः स्पष्ट इति चोदयति -

कथमिति ।

आम्नायस्य अर्थसद्भावपरं भाष्यं न धर्मातिरिक्तार्थाभावपरमित्याह -

वेदाध्ययनानन्तरमित्यादिना ।

स्नानविधायकमाम्नायमिति ।

वेदमधीत्य स्नायादित्याम्नायमित्यर्थः ।

अतिक्रमिष्यामः इममाम्नायमिति ।

वेदमधीत्य अर्थं विचार्य स्नायादित्यर्थं स्वीकुर्म इत्यर्थः ।

अनतिक्रामन्त इति ।

यथाश्रुतार्थं गृह्णन्त इत्यर्थः ।

अयोगव्यवच्छेद इति ।

वेदस्य कर्मावबोधनासम्बन्धं व्यावर्त्य सम्बन्धः प्रतिपाद्यत इत्यर्थः ।

नान्ययोगव्यवच्छेद इति ।

वेदस्यार्थान्तरसम्बन्धो नास्तीति नाभिधीयत इत्यर्थः ।

कर्मशब्दस्य प्रमेयवाचित्वात् तेन धर्मब्रह्मणोरभिधानं स्यादित्याशङ्क्य धर्मनिर्णयार्थं प्रवृत्तप्रकरणबलाद्धर्मस्यैवाभिधानमित्याह -

कर्मशब्देन चेति ।

कार्यत्वादिति ।

कर्मव्युत्पत्तिसम्भवादिति भावः ।

अक्रियार्थानां नियोजनत्वेतिनिष्प्रयोजनत्वप्रसङ्गो न दोषायेति तत्राह -

स्वाध्यायाध्ययनविधिरिति ।

स्वार्थप्रयोजनहीनानाम् अक्रियार्थत्वे निष्प्रयोजनत्वं स्यादिति परिहरति -

भवत्विति ।

तेषामपि पूषाप्रपिष्टभागइत्यादिसंसर्गेष्विव प्रयोजनं कल्प्यतामिति, नेत्याह -

एकवाक्यत्वादिति ।

`अधस्तात् समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्य’ इत्युपरिधारणस्य पूर्वेण एकवाक्यस्य विधानवत् सप्रयोजनो विधिः कल्प्यतामिति नेत्याह -

कल्पयितुं चाशक्यत्वादिति ।

अतः सूत्रं क्रियाप्रकरणपठितनिष्प्रयोजनवाक्यविषयमित्याह -

अतःस्वयमिति ।

तद्विधान्येवेति ।

अर्थवादाधिकरणे क्रियाप्रकरणस्थप्रकरणस्थेतिनिष्प्रयोजनवाक्यान्येवोदाहृतानि, न वेदान्तवाक्यानीत्यर्थः ।