यदपि केचित् — शास्त्रप्रस्थानमन्यथा वर्णयन्ति । न हि किलैवं शास्त्रं प्रस्थितं, किं वेदलक्षणो धर्मः ? उत बुद्धवाक्यादिलक्षणः ? इति । किं तर्हि ? अधीतवेदस्य योऽर्थोऽवगतः, तत्रैव विप्रतिपत्तयः सन्ति, किमयमसौ ? उतायम् इति ? तन्निराकरणार्थः शास्त्रारम्भः इति ॥ तत्रापि न निखिलवेदार्थविचारप्रतीतिः । तत् कथम् ? तथा सति ‘अथातो वेदार्थजिज्ञासा’ इति स्यात् ; यतो न धर्म इति कृत्वा विचारः, किन्तु वेदार्थ इति, सत्यं, तथापि शास्त्रकाराणां पुरुषार्थसिद्ध्यर्थं शास्त्रप्रणयनं, ततश्च पुरुषार्थकथनार्थं धर्मग्रहणमिति । एवं तर्हि धर्म इत्येव कृत्वा विचारो भवतु ; तस्य पुरुषार्थत्वात् सन्दिग्धत्वाच्च । तथा च उत्तरमपि सूत्रमनुगुणं भवति ‘चोदनालक्षणोऽर्थो धर्मः’ इति धर्मस्वरूपविप्रतिपत्तिनिरासपरं ; इतरथा वेदार्थविप्रतिपत्तौ तन्निरासार्थं ‘चोदनालक्षणो वेदार्थः’ इति स्यात् , यतो न धर्मग्रहणे सति वेदार्थविप्रतिपत्तिः शक्या निराकर्तुम् । कथम् ? यत् तावत् चोदनालक्षणो योऽर्थः, स धर्म इति धर्मत्वं ज्ञाप्येत, तदा स एव वेदार्थो नान्य इति न लभ्यते । अथ पुनः स धर्म इति नामनामिसम्बन्धो विधीयते, तदप्रक्रान्तम् ; निष्प्रयोजनम् , अतिप्रसङ्गश्च आपद्येत ॥ अथापि कथञ्चित् धर्मशब्देन वेदार्थ एवोच्यते इति कल्प्येत, तथा सति चोदनालक्षणो वेदार्थो नार्थवादादिलक्षणः, इति सिद्धप्रामाण्यवेदार्थविचारोऽयं स्यात् , उत्तरलक्षणवत् । तत्रानन्तरं प्रामाण्यप्रतिपादनं न युज्येत ॥ ‘वृत्तं प्रमालक्षण’मिति च मन्त्रार्थवादेषु च कार्यार्थत्वे विप्रतिपत्तिः न स्यात् । सा चोत्तरत्रैव निरस्यते । अतः पूर्वोक्तेन न्यायेन कार्यनिष्ठ एव वेदभागो विचार्यतया प्रक्रान्तो विचारितश्च, न वस्तुनिष्ठः ; इत्यतो वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यते -
अथातो ब्रह्मजिज्ञासा इति ॥
इति परमहंसपरिव्राजकादिश्रीशङ्करभगवद्पादान्तेवासिवरश्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां जिज्ञासासूत्रावतरणं नाम द्वितीयवर्णकं समाप्तम् ॥
केचिदिति ।
प्राभाकरा इत्यर्थः ।
अन्यथा वर्णयन्तीति ।
अधीतवेदस्यार्थज्ञानाख्यप्रयोजनपर्यन्तत्वाय अध्ययनविधिप्रयुक्तःविधिपरयुक्त्येति कृत्स्नवेदार्थविचारः प्रवृत्त इति वर्णयन्तीत्यर्थः ।
सामान्यप्रतिपत्तिविशेषविप्रतिपत्तिभ्यां जिज्ञासितत्वादेव धर्मस्य विचारार्हत्वात् धर्मविचारात्मकंधर्मस्य विचारात्मनेति शास्त्रं प्रस्थितमिति पक्षो न भवतीत्याह -
न हि किलैवमिति ।
`उद्भिदा यजेत पशुकाम’ इत्यत्र यः पशुकाम इति पशुकाममुद्दिश्य यागो विधीयते, यो यागः कर्तव्यः इति यागविधानं चोद्दिश्य पशुकामाधिकारः किं वा उभयमिति । तथा सत्रे ये यजमानास्त एव ऋत्विज इति यजमानानुद्दिश्य क्रत्वङ्गभावो विधीयते, किं वा ये ऋत्विज इति ऋत्विज उद्दिश्य यजमानभावो विधीयत इत्यादिवचनव्यक्तिसंशयात् विचार इत्याह -
अधीतवेदस्येति ।
विप्रतिपत्तयः सन्तीति ।
उद्देश्यविधेयभावे विप्रतिपत्तयः सन्तीत्यर्थः ।
तत्रापीति ।
अध्ययनविधिप्रयुक्तत्वात् वेदार्थोपाधौ विचारप्रवृत्तावपि धर्मशब्दसामर्थ्यान्न कृत्स्नवेदार्थविचार इति भावः ।
कृत्स्नवेदाध्ययनप्रयुक्तो विचारः कथमेकदेशविषयः स्यादिति चोदयति -
कथमिति ।
अधीतवेदस्य कस्यचित् श्रेयःसाधनकामित्वादेव मुमुक्षुत्वाभावात् तमधिकृत्य अध्ययनविधेः धर्मविचारप्रयोजकत्वमपरं मुमुक्षुं प्रति ब्रह्मविचारप्रयोजकत्वमिति विभागे सिद्धेऽपि कृत्स्नविचाराभ्युपगमे वेदार्थ इति वक्तव्यमिति ।
तथा सतीति ।
वेदार्थविचारकर्तव्यतोक्तौ श्रेयःसाधनकामी विचार्य निश्चित्यानुष्ठायापूर्वं न निष्पादयति । ततश्च न प्रयोजनं प्राप्नुयात् । श्रेयःसाधनवाचिधर्मशब्देन वेदार्थस्योपादाने प्राप्नुयादिति शङ्कते -
सत्यम् , तथापीति ।
पुरुषार्थरूपेतिपञ्चपादिकायां पुरुषार्थरूपेति न दृश्यते ।
पुरुषार्थसाधनरूपेत्यर्थः ।
वेदार्थस्यापि श्रेयः साधनरूपधर्मत्वोक्तावेवाधिकारिणः प्रवृत्तिश्चेद्धर्मशब्दस्य वेदार्थे रूढिर्न सम्भवति । चैत्यवन्दनादावपि प्रयोगाविप्रतिपत्तेर्जहल्लक्षणापि न सम्भवति । वेदार्थे धर्माभावप्रसङ्गात् श्रेयःसाधनवाचिधर्मशब्दस्य श्रेयोरूपब्रह्माभिधायित्वायोगाच्च वेदार्थे वृत्त्यसम्भवात् धर्म इत्येव कृत्वा विचारो युक्त इति परिहरति -
एवं तर्हीति ।
किञ्चेत्याह ।
तस्य पुरुषार्थत्वादिति ।
पुरुषार्थसाधनत्वादित्यर्थः । सन्दिग्धत्वाच्च इत्यत्र जिज्ञासत्वादितिजिज्ञासितत्वादिति शेषः ।
लक्षणसूत्रमपि धर्मविषयं न वेदार्थविषयमित्याह -
तथा च उत्तरमपीति ।
लक्षणं हि लक्ष्यस्यान्यत्र प्रसङ्गविभ्रमनिरासपरम् । तत्र धर्म एव चैत्यवन्दनादौ प्रसक्ततया विप्रतिपन्नो न वेदार्थः । अतो लक्षणस्य कृतार्थत्वाय धर्म एव लक्ष्यत इत्याह -
धर्मस्वरूपविप्रतिपत्तिनिरासपरमिति ।
किमर्थवादादिलक्षणो वेदार्थः, किं वा चोदनालक्षण इति वेदार्थविप्रतिपत्तिनिरासाय वेदार्थलक्षणपरं किं न स्यादित्याशङ्क्य आह -
इतरथेति ।
धर्मग्रहणे हि अर्थवादलक्षणत्वं निराकृत्य चोदनालक्षणत्वं वेदार्थस्य किं न सिध्यतीत्याशङ्क्य, वेदार्थविप्रतिपत्तिनिरासस्य अप्रतिपन्नत्वात् धर्मविप्रतिपत्तिनिरासस्यैव प्रतिपन्नत्वात्न्नत्वदिति अधिकं दॄश्यते न तथा सिद्ध्यतीत्याह -
यतो न धर्मग्रहणे सतीति ।
अत्र धर्मशब्दस्य वेदार्थे प्रयोगात् वेदार्थविप्रतिपत्तिनिरास एव विवक्ष्यतामिति चोदयति -
कथमिति ।
वेदार्थे धर्मशब्दस्य किमजहल्लक्षणयालक्षणं या इति वृत्तिः किं वा संज्ञात्वेन वृत्तिः, न तावदजहल्लक्षणयेत्याह -
यत्तावदिति ।
चोदनालक्षणो योऽर्थ इति वेदार्थमुद्दिश्य असौ धर्म इति तत्र धर्मशब्दो यदि अजहल्लक्षणया वर्तते तदा वेदार्थे धर्मोऽस्तीति लक्ष्यते न धर्म एव वेदार्थ इति लभ्यत इत्यर्थः ।
चोदनालक्षणशब्दोक्तवेदार्थे स धर्म इति धर्मसंज्ञाविधिपरत्वं सूत्रस्य निराकरोति -
अथ पुनरिति ।
विचार्यत्वेन प्रतिज्ञातधर्मस्य स्वरूपप्रमाणादिकथनं विहायान्यथा न कथनीयमित्याह -
तदप्रक्रान्तमितितदप्रकारान्तमिति ।
किं चाचार्याय गां दद्यादितिकिं चा चाचायोयगादद्यादिति कार्यान्तरे विनियोगार्थमाचार्य इति नाम विधीयते, तद्वदत्र नाम विधानं चेत् कार्यान्तरेऽपि नियागाख्यप्रयोजनं स्यात् , तच्च नास्तीत्याह -
निष्प्रयोजनमिति ।
उत्तरसूत्राणामपि नामविधायकत्वं स्यादित्याह -
अतिप्रसङ्ग इति ।
अथ शब्दवैयर्थ्यं चोदनाशब्दस्य वेदे लक्षणावृत्तिपरिग्रहणप्रसङ्गदूषणं चाभिप्रेत्य अङ्गीकरोति -
अथापि कथञ्चिदिति ।
सिद्धप्रामाण्येति ।
वेदस्य प्रामाण्यात् अर्थवत्वनिश्चये विचारात् प्रागेव सञ्जाते किं वेदार्थश्चोदनालक्षणः, किं वा अर्थवादादिलक्षण इति विशये नविषयेणेति अर्थवादादिलक्षणः, किन्तु चोदनालक्षणो वेदार्थ इति निर्णयपरं सूत्रं स्यात् , तच्चानुपपन्नमनिश्चितत्वादर्थवत्वस्येत्यर्थः ।
उत्तरलक्षणवत् इति ।
उत्तराध्यायवदित्यर्थः ।
प्रथमसूत्रे अध्ययनापूर्वशेषत्वेन प्राप्तमप्रामाण्यं निराकृत्य वेदस्यार्थविवक्षा दर्शिता, न तु तत्र पौरुषेयापौरुषेयत्वप्रमाणान्तरयोग्यविषयअपौरुषेयत्वादिति निमित्तेतित्वादिनिमित्तमप्रामाण्यं निराकृत्य प्रामाण्यं प्रतिपादितमतः अर्थविवक्षाया अपि असिद्धेः, अर्थवत्वसिद्धवत्कारेण वेदार्थमुद्दिश्य लक्षणविधानं न सम्भवति तथापि प्रथमसूत्रसामर्थ्यादेव अर्थवत्वमङ्गीकृत्य लक्षणविधानमिति चेत् तत्राह -
तत्रानन्तरमिति ।
प्रथमसूत्रेण अर्थवत्वे सिद्धे सति वेदार्थत्वेन उत्तरत्र प्रामाण्यप्रतिपादनमिति वक्तुमयुक्तम् , प्रामाण्यस्य सिद्धवस्तुत्वेन वेदार्थत्वायोगात् , अतोऽर्थवत्वनिश्चयाय प्रामाण्यविचारः, भाष्यकारेणापि अर्थवत्वनिश्चयाय प्रामाण्यं विचारितमित्युक्तत्वादित्याह -
वृत्तमिति ।
अर्थवत्वनिश्चयाय प्रमाणलक्षणं वृत्तम् , न त्वर्थवत्वे निश्चिते वेदार्थत्वेन प्रामाण्यप्रतिपादनं वृत्तमित्यर्थः ।
द्वितीयसूत्रेण नार्थवादादिलक्षणो वेदार्थ इति सिद्धत्वात् अर्थवादाधिकरणे मन्त्रादेः वेदार्थरूपधर्मप्रतिपादकत्वमस्तीति शङ्कायाः नोद्भवः सम्भवतीति । तन्निरासाय अधिकरणमनपेक्षितं स्यादित्याह -
मन्त्रेति ।
|| इति द्वितीयवर्णककाशिका ||