अथ तृतीयं वर्णकम्
तत्राथशब्द आनन्तर्यार्थः परिगृह्यते, नाधिकारार्थः । बह्मजिज्ञासाया अनधिकार्यत्वात्
इत्यादि भाष्यम् । तत् जिज्ञासाशब्दस्यावयवार्थेनार्थवत्त्वे युज्यते ? अधिक्रियायोग्यस्य ब्रह्मणस्तज्ज्ञानस्य वा प्राधान्येनानिर्देशात् , प्रधानस्य चेच्छाया अनधिकार्यत्वात् ॥
आनन्तर्यमधिकारो मङ्गलाचरणं प्रकृतादर्थान्तरं चेति अथशब्दस्य लोके चत्वारोऽर्थाः प्रसिद्धाः । इह त्वानन्तर्यमेव उपादीयत इत्यस्मिन्नर्थे भाष्यस्य तात्पर्यमाह -
तत्रार्थशब्द इत्यादिना ।
न अधिकारार्थः, नारम्भार्थ इत्यर्थः ।
अवयवार्थेन अर्थवत्व इति ।
अवयवगतशक्त्या ब्रह्मज्ञानेच्छाभिधायित्व इत्यर्थः ।
अवयवार्थेन अर्थवत्वेऽपि अनधिकार्यत्वादित्येतन्न युज्यते । ब्रह्मजिज्ञासाशब्दार्थभूतब्रह्मतज्ज्ञानयोः ज्ञानस्यानुष्ठेयत्वादेव आरभ्यत्वात् ब्रह्मणश्च प्रमितिविशिष्टरूपेण अनुष्ठेयत्वादेव अधिकार्यत्वादिति तत्राह -
अधिक्रियायोग्यस्य चेति ।
इच्छाविशेषणं ज्ञानं, ब्रह्म च ज्ञानविशेषणमित्यप्रधानत्वान्नोपसर्जनंनोपसर्जनत्वं पदमितिपदं पदान्तरेण सम्बध्यत इति न्यायात् नाधिकारार्थाथशब्देन नान्वय इतिअन्वय इत्यर्थः ।