तर्हि अवयवद्वारेणार्थः स्वीक्रियतां, तथा सति अनधिकार्यत्वादिति भाष्योपपत्तेरित्याशङ्क्य अखण्डशक्त्या विचारार्थत्वात् अवयवार्थत्वाभावात् विचारस्य चारभ्यत्वात् अनधिकार्यत्वादिति भाष्यमसङ्गतमित्याक्षिपति -
अयं तु जिज्ञासाशब्द इति ।
विचारवचनत्वं कथमवसीयत इति तत्राह -
मीमांसापर्याय इति ।
क्रतुगुणकमुपासनमिति ।
उद्गीथादिक्रत्वङ्गविषयोपासनमित्यर्थः ।
सन्धातमिति ।
जिज्ञासेत्यखण्डरूपे विचाराभिधानशक्तिमाश्रित्य प्रयुङ्क्त इत्यर्थः ।
सन्धातवाच्यत्वात् विचारस्य सन्धातमेव प्रयुङ्क्त इत्यन्वयः ।
अन्यथेति ।
जिज्ञासितमित्यत्र जिज्ञासाशब्दस्यापि अवयवार्थाङ्गीकार इत्यर्थः ।
जिज्ञासाशब्दस्य अवयवार्थे अङ्गीकृते इष्यमाणस्य फलत्वं सिध्यतीति चतुर्थ्या फलस्य निर्देशापेक्षाभावात् इच्छायाः विषयापेक्षितत्वेन धर्मस्य जिज्ञासेति कर्मणि षष्ठीसमासं दर्शयित्वा विषय एव दर्शनीयः । न तथा क्रियते, किन्तु अखण्डशक्त्या विचारार्थत्वमङ्गीकृत्य दुःखरूपविचारस्य फलापेक्षत्वात् चतुर्थ्या फलमेव दर्शयतीत्यतः जिज्ञासाशब्दो विचारार्थ एवेत्याह -
अत एवेति ।
अवयवार्थत्वाभावादेवेत्यर्थः ।
धर्मायेति ।
ज्ञातधर्माख्यप्रयोजनाय इत्यर्थः ।
क्रत्वर्थ इति क्रतुस्वरूपोपकारिप्रोक्षणादिरुच्यते । पुरुषार्थ इति फलोपकारिप्रयाजाद्युच्यते । प्रथमसूत्रवाक्यार्थं दर्शयद्भिः भाष्यकृद्भिः विचारपर्यायमीमांसाशब्दः प्रयुक्त इत्याह -
पुनश्च वेदान्तेति ।
शास्त्रवचनो हीति ।
विचारशास्त्रवचनो हीत्यर्थः ।
आरम्भोऽर्थ इति पक्षे सूत्रवाक्यार्थं दर्शयति -
तेन ब्रह्मजिज्ञासेति ।
अवयवार्थाभिधानद्वारेण लक्षणयालक्षणत्वायात्वेति विचारं विवक्षित्वा तस्मिन्नयं जिज्ञासाशब्दः प्रयुज्यमानो दृश्यते । न त्वखण्डशक्त्या विचाराभिधायित्वमङ्गीकृत्य विचारे प्रयुज्यमानो दृश्यत इत्याह -
उच्यत इति ।
नायमिति ।
पाणिनिस्मरणं नास्तीत्याह -
नापि स्मरणमस्तीति ।
न चावयवार्थेनेत्यस्यायमर्थः - क्लृप्तावयवशक्त्यावयवार्थाभिधानद्वारेण लक्षणया विवक्षितविचारार्थत्वे सम्भवति सति समुदायस्य विचारे शक्तिर्न कल्पनीयेति ।
अवयवशक्त्या ज्ञानेच्छाभिधानद्वारेण लक्षितविचारे प्रयोगः । न तु समुदायशक्तिसिद्धावेसिद्धावेनो इतिवेत्यभिप्रेत्याह -
न अन्यथासिद्धत्वादिति ।
विचारस्यावयवार्थत्वाभावे कथमवयवशक्त्या जिज्ञासाशब्दस्य विचारे प्रयोग इति चोदयति -
कथमन्यथासिद्धत्वसित्वमितिमिति ।
विचारस्यावयवार्थत्वाभावेऽपि अवयवार्थसंसर्गाविनाभावादपि विचारे लक्षणया प्रयोगप्रत्ययोपपत्तौ न समुदाये शक्तिकल्पना, अनन्यथासिद्धकार्याभावादिति परिहरति -
अन्तर्णीतेति ।
स्वाभिधेयज्ञानेच्छासंसर्गाविनाभूतविचारार्थत्वादित्यर्थः ।
ज्ञानेच्छयोः संसर्गेण कथं विचारस्याविनाभाव इत्याशङ्क्याह -
तथाहीति ।
विधेः प्रावदस्येति (प्रामाण्यस्य ? )प्रागर्थज्ञानं जातं चेत्तस्य प्राप्तत्वात् इच्छा न सम्भवति । न जातं चेदर्थस्याप्रतिपन्नत्वात् अर्थविषयकअर्थविशेषज्ञानस्यापि इतिज्ञानस्यापि अप्रतिपत्तेः तद्विषयेच्छा न सम्भवति, अनवगतविषयेच्छाऽयोगात् । अतो वाक्यजज्ञानेन प्रतिपन्नेऽर्थे सन्दिग्धे निश्चयफलं परोक्षे अपरोक्षफलं ज्ञानमिष्यत इति वक्तव्यम् । तच्च इष्यमाणं स्वस्येच्छामात्रजन्यत्वायोगात् इच्छायाश्च स्वयमेव ज्ञानहेतुत्वायोगाच्च इच्छानन्तरभाविज्ञानपूर्वभाविअपूर्वभावि चेतिप्रमाणादिविचारप्रयत्नजन्यमित्यभ्युपेयमत इष्यमाणज्ञानं प्रमाणादिविचारमविनाभावेन गमयतीति विचारसाध्यज्ञाने प्रयोगप्रत्ययाविति भावः । उपदेश इति वेद उच्यते ।
तेनेति ।
विचारविषयसमुदायशक्त्यभावादेवेत्यर्थः ।