पञ्चपादिका
वक्तव्यकाशिका
 

अयं तु जिज्ञासाशब्दो विचारवचनो मीमांसापरपर्यायः प्रयुक्तोऽभियुक्तैः — ‘इदमतो जिज्ञासन्ते, किं क्रतुगुणकमुपासनं स्वामिकर्म ? उतर्त्विक्कर्मे’तिइदन्तु जिज्ञास्यम् , किं नु खल्विमौ तप्यतापकावेकस्यात्मनो भेदौ ? उत जात्यन्तरम् ? इतिधर्ममीमांसाभाष्यकारोऽपि सङ्घातमेव प्रायुङ्क्तधर्मं जिज्ञासितुमिच्छेदि’ति, सङ्घातवाच्यत्वाद्विचारस्य ; अन्यथैवमवक्ष्यत् — ‘धर्मं ज्ञातुमिच्छेदि’तिअत एवं धर्माय जिज्ञासाधर्मजिज्ञासे’ति सङ्घातस्यार्थवत्त्वमङ्गीकृत्य चतुर्थीसमासो दर्शितःतदनुसारेण चैतानि भाष्याणि — ‘एवं वेदवाक्यान्येवैभिर्विचार्यन्ते’ ‘वेदवाक्यानि विचारयितव्यानि’ ‘कथं वेदवाक्यानि विचारयेदि’ति ; पुनश्चक्रत्वर्थपुरुषार्थयोर्जिज्ञासा’ ‘क्रत्वर्थपुरुषार्थौ जिज्ञास्येतेइतिइहापि भाष्यकारो वक्ष्यति — ‘तस्माद् ब्रह्म जिज्ञासितव्यमि’तिपुनश्चवेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयतेइतिअतः सङ्घातस्यार्थवत्त्वादधिकारार्थता युज्यतेशास्त्रवचनो हि जिज्ञासाशब्दः ; तेन ब्रह्मजिज्ञासाऽधिकृता वेदितव्येतिउच्यतेनायं जिज्ञासाशब्दः परित्यक्तावयवार्थः केवलमीमांसापर्यायः प्रयुज्यमानो दृश्यतेनापि स्मरणमस्ति चावयवार्थेनार्थवत्त्वे सम्भवति समुदायस्यार्थान्तरकल्पना युक्ताननु वयं कल्पयामः ; दर्शितः शिष्टप्रयोगः, ; तस्यान्यथासिद्धत्वात्कथमन्यथासिद्धत्वम् ? अन्तर्णीतविचारार्थत्वाज्जिज्ञासाशब्दस्यतथाहिविचारपूर्वकसाध्यज्ञानविषयेच्छा जिज्ञासाशब्दात् प्रतीयते, नोपदेशमात्रसाध्यज्ञानविषया ; एवं प्रयोगप्रत्यययोर्दर्शनात् , तेन जिज्ञासाशब्दस्यावयवार्थेनार्थवत्त्वाद् युक्तमुक्तम्ब्रह्मजिज्ञासाया अनधिकार्यत्वादिति

तर्हि अवयवद्वारेणार्थः स्वीक्रियतां, तथा सति अनधिकार्यत्वादिति भाष्योपपत्तेरित्याशङ्क्य अखण्डशक्त्या विचारार्थत्वात् अवयवार्थत्वाभावात् विचारस्य चारभ्यत्वात् अनधिकार्यत्वादिति भाष्यमसङ्गतमित्याक्षिपति -

अयं तु जिज्ञासाशब्द इति ।

विचारवचनत्वं कथमवसीयत इति तत्राह -

मीमांसापर्याय इति ।

क्रतुगुणकमुपासनमिति ।

उद्गीथादिक्रत्वङ्गविषयोपासनमित्यर्थः ।

सन्धातमिति ।

जिज्ञासेत्यखण्डरूपे विचाराभिधानशक्तिमाश्रित्य प्रयुङ्क्त इत्यर्थः ।

सन्धातवाच्यत्वात् विचारस्य सन्धातमेव प्रयुङ्क्त इत्यन्वयः ।

अन्यथेति ।

जिज्ञासितमित्यत्र जिज्ञासाशब्दस्यापि अवयवार्थाङ्गीकार इत्यर्थः ।

जिज्ञासाशब्दस्य अवयवार्थे अङ्गीकृते इष्यमाणस्य फलत्वं सिध्यतीति चतुर्थ्या फलस्य निर्देशापेक्षाभावात् इच्छायाः विषयापेक्षितत्वेन धर्मस्य जिज्ञासेति कर्मणि षष्ठीसमासं दर्शयित्वा विषय एव दर्शनीयः । न तथा क्रियते, किन्तु अखण्डशक्त्या विचारार्थत्वमङ्गीकृत्य दुःखरूपविचारस्य फलापेक्षत्वात् चतुर्थ्या फलमेव दर्शयतीत्यतः जिज्ञासाशब्दो विचारार्थ एवेत्याह -

अत एवेति ।

अवयवार्थत्वाभावादेवेत्यर्थः ।

धर्मायेति ।

ज्ञातधर्माख्यप्रयोजनाय इत्यर्थः ।

क्रत्वर्थ इति क्रतुस्वरूपोपकारिप्रोक्षणादिरुच्यते । पुरुषार्थ इति फलोपकारिप्रयाजाद्युच्यते । प्रथमसूत्रवाक्यार्थं दर्शयद्भिः भाष्यकृद्भिः विचारपर्यायमीमांसाशब्दः प्रयुक्त इत्याह -

पुनश्च वेदान्तेति ।

शास्त्रवचनो हीति ।

विचारशास्त्रवचनो हीत्यर्थः ।

आरम्भोऽर्थ इति पक्षे सूत्रवाक्यार्थं दर्शयति -

तेन ब्रह्मजिज्ञासेति ।

अवयवार्थाभिधानद्वारेण लक्षणयालक्षणत्वायात्वेति विचारं विवक्षित्वा तस्मिन्नयं जिज्ञासाशब्दः प्रयुज्यमानो दृश्यते । न त्वखण्डशक्त्या विचाराभिधायित्वमङ्गीकृत्य विचारे प्रयुज्यमानो दृश्यत इत्याह -

उच्यत इति ।

नायमिति ।

पाणिनिस्मरणं नास्तीत्याह -

नापि स्मरणमस्तीति ।

न चावयवार्थेनेत्यस्यायमर्थः - क्लृप्तावयवशक्त्यावयवार्थाभिधानद्वारेण लक्षणया विवक्षितविचारार्थत्वे सम्भवति सति समुदायस्य विचारे शक्तिर्न कल्पनीयेति ।

अवयवशक्त्या ज्ञानेच्छाभिधानद्वारेण लक्षितविचारे प्रयोगः । न तु समुदायशक्तिसिद्धावेसिद्धावेनो इतिवेत्यभिप्रेत्याह -

न अन्यथासिद्धत्वादिति ।

विचारस्यावयवार्थत्वाभावे कथमवयवशक्त्या जिज्ञासाशब्दस्य विचारे प्रयोग इति चोदयति -

कथमन्यथासिद्धत्वसित्वमितिमिति ।

विचारस्यावयवार्थत्वाभावेऽपि अवयवार्थसंसर्गाविनाभावादपि विचारे लक्षणया प्रयोगप्रत्ययोपपत्तौ न समुदाये शक्तिकल्पना, अनन्यथासिद्धकार्याभावादिति परिहरति -

अन्तर्णीतेति ।

स्वाभिधेयज्ञानेच्छासंसर्गाविनाभूतविचारार्थत्वादित्यर्थः ।

ज्ञानेच्छयोः संसर्गेण कथं विचारस्याविनाभाव इत्याशङ्क्याह -

तथाहीति ।

विधेः प्रावदस्येति (प्रामाण्यस्य ? )प्रागर्थज्ञानं जातं चेत्तस्य प्राप्तत्वात् इच्छा न सम्भवति । न जातं चेदर्थस्याप्रतिपन्नत्वात् अर्थविषयकअर्थविशेषज्ञानस्यापि इतिज्ञानस्यापि अप्रतिपत्तेः तद्विषयेच्छा न सम्भवति, अनवगतविषयेच्छाऽयोगात् । अतो वाक्यजज्ञानेन प्रतिपन्नेऽर्थे सन्दिग्धे निश्चयफलं परोक्षे अपरोक्षफलं ज्ञानमिष्यत इति वक्तव्यम् । तच्च इष्यमाणं स्वस्येच्छामात्रजन्यत्वायोगात् इच्छायाश्च स्वयमेव ज्ञानहेतुत्वायोगाच्च इच्छानन्तरभाविज्ञानपूर्वभाविअपूर्वभावि चेतिप्रमाणादिविचारप्रयत्नजन्यमित्यभ्युपेयमत इष्यमाणज्ञानं प्रमाणादिविचारमविनाभावेन गमयतीति विचारसाध्यज्ञाने प्रयोगप्रत्ययाविति भावः । उपदेश इति वेद उच्यते ।

तेनेति ।

विचारविषयसमुदायशक्त्यभावादेवेत्यर्थः ।