ननु एवमपि कुत एतत् ? अन्तर्णीतं विचारमाश्रित्य शब्दतो गुणत्वेऽप्यर्थलक्षणेन प्राधान्येन ब्रह्मतज्ज्ञानयोरधिकारयोग्यत्वाच्चाधिक्रियमाणत्वमङ्गीकृत्याधिकारार्थत्वं किमिति न गृह्यते ? येन शब्दलक्षणेन प्राधान्येनेच्छाया अनधिकार्यत्वादानन्तर्यार्थत्वमेव परिगृह्यत इति, उच्यते — शास्त्रस्यानारम्भप्रसङ्गादधिकारार्थत्वानुपपत्तेः । अधिकारार्थत्वे ह्यप्रयोजनं शास्त्रं काकदन्तपरीक्षावदनारभ्यं स्यात् , तत्र कस्याधिकार उच्येत ?
अवयवशक्त्या प्राप्तार्थाभिधानद्वारेण लक्षणया विचारार्थत्वात् अखण्डरूपोऽपिविवादद्वारेति(विचारद्वारेति ? )..... विषयशक्तिकल्पनाभावेऽपि अनधिकार्यत्वात् इति भाष्यमसङ्गतम् , अवयवार्थभूतब्रह्मज्ञानयोर्लक्ष्यविचारस्य चारभ्यत्वादित्याह -
नन्वेवमपि कुत एतदिति ।
लक्ष्यार्थत्वात् विचारस्य गुणत्वमुच्यते । ब्रह्मतज्ज्ञानयोश्च इच्छाविशेषणत्वात् गुणत्वमुच्यत इति प्रयोजनवत्वात् त्रयाणामर्थरूपेण प्राधान्यमुच्यते । शब्दतो गुणत्वेऽप्यर्थ लक्षणेन प्राधान्येनान्तर्णीतं विचारमाश्रित्येति सम्बन्धः । लक्षितविचारस्य ब्रह्मतज्ज्ञानयोश्च आरम्भयोग्यत्वात् अन्यतमस्याधिक्रियमाणत्वं आरभ्यमाणत्वमङ्गीकृत्याधिकारार्थत्वमारभ्यत्वं किमिति न गृह्यत इति योजना । येनेतिऽअर्थतः प्राधान्यानङ्गीकारेणेत्यर्थः ।
अथशब्देन विचारस्यानन्तर्याभिधानमुखेन विचारं प्रति पुष्कलकारणत्वेन वेदोक्तसाधनसम्पन्नस्य वेदोक्ताधिकारिविशेषस्य न्यायतः समर्पणाभावे अथशब्दस्य विचारारम्भार्थत्व एव कर्तव्यतया विधीयमानो विचारोऽधिकार्यभावादेवाननुष्ठेयः स्यादिति परिहरति -
उच्यत इति ।
अनारम्भप्रसङ्गादिति ।
शास्त्राख्यविचारस्य अननुष्ठानप्रसङ्गादित्यर्थः ।
अप्रयोजनमिति ।
अथशब्देन समर्पिताधिकार्याभावात् तेनानुष्ठिततया प्रयोजनपर्यन्तं न भवेदित्यर्थः ।
कस्याधिकार उच्येत इति ।
शास्त्रस्यारम्भानर्हत्वे सत्यथशब्देन कस्यारम्भ उच्येत इत्यर्थः ।