ननु ब्रह्मज्ञानं प्रयोजनम् ; तदर्थः शास्त्रारम्भः, न ; ब्रह्मज्ञानेऽर्थित्वानुपपत्तेः, ब्रह्मज्ञानाद्धि मनसोऽपि वियोगान्निखिलविषयानुषङ्गनिवृत्तिः श्रूयते । सा च सार्वभौमोपक्रमं ब्रह्मलोकावसानमुत्कृष्टोत्कृष्टसुखं श्रूयमाणं सोपायं निवर्तयति । अतो ब्रह्मज्ञानादुद्विजते लोकः ; कुतस्तत्र प्रवृत्तिः ? ननु आनन्दरूपताऽपि ब्रह्मज्ञानादाप्यते, अतस्तदर्थं प्रवर्तते तत्र, मैवम् ; न हि ब्रह्मानन्दोऽननुभूतपूर्वोऽनुभूतभोग्यसुखाभिलाषं मन्दीकर्तुमुत्सहते, येन तदुज्झित्वा ब्रह्मज्ञाने प्रवर्तेत । ननु परितृप्तरूपताऽपि ब्रह्मज्ञानात् , अतः परितृप्तः किं कामयते ? अतृप्तिनिमित्तकत्वात् कामस्य ; तथा च श्रुतिः — ‘आप्तकामः आत्मकाम’ इति । स्मृतिरपि ‘आत्मलाभान्न परं विद्यते’ ‘एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारते’ति । न ; तृप्तेरेवोद्वेगदर्शनाद्विषयविच्छेदात्मिकायाः । तथा च वक्तारो भवन्ति, अहो कष्टं किमिति सृष्टिरेवं न बभूव ? यत् सर्वमेव भोक्तुं सामर्थ्यमतृप्तिर्भोग्यानां चाक्षयः — इति । रागिगीतं श्लोकमप्युदाहरन्ति — ‘अपि वृन्दावने शून्ये श्रृगालत्वं स इच्छति । न तु निर्विषयं मोक्षं कदाचिदपि गौतम ॥ ’ इति ।
अथशब्देनाधिकारिप्रतिपत्त्यभावेऽपि अर्थवादगतमोक्षं ज्ञानं वा प्रयोजनम् , अत्र न स्पष्टम्रात्रिसत्रन्यायेन साध्यत्वेन परिणामस्य मोक्षकामो ब्रह्मज्ञानकामो वा विचारयेदित्यधिकारिविशिष्टविधिप्रतिपत्तेः, तेनानुष्ठेयत्वं विचारस्येति चोदयति -
ननु ब्रह्मज्ञानमिति ।
तज्ज्ञानप्रयोजनत्वात् तेन प्रेरिततया सर्वेषां विचारे अधिकारित्वेनान्वय इति विकल्प्य फलाभिलाषमात्रात् चेत् ब्रह्मज्ञानानन्दावाप्तिपरितृप्ततेत्याद्यर्थवादस्तु फलानामथशब्देन आनन्तर्याभिधानमुखेन न्यायेन उपपादनानङ्गीकारात् अनुपपन्नप्रयोजनेऽर्थित्वानुपपत्तेर्न तत् कामिनामधिकारित्वेन अन्वय इत्याह -
न ब्रह्मज्ञानेऽर्थित्वानुपपत्तेरित्यादिना ।
अनुषङ्गः सम्बन्ध इत्यर्थः ।
परितृप्तेः प्रयोजनत्वसिद्धये सकलकामनिवृत्तिरूपत्वं दर्शयति -
परितृप्तः किं कामयत इति ।
अन्यस्य कामित्वस्याभावे श्रुतिमाह -
तथा च श्रुतिरिति ।
आत्मकामः स्वरूपभूतकामित्ववानित्यर्थः ।
आत्मकामत्वादाप्तकामः, आत्मनोऽन्यस्य लभ्यस्याभावे स्मृतिमाह -
आत्मलाभादिति ।
शृगालत्वं स इच्छतीति ।
विषयत्वे लभ्यत इति भावः ।