पञ्चपादिका
वक्तव्यकाशिका
 

ननु ब्रह्मज्ञानं प्रयोजनम् ; तदर्थः शास्त्रारम्भः, ; ब्रह्मज्ञानेऽर्थित्वानुपपत्तेः, ब्रह्मज्ञानाद्धि मनसोऽपि वियोगान्निखिलविषयानुषङ्गनिवृत्तिः श्रूयतेसा सार्वभौमोपक्रमं ब्रह्मलोकावसानमुत्कृष्टोत्कृष्टसुखं श्रूयमाणं सोपायं निवर्तयतिअतो ब्रह्मज्ञानादुद्विजते लोकः ; कुतस्तत्र प्रवृत्तिः ? ननु आनन्दरूपताऽपि ब्रह्मज्ञानादाप्यते, अतस्तदर्थं प्रवर्तते तत्र, मैवम् ; हि ब्रह्मानन्दोऽननुभूतपूर्वोऽनुभूतभोग्यसुखाभिलाषं मन्दीकर्तुमुत्सहते, येन तदुज्झित्वा ब्रह्मज्ञाने प्रवर्तेतननु परितृप्तरूपताऽपि ब्रह्मज्ञानात् , अतः परितृप्तः किं कामयते ? अतृप्तिनिमित्तकत्वात् कामस्य ; तथा श्रुतिः — ‘आप्तकामः आत्मकामइतिस्मृतिरपिआत्मलाभान्न परं विद्यते’ ‘एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारते’ति ; तृप्तेरेवोद्वेगदर्शनाद्विषयविच्छेदात्मिकायाःतथा वक्तारो भवन्ति, अहो कष्टं किमिति सृष्टिरेवं बभूव ? यत् सर्वमेव भोक्तुं सामर्थ्यमतृप्तिर्भोग्यानां चाक्षयःइतिरागिगीतं श्लोकमप्युदाहरन्ति — ‘अपि वृन्दावने शून्ये श्रृगालत्वं इच्छति तु निर्विषयं मोक्षं कदाचिदपि गौतम ॥ ’ इति

अथशब्देनाधिकारिप्रतिपत्त्यभावेऽपि अर्थवादगतमोक्षं ज्ञानं वा प्रयोजनम् , अत्र न स्पष्टम्रात्रिसत्रन्यायेन साध्यत्वेन परिणामस्य मोक्षकामो ब्रह्मज्ञानकामो वा विचारयेदित्यधिकारिविशिष्टविधिप्रतिपत्तेः, तेनानुष्ठेयत्वं विचारस्येति चोदयति -

ननु ब्रह्मज्ञानमिति ।

तज्ज्ञानप्रयोजनत्वात् तेन प्रेरिततया सर्वेषां विचारे अधिकारित्वेनान्वय इति विकल्प्य फलाभिलाषमात्रात् चेत् ब्रह्मज्ञानानन्दावाप्तिपरितृप्ततेत्याद्यर्थवादस्तु फलानामथशब्देन आनन्तर्याभिधानमुखेन न्यायेन उपपादनानङ्गीकारात् अनुपपन्नप्रयोजनेऽर्थित्वानुपपत्तेर्न तत् कामिनामधिकारित्वेन अन्वय इत्याह -

न ब्रह्मज्ञानेऽर्थित्वानुपपत्तेरित्यादिना ।

अनुषङ्गः सम्बन्ध इत्यर्थः ।

परितृप्तेः प्रयोजनत्वसिद्धये सकलकामनिवृत्तिरूपत्वं दर्शयति -

परितृप्तः किं कामयत इति ।

अन्यस्य कामित्वस्याभावे श्रुतिमाह -

तथा च श्रुतिरिति ।

आत्मकामः स्वरूपभूतकामित्ववानित्यर्थः ।

आत्मकामत्वादाप्तकामः, आत्मनोऽन्यस्य लभ्यस्याभावे स्मृतिमाह -

आत्मलाभादिति ।

शृगालत्वं स इच्छतीति ।

विषयत्वे लभ्यत इति भावः ।