पञ्चपादिका
वक्तव्यकाशिका
 

मा भूद् ब्रह्मज्ञानार्थिता, वेदार्थत्वादेव ब्रह्मज्ञानं कर्तव्यम् ; स्वाध्यायाध्ययनस्यार्थावबोधफलकत्वात्स्यादेतदेवम् ; यद्यर्थावबोधफलाध्ययनक्रिया स्यात् , सा ह्यधीयमानावाप्तिफलत्वादक्षरग्रहणान्ताअथाक्षरग्रहणं निष्प्रयोजनमिति तत्र पर्यवसानं विधेः, भवतु तर्हि सक्तूनां गतिःतदपि ; अक्षरेभ्यः प्रयोजनवदर्थावबोधदर्शनात् तर्हि निष्प्रयोजनान्यक्षराणि ; अतस्तत्पर्यन्तमध्ययनं निष्फलम् ; अतोऽक्षरग्रहणादेव नियोगसिद्धेः फलप्रयुक्त एवार्थावबोधःअपि अक्षरग्रहणान्तो विधिर्निष्प्रयोजनः, इति सर्वत्र, प्रयोजनवदर्थावबोधपर्यन्तता कल्पयितुमपि शक्यतेतत्रावश्यं कल्पनीयाऽक्षरग्रहणान्ततातद्यथा राजन्यस्य सत्रवैश्यस्तोमबृहस्पतिसवानामाम्नानं वैश्यस्य चाश्वमेधराजसूयसत्राणां पाठः तेषामनध्ययनमेव ; स्वाध्यायशब्देन सकलवेदवाचिनाऽध्ययनस्य विहितत्वात्ननु चाश्रूयमाणाधिकारोऽध्ययनविधिः, दृष्टश्चाक्षरग्रहणेऽर्थावबोधः, कल्पनामधिकारस्य निरुन्धन् स्वयमधिकारस्य हेतुः सम्पद्यतेदृष्टाधिकारेषु प्रत्यक्षतस्तदुपलब्धावधिकारसिद्धिःअतोऽर्थावबोधपर्यन्तः स्वाध्यायाध्ययननियोगः ; तेन नियोगसिध्यर्थमेव सकलवेदार्थविचारः, अत्रोच्यतेभवेदध्ययनविधेरर्थावबोधः प्रयोजनम् , नाधिकारहेतुता, अध्ययनात्प्रागसिद्धत्वात्प्राक् चाधिकारज्ञानेन प्रयोजनम् ; अतो विधेर्दृष्टाधिकारत्वेनार्थावबोधसिद्धिः

अध्ययनविधेः त्रैवर्णिकाधिकारत्वात् अर्थज्ञानाख्यफलसिद्धये अध्ययनविधिप्रयुक्तत्वाच्च विचारस्य विधित एव सर्वाधिकारं शास्त्रमिति चोदयति -

मा भूदिति ।

अतो ज्ञानसाधनविचारे अध्ययनविधिः अधिकारिणः प्रेरक इति भावः । तत्र किं विचारसाध्यज्ञानमध्ययनस्यान्वयव्यतिरेकसिद्धतया दृष्टफलं किं वा अध्ययनविधेः प्रयोजनपर्यन्ततानुपपत्तिलभ्यं फलं किं वा अर्थज्ञानकामोऽध्ययनं कुर्यादित्यर्थः ।

ज्ञानमुद्धिश्य विधानात् अधिकारिविशेषणतया शास्त्रीयं फलमिति बहिर्विकल्प्य न तावद् दृष्टफलं विचारसाध्यज्ञानादर्शनात् आपातदर्शनस्य च अध्ययनानन्तरभाविनो विचारानपेक्षत्वादित्यभिप्रेत्य प्रथमविकल्पं दूषयति -

स्यादेतदेवमिति ।

द्वितीय विकल्पं दूषयति -

सा हीति ।

अवाप्तिः अक्षरग्रहणमिति च वेदस्य स्वाधीनोच्चारणक्षमत्वं नाम वेदगतो धर्म उच्यते । अध्येतव्य इति तव्यप्रत्ययेन स्वाध्यायोऽवाप्तव्यः । संस्कार्यश्चेत्यवाप्तिरूपदृष्टफलविशिष्टतया संस्काराख्यादृष्टफलतया च स्वाध्यायस्याभिधानात् शब्दफलसम्भवे सति अर्थज्ञानफलं नाभ्युपेयमिति भावः ।

अक्षरग्रहणं निष्प्रयोजनमिति ।

साध्यरूपत्वेऽपि अपुरुषार्थमित्यर्थः ।

भवतु तर्हि सक्तूनां गतिरिति ।

अवाप्तस्वाध्यायस्याफलत्वात् स्वाध्यायेनाध्ययनं स्वर्गाय कुर्यादिति निर्वाहः स्यादित्यर्थः ।

अर्थावबोधदर्शनात् इति ।

अवाप्ताक्षरेभ्यो अर्थावबोधाख्यदृष्टफलस्य दर्शनात् न सक्तुन्यायेन अदृष्टफलाय विधिरित्यर्थः ।

अर्थावबोधस्यापि सुखत्वाभावात् पारम्पर्येण सुखहेतुत्वादेव पुरुषार्थत्वे वक्तव्ये अक्षरग्रहणस्यापि तदस्त्येवेति तव्यप्रत्ययेन श्रूयमाणावाप्तस्वाध्याय एव प्रयोजनं भवतु इत्याह -

न तर्हीति ।

निष्प्रयोजनानिष्प्रयोजनादीतिनीति ।

अक्षरग्रहणपर्यन्तविधिव्यापारे फलवदर्थावबोधस्य निमित्तत्वं स्यादिति,

तत्राह -

फलप्रयुक्त एवेति ।

अवाप्ताक्षरबलादेव अर्थावबोधो न तु विधिफलमित्यर्थः ।

फलवदर्थविषयावबोधफले अध्ययनविधौ यस्य यस्मिन् कर्मण्यधिकारः तस्य तद्वाक्याध्ययनमेव स्यात् न वाक्यान्तराध्ययनं तत्र अर्थज्ञानानन्तरप्रवृत्त्यादिफलाभावादेवार्थज्ञानान्नअर्थज्ञानादेवान्नेति कृत्स्नवेदाध्ययनसिद्धिरित्याह -

अपि चेति ।

अनधिकृतकर्मवाक्यगतस्य अध्ययनजन्यापूर्वस्यार्थज्ञानक्रत्वनुष्ठानद्वारेण अपूर्वशेषत्वाभावेऽपि प्रायश्चित्तजपाद्यपूर्वोपकारित्वमस्तीति द्रष्टव्यम् । तत्रावश्यतत्रावश्येत्यत्रेतिमित्यत्र तत्रेति वक्ष्यमाणसत्रादिवाक्याध्ययनमभिप्रैति । अर्थज्ञानकामोऽर्थज्ञानाय अध्ययनं कुर्यादित्यर्थः ।

ज्ञानमुद्दिश्याध्ययनविधानात् अधिकारिविशेषणतया शास्त्रीयं फलमर्थज्ञानमध्ययनस्येति तृतीयमुत्थापयति -

ननु चेति ।

अधिक्रियते अस्मिन् कर्मण्यनेनेत्याधिकार इति विधिपुरुषसम्बन्धनिमित्तजीवनफलकामादिरुच्यते । विश्वजिन्न्यायेन स्वर्गफलं परिकल्प्य स्वर्गकामोऽधिकारी कल्प्यत इत्याशङ्क्य दृष्टफलसम्भवे तथा न कल्प्यमित्याह -

दृष्टश्चेति ।

कल्पनामधिकारस्येति ।

कामितया विधि पुरुषसम्बन्धनिमित्तफलस्य कल्पनां निरुन्धन्नित्यर्थः ।

स्वयमधिकारहेतुरिति ।

कामिततया विधिपुरुषसम्बन्धहेतुरित्यर्थः ।

अर्थावबोधायाध्ययने विहितेऽपि अध्ययनविधिना विचारो न विधीयत इति तत्राह -

दृष्टाधिकारेष्विति ।

दृष्टफलेषु विधिरित्यर्थः । अधिकारसिद्धिः नियोगसिद्धिः फलं दृष्ट्वैव भवतीत्यर्थः ।

किं विहिताध्ययनस्य फलभूतावाप्तस्वाध्यायसामर्थ्यात् विचारव्यवधानेन वा अर्थज्ञानोत्पत्तेः अर्थज्ञानमध्ययनस्य फलमित्युच्यते, किं वा अर्थावबोधकामोऽर्थावबोधायाध्ययनं कुर्यात् इति विधानात् अध्ययनफलमित्युच्यत इति बहिः विकल्प्य प्रथमविकल्पोऽङ्गीकृत इत्याह -

अत्रोच्यत इति ।

अध्ययनात् प्राक् प्रतिपन्नतया कामितत्वेन तदुद्देशेन विधानं स्यात् , वेदार्थस्य तु प्रागप्रतिपन्नतया तद्विशेषितज्ञानस्यापि अप्रतिपन्नअप्रतिपन्नदेवकामितत्वेतित्वादेव कामितत्वायोगात् नार्थज्ञानमुद्दिश्याध्ययनविधानमिति नाध्ययनफलमर्थज्ञानमिति द्वितीयविकल्पं दूषयति -

नाधिकारहेतुतेति ।

अर्थज्ञानस्य कामिततया पुरुषस्य विधौ नियोज्यत्वेन सम्बन्धहेतुता नास्तीत्यर्थः ।

प्राक् चाधिकारज्ञानेन प्रयोजनमिति ।

प्राक्तनेनाधिकाराख्यफलविषयज्ञानेन हि तदुद्देशेन विधानाख्यप्रयोजनं स्यादित्यर्थः ।

अध्ययनात् प्राक् अर्थज्ञानाख्यफलविषयज्ञानमस्तीत्याशङ्क्याह -

प्राक्चेति ।

प्राक्चाधिकारज्ञाने प्राक् फलरूपार्थज्ञानविषयज्ञाने सिद्धे न प्रयोजनं फलरूपार्थविज्ञानविशेषणतया अर्थस्य ज्ञातत्वात् अर्थज्ञानार्थं न विधिना प्रयोजनमित्यर्थः । दृष्टाधिकारत्वेन दृष्टप्रयोजनत्वेनेति यावत् ।