यद्येवमधिकारश्रवणादर्थावबोधे च प्रतिपक्षकल्पनानुपपत्तेस्तस्य चाधिकारहेतुत्वानभ्युपगमादप्रवृत्तिरेवाध्ययने प्राप्ता । अत्र केचिदाहुः — आचार्यकरणविधिप्रयुक्तस्याध्ययनस्यानुष्ठानम् आधानस्येव कामश्रुतिप्रयुक्तस्य इति । तदयुक्तमित्यपरे । कथम् ? ‘अष्टवर्षं ब्राह्मणमुपनयीते’ति यद्ययमाचार्यस्य नियोगः ? माणवको न नियुक्तो भवति । अनियुक्तस्य च स्वाध्यायाध्ययने प्रवृत्तिर्न सम्भवति । किञ्चान्यत् — आचार्यकरणविधिरनित्यः, ‘ब्राह्मणस्याधिकाः प्रवचन याजनप्रतिग्रहाः’ इति वृत्त्यर्थोऽधिकारः ; अतः स्वेच्छातः प्रवृत्तिः । उपनयनाख्यस्तु संस्कारो नित्यः ; अकरणे दोषश्रवणात् — ‘अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ नैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित् । ब्राह्मान् यौनांश्च सम्बन्धानाचरेद् ब्राह्मणः क्वचिदि’ति ॥ संस्कारश्च स्वाध्यायाध्ययनार्थः । एवं च स्वाध्यायाध्ययनमपि नित्यम् । तथा च निन्दाश्रवणम् — ‘अश्रोत्रिया अननुवाक्या अनग्नयः शूद्रसधर्माणो भवन्ती’ति । एवं चेत् कथं नित्यमनित्येन प्रयुज्यते ? इति वाच्यम् । ननु कथमाचार्यकरणविधिरनित्यः ? यावता वृत्त्यर्थो हि सः । न हि कश्चिद्विना धनेन जीविष्यति । तथा चोक्तं — ‘जीविष्यति विना धनेनेत्यनुपपन्नमि’ति । अतः सर्वेषां सर्वदा समीहितफलः सन् कथमनित्यः स्यात् ? भवेदेवं नित्यता फलवशेन, न शब्दात् । तथाहि — फलस्य नित्यसमीहितत्वादवश्यकर्तव्यता वास्तवी । तत्रासति शब्दव्यापार इच्छातः कर्तव्यताप्रतिपत्तिः स्यात् , न कर्तव्यताप्रतिपत्तेरिच्छा । शाब्द्यां हि नित्यकर्तव्यताप्रतिपत्तौ शब्दस्य सर्वदा सर्वान् प्रत्येकरूपत्वादिच्छाऽपि तद्वशवर्तिनी तथैव स्यात् ; औचित्यादिभावेऽपि कस्यचित् कथञ्चित् क्वचित् कदाचिदिच्छायाः । प्रमाणतस्तावान्नित्यः । तेन नित्येन तथाविधमेव प्रयुज्यते, इति न नित्यानित्यसंयोगविरोधः फलवशात्तु तत्कर्तव्यताप्रतिपत्तौ यद्यपि नित्याभिलषितं फलम् ; तथाऽप्युपायान्तरादपि तत्सिद्धेः, तदेकोपायत्वेऽप्यालस्यादायासासहिष्णुतया वा कामस्य कुण्ठीभावे न कर्तव्यतायाः प्रतिपत्तिः, इत्यनित्यत्वे सति न तेन नित्यस्य प्रयोज्यत्वमुपपद्यते ॥
इदानीमध्ययनविधेर्नित्याधिकारिणा सह साधिकारितां प्रतिपादयितुं अधिकारिविशेषणाभावात् अधिकार्यभावात् अनध्ययनमेवेति अध्ययनप्रवृत्तिमाक्षिपति -
यद्येवमिति ।
अधिकाराश्रवणात् अधिकारिविशेषणाश्रवणादेव अधिकार्यभावादित्यर्थः ।
तस्य चाधिकारहेतुत्वानभ्युपगमात् इति ।
अर्थज्ञानस्य कामिततया पुरुषविशेषणत्वेन पुरुषस्य नियोज्यतया विधिसम्बन्धहेतुत्वानभ्युपगमादित्यर्थः ।
अन्यतः प्राप्तानुष्ठानाध्ययनविषयत्वादधिकारिणः परिकल्प्य न प्रवर्तयति अध्ययनविधिरिति प्राभाकराणां मतमाह -
अत्र केचिदाहुरिति ।
‘अष्टवर्षं ब्राह्मणमुपनयीत’, ‘तमध्यापयीत’, इति विधिः आचार्यकरणविधिरित्युच्यते । अध्यापनविधिविषयतदङ्गताभावेऽध्ययनस्य स्वतन्त्रविध्यन्तरविहितस्यविवक्षितस्येति कथं स्वतन्त्रविध्यन्तरप्रयुक्तानुष्ठानतेति तत्राह -
आधानस्येवेति ।
कामनैव दर्शपूर्णमासादिविधिसहकारितया यथा आधानमनुष्ठापयति तथा आचार्यकरणकामनैव आचार्यप्रेरणद्वारेणाध्ययनं माणवकेन निर्वर्तयतिनिवर्तयति इति अध्यापनसिद्ध्यर्थमित्यर्थः ।
नित्याधिकारेण साधिकारतया अध्ययनाअध्ययनेतिनुष्ठापकत्वमध्ययनविधेर्वदितुमाह -
तदयुक्तमिति ।
स्वनियोगं प्रतिपद्यानुष्ठातुमसमर्थमाणवकस्य नित्याधिकारित्वकल्पनमयुक्तमित्याह -
कथमिति ।
आचार्यकरणविधिस्ताविधिस्तानितिवत् नाविहितमध्ययनं प्रयुङ्क्ते, अध्ययनानधिकारिणं शूद्रादीनां तत्र प्रयोजनशून्यतया आचार्यगुणभावेन प्रवृत्त्ययोगात् । अथ विहितमेवाध्ययनं प्रयोजयति । तर्हि अस्यायं अस्यायावधिरितिविधिरिति विधिस्वरूपनिर्णयाय अधिकारित्वेन माणवकस्यान्वयो वक्तव्यः, अन्यथा अध्येतृविशेषापरिज्ञानात् यं कञ्चिदध्यापयेदित्याह -
अष्टवर्षमिति ।
यद्ययमाचार्यस्य नियोग इति ।
यद्ययमाचार्यकरणकरकामस्येतिकामस्याध्यापने नियोग इत्यर्थः, माणवको न नियुक्तो भवतीति अध्ययनविधेः साधिकारत्वेन अनुष्ठापकत्वाभावे माणवकस्याव्यापारे अध्ययनविधिना प्रवर्तितो न भवतीत्यर्थः ।
अनियुक्तस्येति ।
अध्ययनविधिना अप्रवर्तितस्येत्यर्थः । तस्माद्यं कञ्चिदध्यापयेदिति भावः ।
किं च द्रव्यार्जनफलतया काम्यविधित्वादनित्येन अध्यापनविधिना नित्यस्याध्ययनस्य अनुष्ठानाङ्गीकारे कामनोपरमे अध्यापनोपरमान्नित्याध्ययनं सम्पादयितुं न शक्यमित्याह -
किं चान्यदिति ।
वृत्त्यर्थोऽधिकार इति ।
जीवनार्थमधिकारोऽअधिकारोतीतिपीत्यर्थः ।
अध्ययनस्य नित्यत्वसिद्धये तदङ्गभूतोपगमनस्य नित्यत्वमाह -
उपनयनाख्यस्त्विति ।
उपगमनाख्य इत्यर्थः ।
अत ऊर्ध्वमिति ।
उपनयनस्योक्तकालादूर्ध्वमित्यर्थः । त्रयोऽपि ब्राह्मणक्षत्रियवैश्या इत्यर्थः । व्रात्या संस्कारहीना इत्यर्थः । कर्हिचित् कदाचिदपीत्यर्थः । ब्राह्मान् वेदाध्ययनाध्यापनादीनित्यर्थः ।
एवं चेति ।
अङ्गस्य नित्यत्वे सिद्धे सतीत्यर्थः ।
अङ्गभूतसंस्कारनित्यताख्यहेतुं विना अङ्गिनोऽध्ययनस्यैव नित्यत्वे हेत्वन्तरमुच्यते -
तथा च निन्दाश्रवणमिति ।
अश्रोत्रियाः एकशाखाध्ययनेनापि हीना इत्यर्थः ।
काम्यत्वेऽपि आचार्यकरणविधेः नित्यसमीहितफलत्वात् स विधिः नित्य एव ततश्च न नित्यानित्यविरोध इति चोदयति -
ननु कथमिति ।
जीवनाख्यफलस्य च नित्यसमीहितत्वमङ्गीकृत्य परिहरतिपरिहरतीति इति -
भवेदेवं नित्यतेति ।
अवश्यकर्तव्यताभावे इत्यर्थः ।
न शब्दादिति ।
शब्दादवश्यकर्तव्यता प्रतिपत्तिर्नास्तीत्यर्थः ।
जीवने नित्यकामनया तत्साधनधनेऽपि कामना नित्या स्यात् तदर्थमाचार्यत्वकामना तदर्थमुपनेउपयीतृत्वेतितृत्वाध्यापयितृत्वकामनेत्येवं फलकामनाया नित्यत्वात् तन्निमित्ताध्यापनेऽवश्यकर्तव्यताप्रतीतिः न शब्दादित्याह -
तथाहि, फलस्येति ।
वास्तवी फलवस्तुसामर्थ्यनिबन्धनेत्यर्थः ।
असति शब्दव्यापार इति ।
शब्दस्याध्यापने अवश्यकर्तव्यता बोधनव्यापारे असति फलेच्छानिमित्तसाधनेच्छया अध्यापनेऽवश्यकर्तव्यताप्रतिपत्तिः स्यादित्यर्थः ।
न कर्तव्यताप्रतिपत्तेरिच्छेति ।
शाब्दावश्यकर्तव्यताप्रतिपत्त्या साधनेच्छा न भवतीति स्यादित्यर्थः ।
अध्यापने फलसाधनकामनाधीना कर्तव्यताप्रतिपत्तिरित्येकः पक्षः । पक्षान्तरे तु अध्यापने शाब्दकर्तव्यताप्रतिपत्त्यधीना फलसाधनेच्छेति वैषम्येऽपि अध्यापने नित्यकर्तव्यताप्रतिपत्तिर्न विशिष्यतवितिष्यत इति इत्याशङ्क्य विशेषमाह -
शाब्द्यां हीति ।
तथैव स्यादिति ।
इच्छाप्यवश्यं भवत्येवेति स्यादित्यर्थः ।
शाब्दनित्यकर्तव्यताधीनापि इच्छा क्वचिद्देशे काले वस्तुनि च कारकसामर्थ्याभावादिवशेनौचित्यात् प्रतिहन्यते, तत्र कथं नित्यकर्तव्यताधीननित्येच्छाद्वारेण नित्यवदनुष्ठानमिति तत्राह -
औचित्यादिभावेऽपीति ।
प्रमाणतस्तावन्नित्योऽध्यापनविधिः प्रत्यवायभयादिव यावच्छक्यमिच्छादिइत्यादीतिद्वारेणाधिकारिणमनुष्ठापयतीत्यर्थः । फलवशात्तु तत्कर्तव्यताप्रतिपत्ताप्रतिपत्तेत्यधिकं दृश्यतेवित्यत्रानित्यैव सा स्यादित्यध्याहारः ।
फलस्य नित्यसमीहितत्वात् अध्यापने कर्तव्यताप्रतिपत्तिनिमित्तकामोऽपि नित्य एवेत्यतः कर्तव्यताप्रतिपत्तिरपि नित्यैव स्यादित्यत आह -
यद्यपीति ।
उपायान्तरादपीति ।
वाणिज्यकृषिसेवादिनापि द्रव्यसिद्धेरध्यापनकर्तव्यताप्यनित्यैव स्यादित्यर्थः ।
कस्यचिदुपायान्तरासमर्थस्य तदेकोपायत्वात् अध्यापने नित्यकर्तव्यता स्यादित्यत आह -
तदेकोपायत्वेऽपीति ।