पञ्चपादिका
वक्तव्यकाशिका
 

अत्रैके प्रत्यवतिष्ठन्तेयुक्तंयाजयेदि’ति प्रधानकर्तृव्यापाराभिधायिनो यजतेः परस्य गुणकर्तृव्यापाराभिधायिनः शब्दान्तरस्य णिच उपादानात् तस्य चाविधेयत्वात् प्रधानकर्तृव्यापारस्याभिधानम् , इह पुनरेको नयतिर्माणवकस्य व्यापारं ब्रूयात् ? आचार्यस्य वा ? तावद् माणवकस्य नयत्यर्थकर्तृत्वम् ; कर्मकारकत्वात् तस्यअतोऽनभिधेयव्यापारः कथं नियुज्येत ? हि परव्यापारे परो नियोक्तुं शक्यतेस्वव्यापारे हि पुरुषस्य नियोगःतस्मान्नैष माणवकस्य नियोगःतदेवमाचार्यकरणविधिप्रयुक्तत्वादध्ययनस्य नात्राधिकारचिन्तया मनः खेदयितव्यम् इतिउच्यतेमाणवकस्यैवायं नियोगः, नाचार्यस्येह किञ्चिद्विधेयमस्तिकथम् ? यत्तावत्उपनयीते’त्यस्याभिधानतो न्यायतश्च निरूप्यमाणोऽर्थ एतावान् प्रतीयते, आत्मानमाचार्यं कर्तुं कञ्चिदात्मसमीपमानीयाध्यापयेत् ? इतिएतच्च सर्वं वृत्त्यर्थत्वेन ब्राह्मणस्यान्यत एव प्राप्तम् , नात्र विधातव्यम्तत्र कमध्यापयेत् ? इति विशेषाकाङ्क्षायांब्राह्मणमष्टवर्षमि’ति विशेषस्य विधायकमेतत् स्यात्तत्र प्राप्ते व्यापारेऽर्थद्वयविधानमेकस्मिन् वाक्ये शक्यते वक्तुम् ; वाक्यभेदप्रसङ्गात्अतो नाचार्यस्य किञ्चिद् विधेयमिहास्तिननु माणवकस्यापि किञ्चिद् विधेयमस्ति, अस्तीति ब्रूमःकथम् ? यदैवउपनयीते’ति शब्दतो न्यायतश्चात्मानमाचार्यं कर्तुमुपनयनेन संस्कृत्य कञ्चिदध्यापयेदिति प्रतीयते, तदैव यागश्रुतौ द्रव्यदेवतामात्रप्रतीतिवदध्ययनार्थोपनयनसंस्कार्योऽपि सामान्यतः प्रतीयतेतस्य प्रेक्षावतो निष्प्रयोजने प्रवर्तयितुमशक्यत्वात् , विद्यमानस्याप्यध्ययनेऽर्थावबोधस्य प्रागसिद्धेः प्रवृत्तिहेतुत्वासिद्धेः, विधितोऽवश्यकर्तव्यतां प्रतिपद्य स्वयमेव प्रवर्ततेतेनअष्टवर्षं ब्राह्मणमुपनयीते’त्यष्टवर्षो ब्राह्मण उपसर्पेदाचार्यमित्यर्थः ; ग्रामकामं याजयेद् ग्रामकामो यजेतेति यथाननु एवमप्यधिकारो लभ्यते, अस्त्यत्राधिकारहेतुर्नित्यं निमित्तं वयोविशिष्टा जातिः, जातिविशिष्टं वयो वाननु जातिवयसी विशेषणमुपादेयस्य, अनुपादेयविशेषणमधिकारहेतुरिति स्थितिः, सत्यमस्तीयं स्थितिः

युक्तं याजयेदित्यादिना ; तदेवमिति ; नात्राधिकारचिन्तयेति ; उच्यत इति ; कथम् , यत्तावदिति ; उपनयीतेत्यस्येति ; आत्मानमाचार्यं कर्तुमिति ; कञ्चिदात्मसमीप इति ; तत्र कमध्यापयेदिति ; विशेषस्येति ; प्राप्ते व्यापार इति ; अर्थद्वयेति ; अतो नाचार्यस्येति ; ननु माणवकस्यापीति ; अस्तीति ब्रूम इत्यादिना ; कथमिति ; संस्कृत्येति ; यागश्रुताविति ; उपनयनसंस्कार्योऽपीति ; तस्य चेति ; विद्यमानस्यापीति ; कथं तर्हि विधिरिति ; विधितोऽवश्येति ; तेनाष्टवर्षमिति ; नन्वेवमपीति ; अधिकारहेतुरिति ; नित्यमिति ; ननु जातिवयसीति ; अनुवादेयमितिअनुपादेयमिति ; अधिकारहेतुरिति ; सत्यमस्तीयं स्थितिरिति ;

अध्यापनयाजनयोः कर्तृप्रयोजकव्यापारद्वयावगमात् अन्यतरानुवादेन अन्यतरो विधीयत इति युक्तम् , उपनयने तु नयतिधात्वर्थस्य प्रयोजकव्यापारत्वात् अनभिधीयमानः कर्तृव्यापारः कथं विधीयत इति चोदयति -

युक्तं याजयेदित्यादिना ।

ननु उपनयने मा भून्माणवकव्यापारविधिः, अध्ययने तु भविष्यतीति, तन्न वाक्यसारूप्यादित्यभिप्रेत्याह -

तदेवमिति ।

नात्राधिकारचिन्तयेति ।

अध्ययनविधावित्यर्थः ।

प्रयोजकव्यापाराभिधायिनापि नयतिधातुना माणवकव्यापारस्य उपगमनस्य अनभिधीयमानस्यापि गम्यमानत्वात् , स एव धातुना लक्षणयोपादाय विधीयते न प्रयोजकव्यापारः स्वयं प्राप्तेरिति परिहरति -

उच्यत इति ।

माणवकव्यापारो गम्यमानतया वा कथं प्रतीयते ? कथं वा प्रयोजकव्यापारः प्राप्तानुवाद ? इति चोदयति -

कथम् , यत्तावदिति ।

माणवकव्यापारस्य गम्यमानतामुपपादयितुं प्रथममाचार्यव्यापारस्य विधेयतामुपपादयति -

उपनयीतेत्यस्येति ।

नयतेः परस्तादात्मनेपदात् प्राप्तामितिप्राप्तमर्थमाह -

आत्मानमाचार्यं कर्तुमिति ।

उपनयशब्दन्यायाभ्यां प्राप्तमाचार्यस्य प्राधान्यापादकस्वसमीपानयनाख्यव्यापारवत्वमाह -

कञ्चिदात्मसमीप इति ।

बालानक्षराणि शिक्षयन् लौकिकः पुरुषो बालगुण भावेन तत्र न गच्छति किन्तु बालानेव स्वयमात्मगुणभावेन स्वसमीपं नयति, तद्वदित्ययमत्र न्यायशब्देनोच्यते इति द्रष्टव्यम् ।

प्रयोजकव्यापारं प्राप्तमेवानूद्य गुणविधिपरमधिकारिविशेषविधिपरं वाक्यं किं न स्यादित्याशङ्क्य जीवनादिनित्यकाम्याधिकारयोरश्रवणात् अधिकारिविशेषविधिपरत्वायोगात् दध्ना जुहोतीत्यादिवत् गुणविधानं परिशिष्यते । तदपि न युक्तमित्याह -

तत्र कमध्यापयेदिति ।

यदा विशेष्योऽपि पदार्थः प्रमीयते तदा नानाविधगुणविशिष्टतया स एको विशिष्टपदार्थः प्रमीयत इति न वाक्यभेदः स्यात् । यदा तु विशेष्यमनूद्य विशेषणानि प्रमीयन्ते तदा विशेषणानामन्योन्यविशिष्टतया एकत्वापत्त्यभावात् अन्योन्यानपेक्षया प्रत्येकं प्रमेयत्वे प्रमेयभेदाद्वाक्यं भिद्यत इति भावः ।

विशेषस्येति ।

गुणाख्यविशेषणस्येत्यर्थः ।

प्राप्ते व्यापार इति ।

विशेष्यरूपव्यापारे प्राप्ततया अनूद्यमाने सतीत्यर्थः ।

अर्थद्वयेति ।

ब्राह्मणमष्टवर्षमित्यर्थद्वयेत्यर्थः ।

उत्पत्त्यधिकारगुणविधयः प्रयोजकव्यापारे न सम्भवन्तीति उपसंहरति -

अतो नाचार्यस्येति ।

माणवकव्यापारोऽपि शब्दतो न प्रतीयते इति न तस्य विधेयत्वमिति चोदयति -

ननु माणवकस्यापीति ।

माणवकस्योपगमनस्य शब्दतः प्राप्त्यभावेऽपि गम्यमानत्वात् तस्य नयतिधातुना लक्षणयोलक्षणोपादायेतिपादाय विधेयत्वमस्तीति परिहरति -

अस्तीति ब्रूम इत्यादिना ।

गमनकर्म ग्रामस्येव नयत्यर्थकर्म माणववकस्येत्यधिकम्कस्य गम्यमानव्यापारो नास्तीति चोदयति -

कथमिति ।

आचार्यसमीपदेशप्राप्तिरूपदृष्टातिशयेन विध्यायत्तनयनजन्यसंस्काराख्यदृष्टातिशयेन च विशिष्टमाणवकस्य द्वितीयया निर्देशात् द्वितीयाशब्दप्राप्तमर्थमाह -

संस्कृत्येति ।

यागश्रुताविति ।

यजेतेत्युक्तौ द्रव्येण देवतायै यजेतेति सामान्यतः प्रतीतिवदित्यर्थः ।

उपनयनसंस्कार्योऽपीति ।

उपगन्तापीत्यर्थः ।

तर्हि माणवकस्य गमनं प्रयोजकव्यापारादेव विधीयत इत्याशङ्क्य न विधानमन्तरेण सिद्धिरित्याह -

तस्य चेति ।

विधानेऽपि काम्यविधिः स्यादिति नेत्याह -

विद्यमानस्यापीति ।

कथं तर्हि विधिरिति ।

परिशेषात् नित्यविधिरित्याह -

विधितोऽवश्येति ।

कथं तर्हि वाक्यं परिणम्यत इति तदाह -

तेनाष्टवर्षमिति ।

अष्टवर्षत्वब्राह्मणत्वयोरेकैक विशेषणस्य विधिपुरुषसम्बन्धनिमित्तत्वायोगात् विशेषणयोश्च परस्परविशिष्टताभावात् एकैकस्य विशेषणस्याभिधानिके क्रियासम्बन्धेऽपि अरुणैकहायन्यादिपदार्थवत्पदार्थवेति परस्परविशिष्टतया अधिकारनिमित्तत्वे तस्य निमित्तस्याशब्दत्वप्रसङ्गात् सामान्येन गम्यमानस्य उपगन्तुः विशेषणविधिना नियोज्यत्वेन भोक्तृत्वेन कर्तृत्वेन च सम्बन्धनिमित्तं न लभ्यते । अतः सम्बन्धः प्रतिपत्तिश्च न लभ्यत इति चोदयति -

नन्वेवमपीति ।

अधिकारहेतुरिति ।

विधिपुरुषसम्बन्धस्य प्रवृत्तेर्वा हेतुरित्यर्थः ।

नित्यमिति ।

जीवतः पुरुषस्य नियतभावीत्यर्थः । न च शाब्दमेव सर्वत्राधिकारनिमित्तम् साङ्गकर्मानुष्ठानसामर्थ्यस्य अशाब्दस्याप्यधिकारनिमित्तत्वात् । अथवा क्रियासम्बन्धाभिधानमुखेन विशिष्टसमर्पणे शब्दद्वयतात्पर्यकल्पनात् अधिकारनिमित्तस्य शाब्दत्वं न विहन्यत इत्यर्थःशाब्दत्वं न विहन्यत इत्याधिकारअधिकारीतिनिमित्तं जातिवयोविशिष्टमस्तीति भावः ।

साध्यनियोगविषयतया साध्यक्रियाविशिष्ट साङ्गकर्मानुष्ठान सामर्थ्यास्याशाब्दस्याप्यधिकार निमित्तत्वात् । अथवा क्रिया सम्बन्धाभिधानमुखेनविशिष्टसमर्पणे शब्दद्वयतात्पर्यकल्पनात् अधिकार निमित्तस्य रूपेण कर्तृकारकमाणवकस्यापि साध्यत्वात् तद्विशेषणस्य जातिवयसोरन्योन्यविशिष्टस्य विधिं प्रति गुणभूतस्य कर्तृप्रधानविधितद्विशिष्टक्रियां प्रति स्वामित्वेन भोक्तृतयान्वितप्रधानमाणवकविशेषणतया विधिं प्रति प्राधान्यमयुक्तमिति चोदयति -

ननु जातिवयसीति ।

उपादेयमित्यनुष्ठेयं साध्यं निर्दिश्यते -

अनुवादेयमितिअनुपादेयमिति ।

विधिप्रयुक्तानुष्ठेयतद्विशेषणव्यतिरेकेण विधिसम्बन्धी निर्दिश्यते -

अधिकारहेतुरिति ।

ममायं नियोग इति स्वामितया अन्वयित्वंअन्वयितन्नियोज्यत्वमिति तन्नियोज्यत्वमधिकारित्वं नाम भोक्तृत्वं तस्मिन् भोक्तृत्वे निमित्तमित्यर्थः ।

नियोगवाक्यार्थपक्षे प्रथमं ममायं नियोगनियोगामिति इति भोक्तृत्वेनान्वितस्य पश्चात् कर्त्रन्वय इत्यभ्युपगमात् अनुवादेन विशेषणमधिकारहेतुरित्युक्तमस्त्येव इत्यङ्गीकरोति -

सत्यमस्तीयं स्थितिरिति ।