अध्यापनयाजनयोः कर्तृप्रयोजकव्यापारद्वयावगमात् अन्यतरानुवादेन अन्यतरो विधीयत इति युक्तम् , उपनयने तु नयतिधात्वर्थस्य प्रयोजकव्यापारत्वात् अनभिधीयमानः कर्तृव्यापारः कथं विधीयत इति चोदयति -
युक्तं याजयेदित्यादिना ।
ननु उपनयने मा भून्माणवकव्यापारविधिः, अध्ययने तु भविष्यतीति, तन्न वाक्यसारूप्यादित्यभिप्रेत्याह -
तदेवमिति ।
नात्राधिकारचिन्तयेति ।
अध्ययनविधावित्यर्थः ।
प्रयोजकव्यापाराभिधायिनापि नयतिधातुना माणवकव्यापारस्य उपगमनस्य अनभिधीयमानस्यापि गम्यमानत्वात् , स एव धातुना लक्षणयोपादाय विधीयते न प्रयोजकव्यापारः स्वयं प्राप्तेरिति परिहरति -
उच्यत इति ।
माणवकव्यापारो गम्यमानतया वा कथं प्रतीयते ? कथं वा प्रयोजकव्यापारः प्राप्तानुवाद ? इति चोदयति -
कथम् , यत्तावदिति ।
माणवकव्यापारस्य गम्यमानतामुपपादयितुं प्रथममाचार्यव्यापारस्य विधेयतामुपपादयति -
उपनयीतेत्यस्येति ।
नयतेः परस्तादात्मनेपदात् प्राप्तामितिप्राप्तमर्थमाह -
आत्मानमाचार्यं कर्तुमिति ।
उपनयशब्दन्यायाभ्यां प्राप्तमाचार्यस्य प्राधान्यापादकस्वसमीपानयनाख्यव्यापारवत्वमाह -
कञ्चिदात्मसमीप इति ।
बालानक्षराणि शिक्षयन् लौकिकः पुरुषो बालगुण भावेन तत्र न गच्छति किन्तु बालानेव स्वयमात्मगुणभावेन स्वसमीपं नयति, तद्वदित्ययमत्र न्यायशब्देनोच्यते इति द्रष्टव्यम् ।
प्रयोजकव्यापारं प्राप्तमेवानूद्य गुणविधिपरमधिकारिविशेषविधिपरं वाक्यं किं न स्यादित्याशङ्क्य जीवनादिनित्यकाम्याधिकारयोरश्रवणात् अधिकारिविशेषविधिपरत्वायोगात् दध्ना जुहोतीत्यादिवत् गुणविधानं परिशिष्यते । तदपि न युक्तमित्याह -
तत्र कमध्यापयेदिति ।
यदा विशेष्योऽपि पदार्थः प्रमीयते तदा नानाविधगुणविशिष्टतया स एको विशिष्टपदार्थः प्रमीयत इति न वाक्यभेदः स्यात् । यदा तु विशेष्यमनूद्य विशेषणानि प्रमीयन्ते तदा विशेषणानामन्योन्यविशिष्टतया एकत्वापत्त्यभावात् अन्योन्यानपेक्षया प्रत्येकं प्रमेयत्वे प्रमेयभेदाद्वाक्यं भिद्यत इति भावः ।
विशेषस्येति ।
गुणाख्यविशेषणस्येत्यर्थः ।
प्राप्ते व्यापार इति ।
विशेष्यरूपव्यापारे प्राप्ततया अनूद्यमाने सतीत्यर्थः ।
अर्थद्वयेति ।
ब्राह्मणमष्टवर्षमित्यर्थद्वयेत्यर्थः ।
उत्पत्त्यधिकारगुणविधयः प्रयोजकव्यापारे न सम्भवन्तीति उपसंहरति -
अतो नाचार्यस्येति ।
माणवकव्यापारोऽपि शब्दतो न प्रतीयते इति न तस्य विधेयत्वमिति चोदयति -
ननु माणवकस्यापीति ।
माणवकस्योपगमनस्य शब्दतः प्राप्त्यभावेऽपि गम्यमानत्वात् तस्य नयतिधातुना लक्षणयोलक्षणोपादायेतिपादाय विधेयत्वमस्तीति परिहरति -
अस्तीति ब्रूम इत्यादिना ।
गमनकर्म ग्रामस्येव नयत्यर्थकर्म माणववकस्येत्यधिकम्कस्य गम्यमानव्यापारो नास्तीति चोदयति -
कथमिति ।
आचार्यसमीपदेशप्राप्तिरूपदृष्टातिशयेन विध्यायत्तनयनजन्यसंस्काराख्यदृष्टातिशयेन च विशिष्टमाणवकस्य द्वितीयया निर्देशात् द्वितीयाशब्दप्राप्तमर्थमाह -
संस्कृत्येति ।
यागश्रुताविति ।
यजेतेत्युक्तौ द्रव्येण देवतायै यजेतेति सामान्यतः प्रतीतिवदित्यर्थः ।
उपनयनसंस्कार्योऽपीति ।
उपगन्तापीत्यर्थः ।
तर्हि माणवकस्य गमनं प्रयोजकव्यापारादेव विधीयत इत्याशङ्क्य न विधानमन्तरेण सिद्धिरित्याह -
तस्य चेति ।
विधानेऽपि काम्यविधिः स्यादिति नेत्याह -
विद्यमानस्यापीति ।
कथं तर्हि विधिरिति ।
परिशेषात् नित्यविधिरित्याह -
विधितोऽवश्येति ।
कथं तर्हि वाक्यं परिणम्यत इति तदाह -
तेनाष्टवर्षमिति ।
अष्टवर्षत्वब्राह्मणत्वयोरेकैक विशेषणस्य विधिपुरुषसम्बन्धनिमित्तत्वायोगात् विशेषणयोश्च परस्परविशिष्टताभावात् एकैकस्य विशेषणस्याभिधानिके क्रियासम्बन्धेऽपि अरुणैकहायन्यादिपदार्थवत्पदार्थवेति परस्परविशिष्टतया अधिकारनिमित्तत्वे तस्य निमित्तस्याशब्दत्वप्रसङ्गात् सामान्येन गम्यमानस्य उपगन्तुः विशेषणविधिना नियोज्यत्वेन भोक्तृत्वेन कर्तृत्वेन च सम्बन्धनिमित्तं न लभ्यते । अतः सम्बन्धः प्रतिपत्तिश्च न लभ्यत इति चोदयति -
नन्वेवमपीति ।
अधिकारहेतुरिति ।
विधिपुरुषसम्बन्धस्य प्रवृत्तेर्वा हेतुरित्यर्थः ।
नित्यमिति ।
जीवतः पुरुषस्य नियतभावीत्यर्थः । न च शाब्दमेव सर्वत्राधिकारनिमित्तम् साङ्गकर्मानुष्ठानसामर्थ्यस्य अशाब्दस्याप्यधिकारनिमित्तत्वात् । अथवा क्रियासम्बन्धाभिधानमुखेन विशिष्टसमर्पणे शब्दद्वयतात्पर्यकल्पनात् अधिकारनिमित्तस्य शाब्दत्वं न विहन्यत इत्यर्थःशाब्दत्वं न विहन्यत इत्याधिकारअधिकारीतिनिमित्तं जातिवयोविशिष्टमस्तीति भावः ।
साध्यनियोगविषयतया साध्यक्रियाविशिष्ट साङ्गकर्मानुष्ठान सामर्थ्यास्याशाब्दस्याप्यधिकार निमित्तत्वात् । अथवा क्रिया सम्बन्धाभिधानमुखेनविशिष्टसमर्पणे शब्दद्वयतात्पर्यकल्पनात् अधिकार निमित्तस्य रूपेण कर्तृकारकमाणवकस्यापि साध्यत्वात् तद्विशेषणस्य जातिवयसोरन्योन्यविशिष्टस्य विधिं प्रति गुणभूतस्य कर्तृप्रधानविधितद्विशिष्टक्रियां प्रति स्वामित्वेन भोक्तृतयान्वितप्रधानमाणवकविशेषणतया विधिं प्रति प्राधान्यमयुक्तमिति चोदयति -
ननु जातिवयसीति ।
उपादेयमित्यनुष्ठेयं साध्यं निर्दिश्यते -
अनुवादेयमितिअनुपादेयमिति ।
विधिप्रयुक्तानुष्ठेयतद्विशेषणव्यतिरेकेण विधिसम्बन्धी निर्दिश्यते -
अधिकारहेतुरिति ।
ममायं नियोग इति स्वामितया अन्वयित्वंअन्वयितन्नियोज्यत्वमिति तन्नियोज्यत्वमधिकारित्वं नाम भोक्तृत्वं तस्मिन् भोक्तृत्वे निमित्तमित्यर्थः ।
नियोगवाक्यार्थपक्षे प्रथमं ममायं नियोगनियोगामिति इति भोक्तृत्वेनान्वितस्य पश्चात् कर्त्रन्वय इत्यभ्युपगमात् अनुवादेन विशेषणमधिकारहेतुरित्युक्तमस्त्येव इत्यङ्गीकरोति -
सत्यमस्तीयं स्थितिरिति ।