पञ्चपादिका
वक्तव्यकाशिका
 

ननु प्रक्रियमाणात् पूर्वप्रकृतमपि किञ्चिद् नियमेन प्रतीयतेऽथशब्दात् , ततस्तत्प्रतिपत्त्यर्थं किमिति गृह्यते ? उच्यतेनैतदानन्तर्याद् व्यतिरिच्यतेकथम् ? एवम्तत् प्रक्रियमाणस्य नियमेन पूर्ववृत्तं भवति, यदि तस्यानन्तरं तन्मात्रापेक्षं तत्प्रक्रियेत, एवं सति प्रक्रियमाणस्य हेतुभूतोऽर्थः पूर्वनिर्वृत्तो भवति ; अन्यथा यस्मिन् कस्मिंश्चित् पूर्ववृत्तापेक्षायामनुवादादृष्टार्थत्वयोरन्यतरत्वप्रसङ्गात् , अतो हेतुभूतोऽर्थोऽपेक्षितव्यः, तदेतदाह

पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकादितिसति चानन्तर्यार्थत्वे यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासाऽपि यत् पूर्ववृत्तं नियमेनापेक्षते, तद् वक्तव्यम्स्वाध्यायानन्तर्यन्तु समानमिति

समानमिति ।