पञ्चपादिका
वक्तव्यकाशिका
 

येन विना नियमेनानन्तरस्य प्रक्रिया तादृशो हेतुः पूर्वनिर्वृत्तो वक्तव्यः ; यस्यानन्तर ब्रह्मजिज्ञासा प्रक्रियतेस्वाध्यायाध्ययनन्तु समानम् साधारणो हेतुर्धर्मब्रह्मजिज्ञासयोःअतश्चअथातो ब्रह्मजिज्ञासे’ति पुनरथशब्देन तन्मात्रापेक्षणं व्यर्थं स्यात्अथवा समानं नात्यन्तमपेक्षितं, स्वयमेव सामर्थ्यं जनयितुं प्रयोक्तुं शक्तम्अतः समानो हेतुः, नावश्यं निष्पादक इत्यर्थः

भाष्यार्थं विवरणोति इतिविवृणोति -

येन विनेत्यादिना ।

तादृश इति ।

पुष्कलकारणत्वादितरकारणसम्पत्तौ विचारमारभते, असम्पत्तौ स्वयं नारभत इत्यारम्भानारम्भयोः समानमिति ।

योजनान्तरमाह -

अथवा समानमिति ।

सामर्थ्यं जनयितुमिति ।

विचाराधिकारिणविचाराधिकरण इति इत्यर्थः । विचारस्याध्ययनविधिप्रयोज्यत्वाभावेऽपि एकाध्ययनविधिप्रयुक्तस्वाध्यायाध्ययनस्य एक मोक्षप्रयोजनत्वे वक्तव्ये कृत्स्नवेदार्थविचारस्य एकफलप्रयुक्तत्वाद्धर्मब्रह्मविचारयोरन्योन्योपकार्योपकारकभावेन एकफलशेषत्वात् उपकारकधर्मावबोधो विशेष इत्यर्थः ।