भाष्यार्थं विवरणोति इतिविवृणोति -
येन विनेत्यादिना ।
तादृश इति ।
पुष्कलकारणत्वादितरकारणसम्पत्तौ विचारमारभते, असम्पत्तौ स्वयं नारभत इत्यारम्भानारम्भयोः समानमिति ।
योजनान्तरमाह -
अथवा समानमिति ।
सामर्थ्यं जनयितुमिति ।
विचाराधिकारिणविचाराधिकरण इति इत्यर्थः । विचारस्याध्ययनविधिप्रयोज्यत्वाभावेऽपि एकाध्ययनविधिप्रयुक्तस्वाध्यायाध्ययनस्य एक मोक्षप्रयोजनत्वे वक्तव्ये कृत्स्नवेदार्थविचारस्य एकफलप्रयुक्तत्वाद्धर्मब्रह्मविचारयोरन्योन्योपकार्योपकारकभावेन एकफलशेषत्वात् उपकारकधर्मावबोधो विशेष इत्यर्थः ।