कथं वा कामाप्तिः कामोपशमहेतुः? दृष्टान्तसामर्थ्यात् , यथा हविषा कृष्णवर्त्मा वर्धमानोऽपि सर्वहविःप्रक्षेपे सर्वं दग्ध्वा स्वयं शाम्यति, एवं विषयेन्धनः कामो यावद्विषयं वर्धमानोऽपि तत्क्षये क्षीणेन्धनाग्निवत् स्वयं शाम्यतीति युक्तम् , सत्यं युक्तम् ; यदि हैरण्यगर्भो भोगो न क्षीयेत, क्षीयते तु कृतकत्वात् परिच्छिन्नविषयत्वाच्च ; तत्क्षये पूर्ववदनवाप्तोऽवाप्तव्यः, इति कामः समुल्लसत्येव । अतो विषयस्य क्षयादिदोषदर्शनात् कामोपशमो हिरण्यगर्भस्यापि । तथाचोक्तम्-'ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्' ॥ इति । तस्मात् सर्वत्र कामस्य विषयदोषदर्शनमेवोच्छेदकारणम् , नित्यवस्तुदर्शनं च ; रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते' इति स्मृतेः । नचैवंलक्षण आगमोऽस्ति—हिरण्यगर्भोपभोगाद् निखिलविषयावाप्तौ कामोच्छेदो भवतीति । ननु कामावाप्तौ स्वस्थहृदयः कार्यान्तरक्षमो भवतीति सर्वेषां स्वसंवेद्यमेतत् , सत्यम् ; तदुत्कलिकोपशमात् , तदुत्कलिकोपशमश्च तदा सामर्थ्यहानेः ; सति च सामर्थ्ये स्वच्छन्दोपभोगसम्भवात् । यदि पुनरेकान्ततो निवृत्तकामो भवेत् , न तं विषयं पुनः सङ्गोपायेत् । तस्माद् न कर्मणां कामनिर्बहणद्वारेण ब्रह्मजिज्ञासायोग्यतापादनम् ; अतो न कर्मावबोधापेक्षोऽप्यथशब्दः ।
हैरण्यगर्भादिभोगस्य प्राप्तस्याविनाशे अवाप्तविषयकामस्यासम्भवः स्यात् , विनाशे सति अप्राप्तविषयकामस्यानुवृत्तेर्न कामोपशमात् ब्रह्मज्ञानावतारसिद्धिरित्याह -
सत्यं युक्तमिति ।
कुतस्तर्हि सर्वेषां कामविलय इति तदाह -
अतो विषयस्येति ।
ऐश्वर्येण सह वर्णनात् वैराग्यस्य हिरण्यगर्भे दोषदर्शनात् वैराग्यमिति वक्तव्यमित्याह -
ज्ञानमप्रतिघमिति ।
प्रतिबन्धरहितमित्यर्थः । सर्वत्र हिरण्यहिरण्यगर्भोपीतिगर्भेऽपीति भावः ।
रसो राग उच्यते । निखिल विषयावाप्तौ कामोपशमः शास्त्रसामर्थ्यादुच्यते, किं वा अन्वयव्यतिरेकसामर्थ्यादिति न तावच्छास्त्रसामर्थ्यादित्याह -
न चैवं लक्षण इति ।
तर्हि अन्वयव्यतिरेकसामर्थ्यात् उच्यत इति चोदयति -
ननु कामावाप्ताविति ।
कामितविषयावाप्तावित्यर्थः । स्वस्थहृदयः अपगतोत्ककलिहृदय इतिलिकहृदय इत्यर्थः । उत्कलिकेति उज्वलितेत्यर्थः ।
उत्कलिकोपशमश्च तदेति ।
उत्तरकाले भोगसामर्थ्यरागौ कार्यं करिष्यतः, अतः सामर्थ्यं प्रतिहन्तिप्रतिहरतीति । तन्निमित्तकामज्वालोपशमश्च तदैवेत्यर्थः ।
सामर्थ्ये विद्यमानेऽपि भोगात् निवृत्तिदर्शनात् कामस्यैव निवृत्तिरस्तीत्याशङ्क्य तदा तस्मिन् विषये उपभोगनिवृत्तिः तस्मादपि उपकृष्टेतिउत्कृष्टविषये स्वच्छन्दोपभोगसम्भवात् , न तु कामनिवृत्त्येत्याह -
सति चेति ।
तं विषयं पुनः सम्यङ् न गोपायेदिति सम्बन्धः ।