भवतु तर्हि संस्कारद्वारेण कर्मणां पूर्ववृत्तत्वम्? `यस्यैतेऽष्टाचत्वारिंशत्संस्काराः, अष्टौ चात्मगुणाः स ब्रह्मणः सायुज्यं गच्छती'ति `महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुरि'ति `ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथाऽऽदर्शतलप्रख्ये पश्यन्त्यात्मानमात्मनी'ति च स्मृतेः ; `विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने'ति `येन केनचन यजेतापि दर्विहोमेनानुप-हतमना एव भवती'ति च श्रुतेः । वक्ष्यति च सूत्रकारः—'अत एवाश्रमकर्मापेक्षा' `सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदि'ति च । सत्यमेवम् ; यदि समानजन्मानुष्ठितमेव कर्म संस्कुर्वद् ब्रह्मजिज्ञासा-योग्यत्वहेतुः स्यात् । न च नैयोगिके फले कालनियमोऽस्ति । तेव पूर्वजन्मानुष्ठितकर्मसंस्कृतो धर्मजिज्ञासां तदनुष्ठानं चाप्रतिपद्यमान एव ब्रह्मजिज्ञासायां प्रवर्तते, इति न नियमेव तदपेक्षोऽथशब्दो युज्यते । एतेन —ऋणापाकरणद्वारेणापि नियमेन पूर्ववृत्तत्वम्— प्रत्युक्तम् ॥ तथाच श्रुति-स्मृती `यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्' `तस्याश्रमविकल्पमेके ब्रुवते' इति ॥ तस्मात् साधूक्तम्— धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति ॥ अथापि स्यात् —न हेतुत्वेनानन्तरवृत्तकर्मावबोधापेक्षमथशब्दं ब्रूमः, अपितु क्रमप्रतिपत्त्यर्थम् ; यथा `हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः' इति, तदेतदयुक्तम् ; न्यायसूत्रेऽपि चैककर्तृकाणां बहूनां युगपदनुष्ठानासम्भवादवश्यम्भाविनि क्रमे ब्रूयादपि तन्नियममथशब्दः । एककर्तृकत्वं च शेष-शेषिणोः शेषाणां च बहूनामेकशेषिसम्बद्धानामधिकारान्तरप्रयुक्त्त्युप-जीविनां च भवति, नेतरथा । न हि धर्मब्रह्मजिज्ञासयोरेतेषामन्यतमत्वे प्रमाणमस्ति, तदिदिमाह- - यथा च हृदयाद्यवदानानामानन्तर्यनियमः ; क्रमस्य विवक्षितत्वात् , न तथेह क्रमो विवक्षितः ; शेषशेषित्वे(१)ऽधिकृताधिकारे वा प्रमाणाभावाद् धर्म-ब्रह्मजिज्ञासयोरिति ॥
तर्हि सर्वकर्माणि अनुष्ठीयमानानि पुरुषसंस्कारतया ब्रह्मज्ञानकार्याणि, अतो धर्मानुष्ठानान्तरं ब्रह्मजिज्ञासेति चोदयति -
भवतु तर्हीति ।
पूर्ववृत्तत्वमिति ।
ब्रह्मजिज्ञासां प्रति पुष्कलकारणतया पूर्ववृत्तत्वमित्यर्थः ।
गुणाधानमलापकर्षणसंस्काररेणरद्वारेणेतिद्वारेण कर्माणां परम्परया मोक्षहेतुत्वे स्मृतिःमयि स्यैत इति
`यस्यैत....’ इति ।
दया सर्वभूतेषु क्षान्तिरनसूयाशौचमना - यासो मङ्गलमकार्पण्यमस्पृहेत्यष्टावात्मगुणा इति द्रष्टव्याः । महायज्ञैः पञ्चमहायज्ञैरित्यर्थः । ब्राह्मी ब्रह्माभिव्यक्तियोग्या क्रियत इत्यर्थः । आत्मनि चित्ते इत्यर्थः ।
संयोगपृथक्त्वेन ब्रह्मानुभवकामो यज्ञादीन्यनुतिष्ठेदिति शुद्धिद्वारेण ज्ञानोत्पत्तिसाधनत्वेन कर्मविधायकश्रुतिमाह -
विविदिषन्तीति ।
अनाशकेनेति अनशनेनेत्यर्थः । विविदिषावाक्ये शुद्धिहेतुतयाहेतुहेतुतयेति कर्मविधिरिति निर्णयाय वाक्यान्तरमाहयेन केनचनेति ।
वेदनेच्छोदयप्रभृतिज्ञानोदयपर्यन्तविचारे प्रवर्तमानस्य विशेषणतया स्वसम्बन्धित्वेन विचारात् पूर्वक्षणे प्रतिपन्नपुष्कलकारणप्रतिपादनेन तदानन्तर्यविषयोऽथशब्दः तत्राह, तत्तयैवानेकजन्मव्यवहितफलहेतुषु कर्मसु फलेन समकालप्रतिपत्त्यनपेक्षेषु सत्सु न तेषां पुष्कलकारणत्वप्रतिपादनेन तदानन्तर्यविषयोऽथशब्द इति परिहरति -
सत्यमेवमिति ।
समानजन्मेति ।
विद्योत्पादकदेहेनैव अनुष्ठितेत्यर्थः । समानजन्मानुष्ठितकर्मणो विचारात् पूर्वक्षणे अधिकारविशेषणतया प्रतिपत्तिसम्भवात् अथशब्देन पुष्कलकारणतया प्रतिपादनं स्यात् , जन्मान्तरीयकर्मणो विचारहेतुत्वात् तस्य चाप्रतिपन्नपुष्कलकारणत्वेन अथशब्देन प्रतिपादनमित्यर्थः ।
नैयोगिक इति ।
नियोगसाध्य इत्यर्थः ।
अवाकृतकणत्रयेतिअपाकृतऋणत्रयस्य मोक्षेऽधिकारात् ऋणस्य च विद्यारम्भकदेहजन्मप्रयुक्तत्वात् ऋणापाकरणहेतुकर्मणामेतज्जन्मन्यनुष्ठिततया अधिकारिविशेषणत्वेन प्रतिपत्तिसम्भवात् तदपेक्षोऽथशब्द इति तत्राह -
एतेनेति ।
कर्मणां विचारं प्रति पुष्कलकारणत्वाभावसमर्थनेनेत्यर्थः । ‘जायमानो वै ब्राह्मण’ इति च श्रुतिरर्थवादत्वात् ‘प्रव्रजेत्’ इति विधिश्रुत्या बाध्यत इति भावः ।
ऋणानि त्रीण्यपाकृत्येति स्मृतिरस्तीति । सत्यम् , सा श्रुतिस्मृतिविरोधादप्रमाणमित्याह -
तथा च श्रुतिरितिशृतीति ।
तस्येति ।
अधीतवेदस्याधिकारिण इत्यर्थः ।
आनन्तर्याभिधानमुखेन विचारं प्रति पुष्कलकारणतया अधिकारिविशेषणत्वेन पूर्वनिर्वृत्तः कर्मावबोध इति न प्रतिपादयति अथशब्दः, किन्तु आनन्तर्याभिधानमुखेन धर्मब्रह्मजिज्ञासयोः क्रमप्रतिपादक इति चोदयति -
अथापि स्यादिति ।
किं स्वयमेव क्रमं प्रतिपादयति अथशब्दः आहोस्वित् प्रमाणान्तरप्राप्तक्रमस्य न्यायेन नियमप्रतिपादक इति । न तावत् प्रथमः कल्प इत्याह -
तदेतदयुक्तमिति ।
आगमत्वाभावादित्यर्थः ।
द्वितीयेऽपि कल्पे धर्मब्रह्मजिज्ञासयोः एकविधिप्रयुक्तानुष्ठेयत्वाभावादेव शेषशेषित्वस्य एकशेषिसम्बद्धानेकशेषत्वस्याधिकृताधिकारत्वस्य चाभावात् । अत एवैककर्तृकत्वाभावात् एकस्य युगपदनेकानुष्ठानानुपपत्त्या सिद्धक्रमप्राप्त्यभावात् तन्नियमार्थत्वमथशब्दस्य नास्तीत्याह -
अपि च एककर्तृकाणामिति ।
शेषशेषिणोः प्रयाजदर्शपूर्णमासयोः ।
शेषाणां चेति ।
एकप्रधानापूर्वसम्बद्धानामाग्नेयादिषड्यागानामित्यर्थः ।
अधिकारान्तरप्रयुक्त्युपजीविनामिति ।
दर्शपूर्णमासादिनियोगान्तरप्रयुक्तानुष्ठेयानां गोदोहनादीनामित्यर्थः ।
विवक्षितत्वादिति ।
एकस्य युगपदनेकानुष्ठानानुपपत्तिसिद्धत्वादित्यर्थः ।