अथापि स्यात् , यथाऽऽग्नेयादीनां षण्णां यागानामेकं फलं स्वर्गविशेषः, एवं धर्मब्रह्मजिज्ञासयोरप्येकं फलं स्वर्गः, ततः क्रमापेक्षायां तन्नियमार्थोऽथशब्द इति, यथावा द्वादशभिरपि लक्षणैर्धर्म एको जिज्ञास्यः, प्रतिलक्षणमंशान्तरपरिशोधनया, यथावाऽस्मिन्नपि तन्त्रे चतुर्भिरपि लक्षणैरेकं ब्रह्म जिज्ञास्यम् , तत्र चांशान्तरपरिशोधनेन लक्षणानां क्रम नियमः । एवं तन्त्रद्वयेनैकं ब्रह्म जिज्ञास्यं, तत्र क्रमनियमार्थोऽथशब्द इत्याशङ्क्याह —
फलजिज्ञास्यभेदाच्च ॥
धर्मब्रह्मजिज्ञासयोरिति सम्बन्धः ॥ तमेव भेदं कथयति —
अभ्युदयफलं धर्मज्ञानम् । तच्चानुष्ठानापेक्षम् ।
अभ्युदयः फलं धर्मज्ञानस्येति प्रसिद्धमेव, न कस्यचिद् विसंवादः । तदपि न ज्ञानस्य फलम् , अपितु ज्ञेयस्य, तस्यापि न ज्ञेयत्वादेव फलम् ; किन्त्वनुष्ठीयमानत्वात् ।
निःश्रेयसफलं तु ब्रह्मज्ञानं, न, चानुष्ठानान्तरापेक्षमिति ॥
ब्रह्मज्ञानस्य फलमपवर्गः । स च नित्यसिद्धोऽव्यवहितः स्वसंवेद्यः, यतोऽविद्या संसारहेतुः । न चाविद्यामनिवर्तयन्ती विद्योदेति । तदेवमत्यन्तविलक्षणत्वात् प्रस्थानभेदाच्च न फलद्वारेणाप्येकोपनिपातः ; तेन न क्रमाकाङ्क्षा तन्त्रद्वयस्य । जिज्ञास्यं पुनरत्यन्तविलक्षणं, यतः कार्यो धर्मः पुरुषव्यापारतन्त्रः स्वज्ञानकालेऽसिद्धसत्ताकः प्रथमे तन्त्रे जिज्ञास्यः, इह तु नित्यनिर्वृत्तं पुरुषव्यापारानपेक्षं ब्रह्म जिज्ञास्यम् ।
मा भूद्धर्मब्रह्मजिज्ञासयोः एकविधिप्रयुक्तानुष्ठेयतया एककर्तृकत्वेन प्राप्तक्रमनियमार्थत्वमथशब्दस्य, किन्तु एकफलप्रयुक्तानुष्ठेयतया एकप्रमेयजिज्ञासा प्रयुक्तानुष्ठेयतया वा साधनद्वये कर्त्रैक्यात् क्रमस्यापेक्षेति तन्नियमार्थोऽथशब्द इति उत्तरभाष्यस्य आशङ्कामाह -
अथापि स्याद्यथा आग्नेयादीनामित्यादिना ।
अभ्युदयफलमिति ।
धर्मज्ञानस्योत्पत्त्याप्तिविकृतिसंस्कारात्मकोऽभ्युदयः फलमित्यर्थः ।
न ज्ञेयत्वादेवेति ।
हस्तगतविस्मृतसुवर्णस्य ज्ञेयत्वादेव यथा सुखोत्पत्तिः फलं भवति तद्वन्न भवतीत्यर्थः ।
अनुष्ठानान्तरेति ।
ज्ञानोत्पत्त्यनुष्ठानात् अनुष्ठानान्तरानपेक्षमित्यर्थः ।
स च नित्यसिद्ध इति ।
उत्पत्तिविकृत्यात्मत्वं मोक्षस्य नास्तीत्यर्थः ।
अनाप्य इत्याह -
अव्यवहित इति ।
अन्यसंस्कारासम्भवं सिद्धवत्कृत्य स्फुरणातिशयरूप संस्कारोऽपि नास्तीत्याह -
स्वसंवेद्य इति ।
ज्ञानोत्पत्तिमात्रेण लभ्यं फलमपवर्ग इत्याह -
यतोऽविद्येत्यादिना ।
फलस्योत्पाद्यत्वानुत्पाद्यत्वं नामस्वरूपवैलक्षण्यमाह -
सत्यन्तेतिअत्यन्तविलक्षणत्वादिति ।
प्रस्थानभेदादिति ।
ज्ञानोत्तरकालं प्रयत्नसापेक्षत्वानपेक्षत्वलक्षणप्रस्थानभेदादित्यर्थः ।
एकोपनिपात इति ।
एकस्मिन् कर्तरि कार्यत्वेनोभयजिज्ञासयोः उपनिपातो नास्तीत्यर्थः । कार्यः साध्य इत्यर्थः ।
पुष्पादिवत् कालेन साध्यत्वं व्यावर्तयति -
पुरुषव्यापारतन्त्र इति ।