पञ्चपादिका
वक्तव्यकाशिका
 

अथापि स्यात् , यथाऽऽग्नेयादीनां षण्णां यागानामेकं फलं स्वर्गविशेषः, एवं धर्मब्रह्मजिज्ञासयोरप्येकं फलं स्वर्गः, ततः क्रमापेक्षायां तन्नियमार्थोऽथशब्द इति, यथावा द्वादशभिरपि लक्षणैर्धर्म एको जिज्ञास्यः, प्रतिलक्षणमंशान्तरपरिशोधनया, यथावाऽस्मिन्नपि तन्त्रे चतुर्भिरपि लक्षणैरेकं ब्रह्म जिज्ञास्यम् , तत्र चांशान्तरपरिशोधनेन लक्षणानां क्रम नियमःएवं तन्त्रद्वयेनैकं ब्रह्म जिज्ञास्यं, तत्र क्रमनियमार्थोऽथशब्द इत्याशङ्क्याह

फलजिज्ञास्यभेदाच्च

धर्मब्रह्मजिज्ञासयोरिति सम्बन्धःतमेव भेदं कथयति

अभ्युदयफलं धर्मज्ञानम्तच्चानुष्ठानापेक्षम्

अभ्युदयः फलं धर्मज्ञानस्येति प्रसिद्धमेव, कस्यचिद् विसंवादःतदपि ज्ञानस्य फलम् , अपितु ज्ञेयस्य, तस्यापि ज्ञेयत्वादेव फलम् ; किन्त्वनुष्ठीयमानत्वात्

निःश्रेयसफलं तु ब्रह्मज्ञानं, , चानुष्ठानान्तरापेक्षमिति

ब्रह्मज्ञानस्य फलमपवर्गः नित्यसिद्धोऽव्यवहितः स्वसंवेद्यः, यतोऽविद्या संसारहेतुः चाविद्यामनिवर्तयन्ती विद्योदेतितदेवमत्यन्तविलक्षणत्वात् प्रस्थानभेदाच्च फलद्वारेणाप्येकोपनिपातः ; तेन क्रमाकाङ्क्षा तन्त्रद्वयस्यजिज्ञास्यं पुनरत्यन्तविलक्षणं, यतः कार्यो धर्मः पुरुषव्यापारतन्त्रः स्वज्ञानकालेऽसिद्धसत्ताकः प्रथमे तन्त्रे जिज्ञास्यः, इह तु नित्यनिर्वृत्तं पुरुषव्यापारानपेक्षं ब्रह्म जिज्ञास्यम्

मा भूद्धर्मब्रह्मजिज्ञासयोः एकविधिप्रयुक्तानुष्ठेयतया एककर्तृकत्वेन प्राप्तक्रमनियमार्थत्वमथशब्दस्य, किन्तु एकफलप्रयुक्तानुष्ठेयतया एकप्रमेयजिज्ञासा प्रयुक्तानुष्ठेयतया वा साधनद्वये कर्त्रैक्यात् क्रमस्यापेक्षेति तन्नियमार्थोऽथशब्द इति उत्तरभाष्यस्य आशङ्कामाह -

अथापि स्याद्यथा आग्नेयादीनामित्यादिना ।

अभ्युदयफलमिति ।

धर्मज्ञानस्योत्पत्त्याप्तिविकृतिसंस्कारात्मकोऽभ्युदयः फलमित्यर्थः ।

न ज्ञेयत्वादेवेति ।

हस्तगतविस्मृतसुवर्णस्य ज्ञेयत्वादेव यथा सुखोत्पत्तिः फलं भवति तद्वन्न भवतीत्यर्थः ।

अनुष्ठानान्तरेति ।

ज्ञानोत्पत्त्यनुष्ठानात् अनुष्ठानान्तरानपेक्षमित्यर्थः ।

स च नित्यसिद्ध इति ।

उत्पत्तिविकृत्यात्मत्वं मोक्षस्य नास्तीत्यर्थः ।

अनाप्य इत्याह -

अव्यवहित इति ।

अन्यसंस्कारासम्भवं सिद्धवत्कृत्य स्फुरणातिशयरूप संस्कारोऽपि नास्तीत्याह -

स्वसंवेद्य इति ।

ज्ञानोत्पत्तिमात्रेण लभ्यं फलमपवर्ग इत्याह -

यतोऽविद्येत्यादिना ।

फलस्योत्पाद्यत्वानुत्पाद्यत्वं नामस्वरूपवैलक्षण्यमाह -

सत्यन्तेतिअत्यन्तविलक्षणत्वादिति ।

प्रस्थानभेदादिति ।

ज्ञानोत्तरकालं प्रयत्नसापेक्षत्वानपेक्षत्वलक्षणप्रस्थानभेदादित्यर्थः ।

एकोपनिपात इति ।

एकस्मिन् कर्तरि कार्यत्वेनोभयजिज्ञासयोः उपनिपातो नास्तीत्यर्थः । कार्यः साध्य इत्यर्थः ।

पुष्पादिवत् कालेन साध्यत्वं व्यावर्तयति -

पुरुषव्यापारतन्त्र इति ।