प्रवर्तकशब्दगम्यो धर्मः केवलबोधकशब्दगम्यं ब्रह्मेत्येवं प्रमाणभेदोपाधिना प्रमेयभेद उच्यत इति तात्पर्यमाह -
इदमपरमिति ।
चोदनेति शब्दभावनां कुर्वच्छब्दोऽभिधीयते ।
प्रेरयन्ती पुरुषमिति ।
पुरुषेणार्थभावनां निष्पादयन्तीति यावत् ।
असति विषय इति ।
अप्रतिपन्नार्थभावनायामिति यावत् ।
विषयमपीति ।
पुरुषनिष्पाद्यार्थभावनामपीत्यर्थः ।
बोधयति केवलमिति ।
ब्रह्मणोऽसाध्यत्वात् तत्र न प्रेरयतीत्यर्थः ।
ब्रह्मावबोधस्य साध्यत्वात् तत्र पुरुषं प्रेरयन्ती चोदनावबोधनविशेषितां भावनां प्रतिपादयन्तीति नेत्याह -
सवबोधस्येतिअवबोधस्येति ।
नवबोध इतिअवबोधः पुरुषप्रयत्नसाध्य इति नेत्याह -
बोधो हीति ।
यथा प्रमाणमिति ।
चक्षुरादिसामग्र्यनुरूपमित्यर्थः । अनिच्छतोऽप्रयतमानस्यापि दुर्गन्धादिज्ञानदर्शनादित्यर्थः ।
सन्निकर्षेणेति ।
सन्निकर्षाख्यसाधनेन कुर्विति न नियुज्यत इत्यर्थः । लक्षणं प्रमाणमित्यर्थः ।
वेदाख्यशास्त्रीयविचारविधेः वेदोक्तमेव अधिकारनिमित्तमथशब्देन वक्तव्यमित्यभिप्रेत्य वेदोक्तसाधनचतुष्टयमथशब्दार्थत्वेन दर्शयति -
उच्यते नित्यानित्येति ।
साधनचतुष्टयं वेदाख्यशास्त्रीयाधिकारिविशेषणम् उपपन्नं च, तदेव विचारे प्रवृत्तौ पुष्कलकारणम् , तद्वानेवाधिकारीत्यर्थः ।