पञ्चपादिका
वक्तव्यकाशिका
 

किं

चोदनाप्रवृत्तिभेदाच्च

इदमपरं प्रमाणोपाधि प्रमेयवैलक्षण्यम्धर्मचोदना हि प्रेरयन्ती पुरुषमसति विषये प्रेरयितुमसमर्था सती विषयमप्यवबोधयतिब्रह्मप्रमाणं पुनर्बोधयत्ये केवलं नावबोधे पुरुषः प्रेर्यतेअवबोधो हि यथावस्तु यथाप्रमाणं चोदेति, पुरुषस्येच्छामप्यनुवर्तते

तत्र कुतः प्रेर्येत ? यथाऽक्षार्थयोः सन्निकर्षे सति तेन सन्निकर्षेणाक्षावगम्यार्थज्ञाने पुरुषो नियुज्यते, तद्वत् ; अनिच्छतोऽपि स्वयमुत्पत्तेः, ब्रह्मणि तु नित्यसिद्धत्वान्न प्रेरणा सम्भवति । ‘ब्रह्मचोदने’ति चोदनाशब्दो भाष्ये प्रमाणविवक्षया प्रयुक्तः, प्रेरणाविवक्षया, तदाह

या हि चोदना धर्मस्य लक्षणं, सा स्वविषये विनियुञ्जानैव पुरुषमवबोधयति, ब्रह्मचोदना पुनः पुरुषमवबोधयत्येव केवलम् ; अवबोधस्य चोदनाजन्यत्वान्न पुरुषोऽवबोधे नियुज्यते ; यथाऽक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत्

तदेवं जिज्ञास्यैक्यनिबन्धनाऽपि क्रमापेक्षा तन्त्रद्वयस्य ; येन तदपेक्षोऽथशब्दो व्याख्यायेत, अत उपसंहरति

तस्मात् किमपि वक्तव्यं, यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इतिउच्यतेनित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं चेति

प्रवर्तकशब्दगम्यो धर्मः केवलबोधकशब्दगम्यं ब्रह्मेत्येवं प्रमाणभेदोपाधिना प्रमेयभेद उच्यत इति तात्पर्यमाह -

इदमपरमिति ।

चोदनेति शब्दभावनां कुर्वच्छब्दोऽभिधीयते ।

प्रेरयन्ती पुरुषमिति ।

पुरुषेणार्थभावनां निष्पादयन्तीति यावत् ।

असति विषय इति ।

अप्रतिपन्नार्थभावनायामिति यावत् ।

विषयमपीति ।

पुरुषनिष्पाद्यार्थभावनामपीत्यर्थः ।

बोधयति केवलमिति ।

ब्रह्मणोऽसाध्यत्वात् तत्र न प्रेरयतीत्यर्थः ।

ब्रह्मावबोधस्य साध्यत्वात् तत्र पुरुषं प्रेरयन्ती चोदनावबोधनविशेषितां भावनां प्रतिपादयन्तीति नेत्याह -

सवबोधस्येतिअवबोधस्येति ।

नवबोध इतिअवबोधः पुरुषप्रयत्नसाध्य इति नेत्याह -

बोधो हीति ।

यथा प्रमाणमिति ।

चक्षुरादिसामग्र्यनुरूपमित्यर्थः । अनिच्छतोऽप्रयतमानस्यापि दुर्गन्धादिज्ञानदर्शनादित्यर्थः ।

सन्निकर्षेणेति ।

सन्निकर्षाख्यसाधनेन कुर्विति न नियुज्यत इत्यर्थः । लक्षणं प्रमाणमित्यर्थः ।

वेदाख्यशास्त्रीयविचारविधेः वेदोक्तमेव अधिकारनिमित्तमथशब्देन वक्तव्यमित्यभिप्रेत्य वेदोक्तसाधनचतुष्टयमथशब्दार्थत्वेन दर्शयति -

उच्यते नित्यानित्येति ।

साधनचतुष्टयं वेदाख्यशास्त्रीयाधिकारिविशेषणम् उपपन्नं च, तदेव विचारे प्रवृत्तौ पुष्कलकारणम् , तद्वानेवाधिकारीत्यर्थः ।