उक्तं पुरस्ताद् अधिकारार्थत्वेऽथशब्दस्य शास्त्रारम्भवैयर्थ्यम् ; प्रवृत्त्यभावादिति, प्रवृत्त्यभावे च कारणमुक्तम् , अखिलसुखभोगाद्धिरण्यगर्भावाप्तिपर्यन्तान्निवर्तयति ब्रह्मजिज्ञासा क्रियमाणा, तेन तत उद्वेगो लोकस्य, कुतस्तत्र प्रवृत्तिरिति ? तस्माद् यावदस्य हिरण्यगर्भावाप्तिपर्यन्तस्य भोगस्योत्पादपरिच्छेदाभ्यां विनाशित्वादनित्यत्वं नावैति । विनश्यदपीदं कूटस्थनित्यवस्तुपर्यन्तमेव विनश्यति ; अन्यथा निरुपादानस्य पुनरुत्पत्त्यसम्भवः, इति वर्तमानस्याप्यसम्भवादभावोऽभविष्यदिति निरूपणाद् नित्यानित्यवस्तुविवेको यावन्न जायते । यावच्चाभिमुखविनाशदर्शनाद् भुञ्जानस्यापि भोगान् स्रक् - चन्दन - वस्त्रालङ्कार - भोगानिवाग्निप्रवेशार्थं भोगार्थव्यापारजनितदुःखानुभवाच्च तन्निमित्तां निर्वृतिमप्यलभमानो भोगाद् विरक्तः । ततो मुमुक्षुत्वं तत्साधनशमदमोपरमतितिक्षासमाधानसम्पन्नो भूत्वा यावन्नालम्बते, तावद् ब्रह्मजिज्ञासां कः प्रतिपद्येत ? कथञ्चिद् वा दैववशात् कुतूहलाद्वा बहुश्रुतत्वबुद्ध्या वा प्रवृत्तोऽपि न निर्विचिकित्सं ब्रह्म आत्मत्वेनावगन्तुं शक्नोति ; यथोक्तसाधनसम्पत्तिविरहात् , अनन्तर्मुखचेता बहिरेवाभिनिविशमानः । तस्माद् वर्णितवस्तुकलापानन्तर्यमभिप्रेत्याथशब्दं प्रयुक्तवानाचार्यः । तदाह भाष्यकारः —
तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च, न विपर्यये । तस्मादथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यत इति ॥
शब्देन प्रतिपादनाभावे अहमेवं विशिष्टोऽस्मीति बुद्ध्या प्रवर्तमानाधिकार्यभावात् विचारे प्रवृत्तिर्न स्यात् , अतोऽनुष्ठिततया प्रयोजनपर्यन्तं न भवेत् विचारशास्त्रमित्युक्तमिति वृत्तानुवादेन साधनचतुष्टयाभावे न विचारप्रवृत्तिरिति व्यतिरेकप्रदर्शनेन साधनचतुष्टयस्य विचारं प्रतीति न दृश्यतेप्रति कारणत्वमित्याशङ्क्य, सत्यम् पूर्वस्य पूर्वस्याधिकारिणः स्वसम्बन्धित्वेन प्रतिपन्नतया उत्तरोत्तरं प्रति स्वरूपोपाधित्वेन च मुमुक्षुत्वोपाधित्वात् सर्वेषामधिकारनिमित्तता इत्यभिप्रेत्य व्यतिरेकमुखेन पूर्वस्य पूर्वस्य उत्तरोत्तरहेतुत्वं सर्वेषां विचारहेतुत्वं च दर्शयति -
तस्माद्यावदस्येत्यादिना ।
नित्यवस्तुविवेकोदयप्रकारमाह -
विनश्यदपीदमिति ।
कार्यस्य निरुपादानत्वायोगात् कार्योपादानत्वायोगात् उपादानस्यानादित्वे तस्य कार्येष्वनन्वितत्वे सति अनुपादानत्वप्रसङ्गात् अनन्विततया नित्यत्वे सति कल्पनालाघवात् अनादिनित्योपादानस्य एकत्वे सति तस्य विकारित्वे कार्यत्वप्रसङ्गात् अविकारित्वे च सिद्धे सत्येकानादिनित्याविकारिकारणे कार्याणां कारणावशेषतया विनाशः स्यात् , अनभ्युपगमे पूर्वकल्पस्य विनष्टस्य संस्कारसहितकारणावशेषाभावात् पुनस्तथाविधस्योत्पत्त्यभाववत् वर्तमानकल्पस्यापि संस्कारविशिष्टकारणाभावेन अनुत्पत्तेरभावोऽभविष्यत् , अतो विशिष्टकूटस्थनित्यवस्त्वस्तीति नित्यवस्तुविवेको जायत इत्यर्थः ।
वैराग्योदयप्रकारमाह -
अभिमुखविनाशदर्शनादिति ।
अग्निप्रवेशार्थं स्रक्चन्दनवस्त्राद्यलङ्कारभोगान् भुञ्जानस्य भोगैः सह अभिमुखविनाशदर्शनात् दुःखानुभवाच्च निर्वृतिमलभमानो भोगाद्विरक्तो जायत इत्यर्थः । अत्रैवमन्वयः, यावदनित्यत्वं नावैति तावन्नित्यं वस्तु न प्रतिप्रतिपाद्यत इतिपद्यत इत्यध्याहारः । यावच्च नित्यानित्यविवेको न जायते तावद्विरक्तो न जायत इत्यध्याहारः । यावच्चाभिमुखविनाश इत्यत्र यावच्छब्दो नकारमध्याहृत्य विरक्तशब्देन सम्बध्यते । यावच्च न विरक्त इति तावन्मुमुक्षुत्वं नावलम्बत इत्यध्याहारः । यावच्च मुमुक्षुत्वं नावलम्बते तावद् ब्रह्मजिज्ञासां कः प्रतिपद्यत इति साधनकलापाभावे न विचारप्रवृत्तिरिति व्यतिरेकोऽयं दर्शितः ।
ननु नास्ति व्यतिरेकः, साधनाभावेऽपि प्रवृत्तिदर्शनादित्याशङ्क्याह -
कथञ्चिद्वा दैववशादिति ।
शूद्रयागादिवत् फलपर्यन्तता न स्यादित्यर्थः ।
व्यतिरेकनियमादेव अन्वयमपि सिद्धवत्करोतीत्याह -
तस्माद्वर्णितेति ।
अथशब्देन साधनचतुष्टयस्य हेतुत्वाभिधानात् अतःशब्देनापि तस्य हेतुत्वाभिधानात् पुनरुक्तिः स्यादित्याशङ्क्य अथशब्दस्य आनन्तर्यमभिधेयार्थः । साधनचतुष्टयहेतुत्वं तात्पर्यार्थः । अतः शब्दस्य साधनचतुष्टयस्य हेतुत्वमभिधेयार्थः ।