पञ्चपादिका
वक्तव्यकाशिका
 

अतःशब्दो हेत्वर्थ इति

स्यादेतत् , कृतकत्वपरिच्छेदौ नैकान्ततः क्षयिष्णुतां गमयतः ; परमाणुषु पाकजलोहितस्य कृतकस्य, तेषां परिच्छिन्नानां नित्यत्वाभ्युगमात् , वेदेऽपिअक्षय्यं वै चातुर्मास्ययाजिनः सुकृतं भवति’ ‘अपाम सोमममृता अभूमे’त्यादिपुण्यफलस्याक्षयित्वश्रवणात् , अतो विषयभोगाद् नियमेन विरागो विवेकिनामपिनापि कूटस्थनित्यवस्त्ववष्टम्भेन मुमुक्षुत्वम्ततश्च शमदमादिपरिग्रहः, यतो तादात्म्यं भोक्तुः सम्भाव्यतेनापि तदवाप्तिः ; दुःखाभावेऽपि सुखभोगाभावान्नानवद्यः पुरुषार्थःअतोऽजीर्णभयान्नाहारपरित्यागः, भिक्षुभयान्न स्थाल्या अनधिश्रयणं दोषेषु प्रतिविधातव्यमिति न्यायःअतो तस्य ब्रह्मजिज्ञासायां हेतुत्वमित्यतस्तस्य हेतुत्वप्रदर्शनार्थोऽतःशब्दःकथम् ?

यस्माद्वेद एवाग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयतितद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इत्यादिना

ननु पुण्यस्याप्यक्षय्यफलत्वं वेद एवाहेत्युक्तं, ; तस्य वस्तुबलप्रवृत्तानुमानविरोधेऽर्थवादस्य नित्यत्वप्रतिपादनासामर्थ्यात् , परमाणूनां पाकजस्य तद्गुणस्य अनित्यत्वात्अतो भवत्यनित्यत्वदर्शनं विषयभोगानां मुमुक्षुत्वे हेतुःयत्पुनर्मुमुक्षुत्वाभावे निमित्तमुक्तं, तत्राह

तथा ब्रह्मज्ञानादपि परं पुरुषार्थं दर्शयतिब्रह्मविदाप्नोति परमित्यादि

साधनचतुष्टये प्राप्त्यसम्भवाशङ्कानिराकरणं तात्पर्यार्थ इत्यभिधेयभेदात् तात्पर्यार्थभेदाच्च पुनरुक्तिर्नास्तीत्यभिप्रेत्याह -

अतः शब्दो हेत्वर्थ इति ।

हेत्वभिधायीत्यर्थः ।

अथशब्दतात्पर्यार्थभूतसाधनचतुष्टयाख्यपुष्कलकारणे प्राप्तासम्भवशङ्कामतःशब्दनिराकरणीयामाह -

स्यादेतदिति ।

अनित्यत्वानुमानस्यानैकान्तिकत्वादेव कर्मफलस्य अनित्यत्वासम्भवेऽपि नित्यत्वे न प्रमाणमिति तत्राह -

वेदेऽपीति ।

अतो नित्यपुरुषार्थकामिनः कर्मफलेऽपि प्रवृत्तिसम्भवात् न नियमेन ब्रह्मणि प्रवृत्तिरिति भावः ।

नित्यपुरुषार्थकामिनो विषयभोगात् वैराग्यं च न सम्भवति, कर्मफलस्यापि नित्यत्वादित्याह -

अतो विषयभोगादिति ।

मा भूद् ब्रह्मण्येव प्रवृत्तिरिति नियमः तथापि ब्रह्मण्यपि विकल्पेन प्रवृत्तिः स्यादिति नेत्याह -

न च कूटस्थेति ।

अवष्टम्भेनेति ।

ब्रह्मप्राप्तिसम्भवमङ्गीकृत्येत्यर्थः ।

कूटस्थनित्यब्रह्मवस्तुप्राप्त्यसम्भवः कथमित्यत आह -

यतो न तादात्म्यमिति ।

विरुद्धत्वादिति भावः ।

ब्रह्मणः सर्वगतत्वे नित्यसंयोगात् न साधनसाध्यत्वं संयोगस्य असर्वगतत्वे परिच्छेदादनित्यत्वादिप्रसङ्गः, तथापि संयोगस्य साध्यत्वे निष्फलत्वमाह -

नापि तदवाप्तिरिति ।

सुखभोगाभावादिति ।

ब्रह्मणि सुखसद्‌भावेऽपि स्वाश्रयसुखापरोक्ष्यस्यैव उपभोगत्वात् आत्मनि तस्याभावादित्यर्थः ।

भोगात् प्रागूर्ध्वं च भोगावस्थायां च दुःखात्मकविषयसुखपरित्यागेन दुःखनिवृत्त्यात्मकब्रह्मप्राप्तिः प्रार्थ्यत इत्याशङ्क्याह -

अतोऽजीर्णभयादिति ।

अतो न तस्येति ।

साधनचतुष्टयस्येत्यर्थः ।

तात्पर्येण अतःशब्दनिराकरणीयाशङ्कां टीकाकारः स्यादेतदित्यादिना प्रदर्श्य प्रदर्शिताशङ्कानिराकरणहेतुसूचनेन साधनचुतष्टयं हेतुर्हेतुरेवेति प्रदर्शयति अर्थतः शब्द इत्याह -

अतस्तस्येति ।

आशङ्कानिराकरणहेतुरतः शब्दसूचितः कथम्भूत इति चोदयति -

कथमिति ।

आशङ्कानिराकरणहेतुमतःशब्दसूचितमाह -

यस्माद्वेद एवेति ।

अनित्यफलतां दर्शयतीति ।

ब्रह्मव्यतिरिक्तपुरुषार्थजातस्यास्यन्नित्यतो इतिनित्यतां दर्शयतीति भावः ।

तद्यथेहेति ।

सामान्यश्रुतिः चातुर्मास्यादिविशेषादन्यअन्यस्यैवेतित्रैव वर्ततामिति चोदयति -

ननु पुण्यस्येति ।

वस्तुबलप्रवृत्तेति ।

व्याप्तिबलप्रवृत्तेत्यर्थः ।

अनुमानविरोध इति ।

कृतकत्वात् परिच्छिन्नत्वादनित्यमित्यनुमानानुगृहीतश्रुतिविरोध इत्यर्थः । अतोऽनित्यत्व दर्शनं विषयभोगाद्वैराग्यमुत्पाद्य तद्वारेण मुमुक्षुत्वहेतुतया ब्रह्मणि प्रवृत्तिहेतुर्भवतीति योजना ।

निमित्तमुक्तमिति ।

ब्रह्मणि विकल्पेन प्रवृत्त्यभावेऽपि ब्रह्मणा तादात्म्यसंयोगरूपप्राप्त्यसम्भवाअसम्भवास्यमितिख्यं निमित्तमुक्तमित्यर्थः । श्रुतिविरोधात् ब्रह्मप्राप्त्यसम्भवसाधक तर्को बाध्यते । ब्रह्मप्राप्तेः पुरुषार्थत्वं च भवति । सुखापरोक्ष्यसम्भवात् तस्यैव पुरुषार्थत्वादिति भावः ।