साधनचतुष्टये प्राप्त्यसम्भवाशङ्कानिराकरणं तात्पर्यार्थ इत्यभिधेयभेदात् तात्पर्यार्थभेदाच्च पुनरुक्तिर्नास्तीत्यभिप्रेत्याह -
अतः शब्दो हेत्वर्थ इति ।
हेत्वभिधायीत्यर्थः ।
अथशब्दतात्पर्यार्थभूतसाधनचतुष्टयाख्यपुष्कलकारणे प्राप्तासम्भवशङ्कामतःशब्दनिराकरणीयामाह -
स्यादेतदिति ।
अनित्यत्वानुमानस्यानैकान्तिकत्वादेव कर्मफलस्य अनित्यत्वासम्भवेऽपि नित्यत्वे न प्रमाणमिति तत्राह -
वेदेऽपीति ।
अतो नित्यपुरुषार्थकामिनः कर्मफलेऽपि प्रवृत्तिसम्भवात् न नियमेन ब्रह्मणि प्रवृत्तिरिति भावः ।
नित्यपुरुषार्थकामिनो विषयभोगात् वैराग्यं च न सम्भवति, कर्मफलस्यापि नित्यत्वादित्याह -
अतो विषयभोगादिति ।
मा भूद् ब्रह्मण्येव प्रवृत्तिरिति नियमः तथापि ब्रह्मण्यपि विकल्पेन प्रवृत्तिः स्यादिति नेत्याह -
न च कूटस्थेति ।
अवष्टम्भेनेति ।
ब्रह्मप्राप्तिसम्भवमङ्गीकृत्येत्यर्थः ।
कूटस्थनित्यब्रह्मवस्तुप्राप्त्यसम्भवः कथमित्यत आह -
यतो न तादात्म्यमिति ।
विरुद्धत्वादिति भावः ।
ब्रह्मणः सर्वगतत्वे नित्यसंयोगात् न साधनसाध्यत्वं संयोगस्य असर्वगतत्वे परिच्छेदादनित्यत्वादिप्रसङ्गः, तथापि संयोगस्य साध्यत्वे निष्फलत्वमाह -
नापि तदवाप्तिरिति ।
सुखभोगाभावादिति ।
ब्रह्मणि सुखसद्भावेऽपि स्वाश्रयसुखापरोक्ष्यस्यैव उपभोगत्वात् आत्मनि तस्याभावादित्यर्थः ।
भोगात् प्रागूर्ध्वं च भोगावस्थायां च दुःखात्मकविषयसुखपरित्यागेन दुःखनिवृत्त्यात्मकब्रह्मप्राप्तिः प्रार्थ्यत इत्याशङ्क्याह -
अतोऽजीर्णभयादिति ।
अतो न तस्येति ।
साधनचतुष्टयस्येत्यर्थः ।
तात्पर्येण अतःशब्दनिराकरणीयाशङ्कां टीकाकारः स्यादेतदित्यादिना प्रदर्श्य प्रदर्शिताशङ्कानिराकरणहेतुसूचनेन साधनचुतष्टयं हेतुर्हेतुरेवेति प्रदर्शयति अर्थतः शब्द इत्याह -
अतस्तस्येति ।
आशङ्कानिराकरणहेतुरतः शब्दसूचितः कथम्भूत इति चोदयति -
कथमिति ।
आशङ्कानिराकरणहेतुमतःशब्दसूचितमाह -
यस्माद्वेद एवेति ।
अनित्यफलतां दर्शयतीति ।
ब्रह्मव्यतिरिक्तपुरुषार्थजातस्यास्यन्नित्यतो इतिनित्यतां दर्शयतीति भावः ।
तद्यथेहेति ।
सामान्यश्रुतिः चातुर्मास्यादिविशेषादन्यअन्यस्यैवेतित्रैव वर्ततामिति चोदयति -
ननु पुण्यस्येति ।
वस्तुबलप्रवृत्तेति ।
व्याप्तिबलप्रवृत्तेत्यर्थः ।
अनुमानविरोध इति ।
कृतकत्वात् परिच्छिन्नत्वादनित्यमित्यनुमानानुगृहीतश्रुतिविरोध इत्यर्थः । अतोऽनित्यत्व दर्शनं विषयभोगाद्वैराग्यमुत्पाद्य तद्वारेण मुमुक्षुत्वहेतुतया ब्रह्मणि प्रवृत्तिहेतुर्भवतीति योजना ।
निमित्तमुक्तमिति ।
ब्रह्मणि विकल्पेन प्रवृत्त्यभावेऽपि ब्रह्मणा तादात्म्यसंयोगरूपप्राप्त्यसम्भवाअसम्भवास्यमितिख्यं निमित्तमुक्तमित्यर्थः । श्रुतिविरोधात् ब्रह्मप्राप्त्यसम्भवसाधक तर्को बाध्यते । ब्रह्मप्राप्तेः पुरुषार्थत्वं च भवति । सुखापरोक्ष्यसम्भवात् तस्यैव पुरुषार्थत्वादिति भावः ।