अत उपसंहरति —
तस्माद्यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्येति ॥
यतः परिपूर्णो हेतुरनन्तरमवश्यं कार्यमारभते, अतः कर्तव्येत्यावश्यकतामाह भाष्यकारः । यतो द्वैतानुषङ्गादतितरामुद्विजमानेन ब्रह्मात्मत्वं च हस्तप्राप्तमिव मन्यमानेन प्रवर्तितव्यमेव ब्रह्मजिज्ञासायाम् ; प्रदीप्तशिरसेव जलराशौ, स्पृशतेव च सुस्वादु फलमङ्गुल्यग्रेणाग्रपादस्थेन । एवं सत्यर्थाद् धर्मजिज्ञासाया नियमेन पूर्ववृत्तत्वमथशब्देन पूर्वोक्तेन न्यायेन निराक्रियते ॥
अत उपसंहरतीति ।
अतःशब्देनाशङ्कानिराकरणहेतुसूचनद्वारेण साधनकलापस्य हेतुत्वसमर्थनादुपसंहरतीत्यर्थः ।
कर्तव्येत्यनेनकर्तव्यत्वानेनेति भाष्यकारो विशेषं विधत्त इति शङ्कानिवर्तकत्वेन भाष्यं व्याचष्टे ।
अत इतियतः परिपूर्ण इति ।
पुष्कलहेतुत्वादवश्यारम्भकत्वं भाष्योक्तमस्त्येवेत्याह -
यतो द्वैतानुषङ्गादिति ।
एवं सतीति ।
पुष्कलहेतुत्वेनावश्यारम्भकत्वे सतीत्यर्थः ।
अथशब्देनेति ।
अवश्यारम्भक साधनचतुष्टयाख्यहेतुप्रतिपादकाथशब्देनेत्यर्थः ।