पञ्चपादिका
वक्तव्यकाशिका
 

अत उपसंहरति

तस्माद्यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्येति

यतः परिपूर्णो हेतुरनन्तरमवश्यं कार्यमारभते, अतः कर्तव्येत्यावश्यकतामाह भाष्यकारःयतो द्वैतानुषङ्गादतितरामुद्विजमानेन ब्रह्मात्मत्वं हस्तप्राप्तमिव मन्यमानेन प्रवर्तितव्यमेव ब्रह्मजिज्ञासायाम् ; प्रदीप्तशिरसेव जलराशौ, स्पृशतेव सुस्वादु फलमङ्गुल्यग्रेणाग्रपादस्थेनएवं सत्यर्थाद् धर्मजिज्ञासाया नियमेन पूर्ववृत्तत्वमथशब्देन पूर्वोक्तेन न्यायेन निराक्रियते

अत उपसंहरतीति ।

अतःशब्देनाशङ्कानिराकरणहेतुसूचनद्वारेण साधनकलापस्य हेतुत्वसमर्थनादुपसंहरतीत्यर्थः ।

कर्तव्येत्यनेनकर्तव्यत्वानेनेति भाष्यकारो विशेषं विधत्त इति शङ्कानिवर्तकत्वेन भाष्यं व्याचष्टे ।

अत इतियतः परिपूर्ण इति ।

पुष्कलहेतुत्वादवश्यारम्भकत्वं भाष्योक्तमस्त्येवेत्याह -

यतो द्वैतानुषङ्गादिति ।

एवं सतीति ।

पुष्कलहेतुत्वेनावश्यारम्भकत्वे सतीत्यर्थः ।

अथशब्देनेति ।

अवश्यारम्भक साधनचतुष्टयाख्यहेतुप्रतिपादकाथशब्देनेत्यर्थः ।