पञ्चपादिका
वक्तव्यकाशिका
 

ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति

अन्तर्णीतविचारार्थान्वये हि चतुर्थीसमासः स्यात् , शब्दाभिधेय इत्यवयवार्थमङ्गीकृत्य षष्ठीसमासो दर्शितः

धर्माय जिज्ञासेतिवच्चतुर्थी समासः किं न स्यादित्याशङ्क्य जिज्ञासाशब्दस्याभिधेयावयवार्थस्वीकारादित्याह -

अन्तर्णीतेति ।

लक्षितविचारार्थान्वय इत्यर्थः । जिज्ञासाशब्दस्य इच्छार्थत्वात् इच्छायाः कर्मप्रयोजनयोरैक्यात् एकनिर्देशेन इतरनिर्देशसिद्धेः कर्मण इच्छास्वरूप प्रतीत्युपाधित्वेन प्राधान्यात् तन्निर्देशार्थं कर्मणि षष्ठीसमासः स्यात् । लक्षणया विचारार्थत्वे तु विचारस्य कर्मप्रयोजनयोर्भेदादेकनिर्देशेनान्यनिर्देशासिद्धेरायासरूपत्वेन प्रयोजनापेक्षत्वात् प्रयोजनत्वप्रसिद्धये चतुर्थीसमासः स्यात् । न त्विह विचारस्यार्थत्वमिति भावः ।