ब्रह्मण इति कर्मणि षष्ठी ॥
वृत्त्यन्तरे तु शेषलक्षणा व्याख्याता, तां निरस्यति —
न शेष इति ॥
तत्र हेतुमाह —
जिज्ञास्यापेक्षत्वाज्जिज्ञासाया इति ॥
जिज्ञास्यापेक्षत्वादिति ।
इच्छां प्रति स्वरूपप्रतीत्युपाधित्वात् इच्छाजन्यफलाधारत्वाच्च कर्मकारकस्य तदपेक्षत्वमिच्छायाः प्राधान्येन विद्यत इत्यर्थः ।