पञ्चपादिका
वक्तव्यकाशिका
 

ब्रह्मण इति कर्मणि षष्ठी

वृत्त्यन्तरे तु शेषलक्षणा व्याख्याता, तां निरस्यति

शेष इति

तत्र हेतुमाह

जिज्ञास्यापेक्षत्वाज्जिज्ञासाया इति

जिज्ञास्यापेक्षत्वादिति ।

इच्छां प्रति स्वरूपप्रतीत्युपाधित्वात् इच्छाजन्यफलाधारत्वाच्च कर्मकारकस्य तदपेक्षत्वमिच्छायाः प्राधान्येन विद्यत इत्यर्थः ।