इच्छायाः फलविषयत्वादिति ।
अवगतविषयत्वात् इच्छायाः ज्ञानावगतये ज्ञानविशेषणब्रह्मण्यवगते तत् ज्ञानेच्छानुपपत्तेरनवगते तद्विशेषितज्ञानस्यापि अनवगमात् ज्ञानमात्रे इच्छानुपपत्तेरिति भावः ।
काचेयमिष्यमाणावगतिरिति तदाह -
साक्षादनुभव इति ।
अपरोक्षानुभवअपरोक्षादेनुभव इति इत्यर्थः ।
इच्छापूर्वकविचारात् प्रागेव प्रागेवासीत इतिस्थितवेदादवगतिपर्यन्तज्ञानमुत्पद्यते कथं तत्रेच्छेत्याशङ्क्य प्रथमज्ञानं परोक्षं भवति । अपरोक्षमिति पक्षेऽपि असम्भावनादिनानवसितरूपं भवति, अतः परोक्षज्ञानमप्रतिअप्रतिबन्धेतिबद्धापरोक्षज्ञानज्ञानैवेतिमेव अपेक्ष्यत इति युज्यत इत्यभिप्रेत्याह -
ज्ञानं तु परोक्ष इति ।
सन्निहितेऽपीति ।
इन्द्रियसंयुक्ततया प्रथमत एव अपरोक्षेऽपि वस्तुनीत्यर्थः ।
तदाह,
तस्मादाहेत्यर्थः ।
प्रमाणेनावगन्तुमिति ।
अपरोक्षनिश्चयानुभवेन ज्ञानेनेत्यर्थः । ब्रह्मरूपता साक्षात्करणफलज्ञाने इच्छा सम्भवति । न प्रथमज्ञान इति भावः ।