पञ्चपादिका
वक्तव्यकाशिका
 

तदेतच्छास्त्रान्तर्भूतं सूत्रम्अनेन प्रयोज्यसम्बन्धिनोर्जिज्ञासामुमुक्षाक्रिययोरेकस्याः कारणान्तरसिद्धायाः पूर्ववृत्ततया हेतुत्वमर्थादुपात्तमितरस्यास्तदनन्तरं तत्प्रयुक्तायाः कर्तव्यता श्रुत्याऽभिहितातत्र जानात्येवासौ मयैतत् कर्तव्यमिति, उपायन्तु वेदततस्तस्योपायः कथनीयःशास्त्रस्य सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि ; इतरथा प्रेक्षारहितमिव सर्वमापद्येतअतोऽनेनैव सूत्रेणेदमपि सर्वं सूचितमिति कथयितुमाह

तस्माद् ब्रह्म जिज्ञासितव्यमिति

अन्तर्णीत विचारार्थविधेयत्वाङ्गीकारेण मीमांसितव्यमित्यर्थःएतदुक्तं भवतिब्रह्मज्ञानकामेनेदं शास्त्रं श्रोतव्यम् ; यस्माद् ब्रह्मज्ञानमनेन शास्त्रेण निरूप्यतेतेन प्रयोज्यस्याभिमतोपायः शास्त्रम् , इत्यर्थात् शास्त्रस्य सम्बन्धाभिधेयप्रयोजनं कथितं भवति

इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां प्रथमसूत्रार्थवर्णनं नाम तृतीयवर्णकं समाप्तम् ॥

प्रथमसूत्रस्य शास्त्रान्तर्भूतत्वेन अनन्तर्भूतत्वेन चानिरूप्यत्वादेव वाक्यार्थत्वस्याकथनीयत्वात् इच्छा वाक्यार्थ इति प्रतिपादनमयुक्तम् , तथाहि - अन्तर्भूतत्वे स्वविचारारम्भकर्तव्यताविचारसूत्रस्य केनारम्भः क्रियते, स्वेनैव चेत् आत्माश्रयतापत्तिः, सूत्रान्तरेण चेत् अनवस्थापातः । अनन्तर्भूतत्वे अशास्त्रतया अनारम्भप्रसङ्ग इत्याशङ्क्य श्रौतश्रोतव्य इति विधिरनिर्णीतानुबन्धत्रयविशिष्टतया प्रतिपन्नस्वनिर्णयाय स्वापेक्षित विचाराय प्रथमसूत्रमारम्भयति । विधौ च विचारिते सति विधिविधिस्वविषयेतिविषयविचारसूत्राणि जन्मादिसूत्रादीनि पश्चादारम्भयतीत्यभ्युपगमात् एकशास्त्रत्वेऽपि अनवस्थाभावात् श्रोतव्यादिवाक्यानां स्वार्थेस्वासमन्वय इति समन्वयप्रतिपादनद्वारेण विधिना विचार्यमाणवेदान्तवाक्यानामपि ब्रह्मणि समन्वयनिर्णयनिमित्तत्वात् एव समन्वयाध्यायेन सङ्गतिसिद्धेश्च अस्य वाक्यवाक्यार्थेतिस्यार्थकथनं युक्तमित्यभिप्रेत्याह -

तदेतदिति ।

तस्माद् ब्रह्म जिज्ञासितव्यमिति भाष्यं जिज्ञासाशब्देन लक्षितविचारकर्तव्यतासूत्रस्यार्थ इति प्रदर्शयतीति वदितुमिति ।

इच्छाया अभिधावृत्त्या वाक्यार्थत्वं पूर्वमुक्तमित्याह -

अनेन च प्रयोज्येति ।

प्रयोज्य इत्यधिकारी ।

एकस्या इति ।

साधनकलापस्येति तस्य कारणान्तरमदृष्टं यज्ञादिवत् दृष्टं व्याप्त्यनुसन्धानादि अर्थादुपात्तमिति आनन्तर्याभिधानसामर्थ्यादिति अतःशब्दस्य मुखतो हेतुत्वाभिधायिनोऽप्याशङ्कान्तरनिवृत्तौ तात्पर्यात् अर्थाद्धेतुत्वमुक्तमित्यनुवादे प्रयोजनाभावात् कर्तव्यपदमध्याहृत्य जिज्ञासाकर्तव्यता श्रुत्या अभिहिता, इच्छाया अननुष्ठेयत्वादभिधावृत्तिसिद्धेच्छाकर्तव्यताऽसम्भवेऽपि इच्छासंयोगात् ज्ञानस्य साध्यत्वासध्याभावगमादितिवगमात् तदेव कर्तव्यमस्तु न तु लक्षितविचारकर्तव्यता सूत्रार्थत्वेन कथनीया भाष्यकृतेति, नेत्याह -

तत्र जानात्येवेति ।

इष्यमाणस्य साध्यता स्वयं सिद्धा न शब्दमपेक्षते सुखसंवेदनत्वादित्यर्थः ।

किं तर्हि विधीयत इति तदाह -

उपायं तु न वेदेति ।

अनुपगताभिलषितोपाय एव विधिशब्दैः प्रतिपाद्यते । अतो ज्ञानसाधनविचार कर्तव्यता सूत्रार्थत्वेन कथनीया भाष्यकृतेति भावः । दृष्टोपायत्वेऽपि अपरोक्षानुभवं प्रत्यदृष्टोपायतापि दर्शिता द्रष्टव्याद्रव्यणादीतिदिविधेरिति द्रष्टव्यम् ।

ननु पदार्थव्याख्यानादेव स्वयमेव वाक्यार्थं प्रतिपद्यते, किं वाक्यार्थकथनेन ? सत्यम् ; सम्बन्धादीनामर्थात् प्रतिभासो भवतीत्याह -

शास्त्रस्य चेति ।

मुमुक्षुणा मोक्षहेतुहेतुः इतिब्रह्मज्ञानायेदं शास्त्रं श्रोतव्यमिति वाक्यार्थे अभिहिते कथमर्थात् सम्बन्धादिप्रतिपत्तिरिति तदाह -

एतदुक्तम्भवतीति ।

ब्रह्मज्ञानकामेनेदं शास्त्रं श्रोतव्यमित्युक्त्या ज्ञायमानब्रह्मणा शास्त्रस्य सम्बन्ध उक्तः । अनेनैव शास्त्रेण ब्रह्मज्ञानस्योत्पत्त्यभिधानात् ज्ञायमानं ब्रह्म शास्त्रस्य विषय इतिइतीति न दृश्यते उक्तं शास्त्रस्याधिकारिणा कामितब्रह्मज्ञानसाधनत्वात् ज्ञानं ब्रह्म शास्त्रस्य प्रयोजनमुक्तमित्यर्थात् शास्त्रस्य सम्बन्धाभिधेयप्रयोजनं कथितं भवतीति । || इति तृतीयवर्णककाशिका ||