न ब्रह्म सामान्येसामान्यमपीतिनापि लोके प्रतिपत्तुं शक्यं प्रमाणान्तरागोचरत्वान्नाप्यागमसामर्थ्यात्तत्र प्रयुज्यमानस्य ब्रह्मशब्दस्यानवधृतार्थत्वात् । न च पदमात्रादेव अर्थान्तरसिद्धिः, जात्याद्यर्थान्तरेषुअत्र रिक्तं दृश्यते प्रसिद्धत्वात् । तस्मान्न प्रसिद्धमुद्दिश्य विचारविधानोपपत्तिरिति चोदयति -
कथमिति ।
ब्रह्मशब्दस्तावदिति ।
श्रुतावपि ब्रह्मशब्दप्रयोगसामर्थ्यादेव जात्यादिकं शङ्क्यत इति भावः ।
प्रयोगानुपपत्तिरर्थान्तरसद्भावे प्रमाणमित्याह -
अतो नूनमन्यदेवेति ।
श्रौतप्रयोगानुपपत्तिर्नापूर्वमर्थं गमयति । लौकिकप्रयोगाधीनत्वाच्छ्रौतप्रयोगस्य इति तत्राह -
तेन स्वर्गापूर्वदेवतेति ।
‘तानि धर्माणि प्रथमान्यासन्’ इति धर्मशब्दप्रयोगो वेदे अपूर्वशब्दप्रयोग इत्यभिप्रेयते । प्रयोगादेव प्रयोगानुपपत्त्येत्यर्थः ।
लोके व्युत्पत्तिमनपेक्ष्य मुमुक्षुजिज्ञासां प्रति कर्मसमर्पकत्वेनत्वेनात्तेनेति प्रयुक्तपदत्वात् तेन ब्रह्मपदेनान्यतोऽसिद्धनिरतिशयपुरुषार्थब्रह्मणः सिद्धिरित्युक्तं न घटते पदमात्रस्यान्यतः सिद्धानुवादकत्वात् सर्वत्रेति चोदयति -
नैतत्सारमिति ।
अत्र चक्षुःशब्देन प्रत्यक्षमुच्यते । सम्बन्धग्रहणाभावात् नानुमानवदित्यादिशब्देनोच्यते ।
यत्र शीतं न चोष्णमित्यादिसन्निहितानेकवाक्यार्थसामर्थ्यलभ्यः स्वर्गादिपदार्थ इति मत्वाह -
स्वर्गाद्यर्थोऽपीति ।
विप्रलम्भभ्रान्त्यादिदोषरहितवेदसूत्रवाक्यार्थनिर्णयस्यावश्यलभ्यत्वात् वाक्यार्थप्रमितिसिद्धये प्रसिद्धपदार्थैः पदान्तरैः सहाप्रसिद्धपदार्थपदप्रयोगानुपपत्तिरेव तस्य पदस्यार्थेन सम्बन्धग्रहणानपेक्षया अपूर्वमर्थं पदवाच्यत्वेन प्रतिपादयतीति परिहरति -
यस्मिन् वाक्य इति ।
सह प्रयोगानुपपत्त्या पदार्थस्वीकारे नियामकाभावात् यः कश्चिदर्थः स्वीकार्यः स्यादिति तत्राह -
तत्र निगमनिरुक्त इति ।
निगमो नाम शब्दस्य प्रसिद्धार्थतदवयवौ परित्यज्य तस्य शब्दस्य शब्दान्तरेष्वेकदेशानुगमनेन शब्दान्तरार्थे वृत्तिः । निरुक्तं नाम शब्दस्य सर्वावयवावयवार्थायानुगमेनेनेतिर्थानुगमेन प्रसिद्धादर्थात् अर्थान्तरे वृत्तिः, व्याकरणमस्मिन्नर्थे अयं प्रत्ययो भवतीति प्रत्ययविधानसामर्थ्यादर्थनिश्चयः ।
एवं रूपपदार्थेति ।
लोकव्युत्पत्तिहीनपदार्थ समर्पकत्वेन हेतूनां विद्यमानत्वादित्यर्थः ।
प्रसिद्धबलेनाप्रसिद्धमुपादीयते, न चाप्रसिद्धेन प्रसिद्धं त्यज्यत इत्यत्र को विशेष इति तत्राह -
न पुनरेकाप्रसिद्ध्येति ।
प्रसिद्धार्थस्यानेकप्रसिद्धार्थानानेकत्वादितित्वादप्रसिद्धार्थस्य चैकत्वादनेकानुसारेणेकस्यार्थो मृग्य इत्येको न्यायः । प्रधानभूतवाक्यार्थस्य त्यागप्रसङ्गात् उपसर्जनभूतपदार्थमन्विष्यापि वाक्यार्थपूरणं युक्तमिति चापरः । प्रसिद्धानुगुण्येन प्रसिद्धार्थस्वीकारेणार्थवत्ताप्रसिद्धिः, प्रयोगानुपपत्त्या प्राप्ताबलीयस्य प्रसिद्धिबाधिका न त्वप्रसिद्ध्या प्रागभावरूपयाभावरूपागन्तुकी प्रसिद्धिः त्याज्येति न्यायत्रयमिहोक्तं द्रष्टव्यम् ।
वाक्ये प्रयुक्तपदावयवस्यानेकशब्देष्वन्वयअन्यसम्भवादितिसम्भवात् प्रयुक्तपदावयवार्थस्यापि अनेकार्थेष्वन्वयसम्भवात् तेषामर्थानां मध्ये कोऽर्थस्स्यादस्य प्रयुक्तपदस्येति निर्णयासिद्धेः पदार्थस्यानियमात् वाक्यार्थोऽप्येवंरूप इति नियमो न स्यादिति चोदयति -
ननु निगमादिवशेनेति ।
सिद्धान्ती निगूढाभिसन्धिरुत्तरमाह -
न तर्हि निगमादीनामिति ।
वाक्यार्थप्रमित्यर्थं प्रसिद्धार्थपदान्तरैः सह प्रयोगानुपपत्तिरेव निगमादिवशेनाप्रसिद्धार्थपदस्यार्थमाददाना सन्निहितेतरपदार्थसंसर्गयोग्यतया वाक्यार्थप्रमितिरूपप्रयोजनपर्यन्तमेव पदार्थमाददातीति वाक्यार्थनियमसिद्धिरित्यभिप्रेत्य पूर्ववादी निगमादीनामर्थवत्तामाह -
भवत्यर्थवत्तेति ।
स्वार्थादन्यत्रेति ।
व्युत्पन्नार्थादन्यार्थविवक्षयेत्यर्थः ।
विनियोगादिति ।
वाक्यार्थरूपरूपसर्गमितिसंसर्गं निमित्तीनिमित्ताकृत्येतिकृत्येत्यर्थः ।
कथमाभिदध्यादिति ।
इतरपदार्थसंसर्गयोग्यं प्रमितिप्रयोजनपर्यन्तमर्थं कथमभिदध्यादित्यर्थः ।
तस्यैवेति ।
संसर्गयोग्यार्थगतस्यैवार्थान्वयांशस्य शब्देनानुगमादित्यर्थः ।
प्रयोगानुपपत्तिर्निगमाद्यनुगृहीता फलपर्यन्तवाक्यार्थान्वयिपदार्थाकाङ्क्षानुगृहीता च नियतपदार्थोपादानहेतुभावे रूढेः न विशिष्यते । अतोऽर्थविशेषोपादानाय लोकेनार्थविशेषे शक्तिग्रहापेक्षेति सिद्धान्ती स्वाभिप्रायं विवृणोति -
एवं तर्हीति ।
ब्रह्मशब्दैकदेशबृहतिधातोर्बृहच्छब्देऽन्वयात् बृहच्छब्दार्थे महद्वस्तुनि निगमवृत्त्या ब्रह्मशब्दो वर्तत इत्याह -
तदत्र ब्रह्मशब्देति ।
नोपादेयमित्यापेक्षिकमहद्वस्त्वेवोपादेयं स्यात् न तु लोकप्रयोगाननुसारेण अर्थोपादानमित्याह -
प्रयोगानुगमे चासतीति ।
निरवग्रहमहत्वसम्पन्नवस्तुन एवोपादाने हेतुर्वाक्यार्थान्वयीति । अल्पत्वं नाम वस्तुनो देशकालवस्तुपरिच्छेदः । तद्व्यावृत्तं निरतिशयमहद्वस्तु मुमुक्षुजिज्ञास्यतया वाक्यार्थान्वयित्वाय ब्रह्मशब्देन उपादीयत इत्याह -
ततश्च कालकृतेति ।
भाष्ये नित्यशब्देन त्रिविधमपि महत्वं दर्शितमिति भावः ।
रूपान्तरेति ।
वस्त्वन्तरसद्भाव इत्यर्थः ।
एतेनेति ।
देशस्यापि वस्तुत्वाद्वस्तुपरिच्छेदनिरासेन देशस्य स्वयमसिद्धेः देशपरिच्छेदो नास्तीत्यर्थः ।
व्यावृत्त इति ।
स्यादित्यन्वयः ।
बुद्धत्वादयो गुणाः न महत्वोपयोगिनः, ते कथं बृहत्यर्थगतमहत्वेन ब्रह्मपदादनुगम्यन्त इति चोदयति -
कथमिति ।
गुणतो हीनमप्यल्पं भवति गुणभूयिष्ठं च महद्भवति, अतो बुद्धत्वादिगुणा अपि बृहत्यर्थगतमहत्वेन ब्रह्मपदादवगम्यन्त इत्यभिप्रेत्याह -
अबोधात्मकं हीति ।
इह निकृष्टशब्देनाल्पमुच्यते, उत्कृष्टशब्देन न महदुच्यत इति द्रष्टव्यम् ।
चेतनत्वेऽप्यमुक्तत्वाख्याल्पत्वशङ्कानिरासेन मुक्तत्वमपि बृहत्यर्थगतमहत्वेन ब्रह्मपदादनुगम्यत इत्याह -
मुक्तमिति चेति ।
चेतनस्य मुक्तस्य चासर्वज्ञत्वे सर्वकार्यविषयनियमनादिशक्त्यभावे चापकृष्टतयाल्पत्वव्यावृत्तये सर्वज्ञत्वं सर्वशक्तित्वं च बृहत्यर्थगतमहत्वेन ब्रह्मपदात् गम्यत इत्याह -
सर्वज्ञमिति ।
अन्यतोऽसिद्धस्येति ।
प्रमाणान्तरसिद्धतया लोके ब्रह्मशब्दवाच्यत्वेन गृहीतार्थात् अन्यस्येत्यर्थः ।
तस्येति ।
प्रमाणान्तरसिद्धवस्तुन इत्यर्थः ।
विरूप्येतेतिनिरुच्यत इति ।
ब्रह्मशब्देनोच्यतनोच्यतेत्यर्थ इति इत्यर्थः ।