शब्दादेव तदर्थान्वयप्रतीतौ निरङ्कुश एवार्थोऽभ्युपेतव्यः । एवं च बृंहतेरर्थः परिपूर्णो भवति, यदि सर्वमस्य साक्षादेव संविद्गोचरे वशे च वर्तेत, तदेतदाह —
अस्ति तावद् ब्रह्म नित्यशुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते ; बृंहतेर्धातोरर्थानुगमादिति ॥
शब्दादेवेति ।
ब्रह्मशब्दावयवभूतबृहतिधातुशब्दसामर्थ्यादेव धात्वर्थभूतमहत्वान्वयस्य प्रतिपत्तावित्यर्थः । अस्तीति प्रसिद्धमित्यर्थः ।
व्युत्पाद्यमानस्येति ।
अवयवरूपधात्वर्थान्वितवस्तुनि वर्तत इति निरूप्यमाणस्येत्यर्थः ।
धातोरर्थानुगमादिति ।
धातोः स्वार्थमहत्वेऽनुगमाद्धातोरर्थभूतमहत्वे ब्रह्मशब्दस्यानुगमाच्चेत्यर्थः ।