यदि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात् । आत्मा च ब्रह्मेति ॥
कथं पुनरात्मा ब्रह्म ? वेदान्तेष्वात्मनि ब्रह्मशब्दप्रयोगात् । आत्मानमेव च लोकः अहमिति व्यपदिशति । तदेवमहंप्रत्यय एव ब्रह्मणः प्रसिद्धत्वाद् नाप्रसिद्धिशङ्का ॥
अहमिति शून्य एवायमात्मा प्रतिभासत इति शून्यवादमाशङ्क्याह -
यदि नात्मास्तित्वप्रसिद्धिः स्यादितियदि नास्तित्वेति ।
आत्मनः प्रत्यक्षसिद्धत्वेसिद्धये इतिऽपि ब्रह्मणः प्रसिद्धिर्न लभ्यत इति तत्राह -
आत्मा च ब्रह्मेति ।
आत्मनि ब्रह्मशब्दस्य वृद्धप्रयोगादर्शनात् ब्रह्मशब्देन कथमात्मा जिज्ञास्यत्वेनोपादीयत इति चोदयति -
कथं पुनरात्मा ब्रह्मेति ।
लौकिकप्रयोगाभावेऽपि ‘स वा अयमात्मा ब्रह्म’ इत्यादौ वैदिकप्रयोगोऽस्तीत्याह -
वेदान्तेष्विति ।
भवत्वात्मनि ब्रह्मशब्दः स त्वात्मा नाहंप्रत्ययप्रत्ययः गम्य इतिगम्यः किन्त्वागमैकगम्य इति नेत्याह -
आत्मानमेव चेति ।
ततश्च प्रतिपन्नमुद्दिश्य विचारसम्भवात् सम्बन्धः सिद्ध इत्यभिप्रेत्याह -
तदेवमहंप्रत्यय एवेति ।