पञ्चपादिका
वक्तव्यकाशिका
 

यदि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात्आत्मा ब्रह्मेति

कथं पुनरात्मा ब्रह्म ? वेदान्तेष्वात्मनि ब्रह्मशब्दप्रयोगात्आत्मानमेव लोकः अहमिति व्यपदिशतितदेवमहंप्रत्यय एव ब्रह्मणः प्रसिद्धत्वाद् नाप्रसिद्धिशङ्का

अहमिति शून्य एवायमात्मा प्रतिभासत इति शून्यवादमाशङ्क्याह -

यदि नात्मास्तित्वप्रसिद्धिः स्यादितियदि नास्तित्वेति ।

आत्मनः प्रत्यक्षसिद्धत्वेसिद्धये इतिऽपि ब्रह्मणः प्रसिद्धिर्न लभ्यत इति तत्राह -

आत्मा च ब्रह्मेति ।

आत्मनि ब्रह्मशब्दस्य वृद्धप्रयोगादर्शनात् ब्रह्मशब्देन कथमात्मा जिज्ञास्यत्वेनोपादीयत इति चोदयति -

कथं पुनरात्मा ब्रह्मेति ।

लौकिकप्रयोगाभावेऽपि ‘स वा अयमात्मा ब्रह्म’ इत्यादौ वैदिकप्रयोगोऽस्तीत्याह -

वेदान्तेष्विति ।

भवत्वात्मनि ब्रह्मशब्दः स त्वात्मा नाहंप्रत्ययप्रत्ययः गम्य इतिगम्यः किन्त्वागमैकगम्य इति नेत्याह -

आत्मानमेव चेति ।

ततश्च प्रतिपन्नमुद्दिश्य विचारसम्भवात् सम्बन्धः सिद्ध इत्यभिप्रेत्याह -

तदेवमहंप्रत्यय एवेति ।