पञ्चपादिका
वक्तव्यकाशिका
 

यदि तर्हि लोके ब्रह्मात्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नमिति

विषयमाक्षिपतिअसिद्धं हि वस्तु साध्यमानं विषयः, सिद्धं तु पुनः साध्यते, इति शास्त्रस्य विषयः

तद्विशेषं प्रति विप्रतिपत्तेः इति

विषयसम्बन्धौ समर्थ्येते

प्रत्यक्षगोचरतया अनन्यसाधारणत्वाभावात् विषयत्वं न सिध्यतीत्याक्षिपति -

यदि तर्हि लोक इति ।

असिद्धअप्रसिद्धमितिमिति ।

अप्रमितमित्यर्थः । साध्यमानं प्रमीयप्रतीयमानमितिमाणमित्यर्थः ।

विषयसम्बन्धौ समर्थ्येत इति ।

अहमिति प्रतीयमानप्रत्यग्रूपं स्वस्य विशेषत्वेन विप्रतिपद्यमानदेहाद्यनेकसामानाधिकरण्यात् सामान्यं, तत्सामान्यं सिद्धमुद्दिश्य विचारप्रवृत्तेः सम्बन्धः सम्भवति, तस्मिन्सामान्ये विशेषात्मतायां विप्रतिपत्तिदर्शनात् ब्रह्मात्मताख्यविशेषो नान्यतः सिद्ध इति तस्य शास्त्रविषयत्वं सम्भवतीत्येवं विषयसम्बन्धौ समर्थ्येत इतिइत्य इति ।