यदि तर्हि लोके ब्रह्मात्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नमिति
विषयमाक्षिपति । असिद्धं हि वस्तु साध्यमानं विषयः, सिद्धं तु न पुनः साध्यते, इति न शास्त्रस्य विषयः ॥
न तद्विशेषं प्रति विप्रतिपत्तेः इति
विषयसम्बन्धौ समर्थ्येते ।
प्रत्यक्षगोचरतया अनन्यसाधारणत्वाभावात् विषयत्वं न सिध्यतीत्याक्षिपति -
यदि तर्हि लोक इति ।
असिद्धअप्रसिद्धमितिमिति ।
अप्रमितमित्यर्थः । साध्यमानं प्रमीयप्रतीयमानमितिमाणमित्यर्थः ।
विषयसम्बन्धौ समर्थ्येत इति ।
अहमिति प्रतीयमानप्रत्यग्रूपं स्वस्य विशेषत्वेन विप्रतिपद्यमानदेहाद्यनेकसामानाधिकरण्यात् सामान्यं, तत्सामान्यं सिद्धमुद्दिश्य विचारप्रवृत्तेः सम्बन्धः सम्भवति, तस्मिन्सामान्ये विशेषात्मतायां विप्रतिपत्तिदर्शनात् ब्रह्मात्मताख्यविशेषो नान्यतः सिद्ध इति तस्य शास्त्रविषयत्वं सम्भवतीत्येवं विषयसम्बन्धौ समर्थ्येत इतिइत्य इति ।