पञ्चपादिका
वक्तव्यकाशिका
 

एवम् इन्द्रियाण्येव चेतनान्यात्मेत्यपरे

इन्द्रियाणां चक्षुरादिमनःपर्यन्तानामेकैकस्मिन्नसत्यपि शरीरे रूपादिज्ञानानामभावात् तेषामेव व्यस्तानां चेतनत्वमहंप्रत्ययविषयत्वं मन्यन्ते, क्रमेण वरगोष्ठीवदितरेतरगुणभावम्तथा चेन्द्रियधर्मसामानाधिकरण्यमहंप्रत्ययस्य दृश्यतेकाणोऽहं मूकोऽहमि’त्यादि

मनः

एव चेतनमहंप्रत्ययस्य विषयमन्ये मन्यन्तेदृश्यते हि स्वप्न इन्द्रियदशकोपरमेऽपि मनस एवअहमि’ति सर्वव्यवहारास्पदत्वमिति वदन्तः

दृश्यते हीति ।