पञ्चपादिका
वक्तव्यकाशिका
 

विज्ञानमात्रं क्षणिकमित्येक इति

मात्रग्रहणेन नाहमित्याकारादिवर्णत्रयातिरिक्तं किञ्चिदवभासते, यदहंप्रत्ययस्य विषयः कल्प्येततेन विज्ञानमेव स्वरसभङ्गुरमविरतोदयमखिललोकयात्रानिलयमनुभवभग्नपक्षान्तरमहमित्युत्पद्यत इत्यन्ये मन्यन्ते

वर्णत्रयातिरिक्तमिति ।

अहमिति वर्णत्रयाभिधेयं विज्ञानं वर्णत्रयमित्युच्यते । तद्व्यतिरिक्तं तदाश्रयभूतं किञ्चिन्नावभासत इत्यर्थः ।

कस्तर्हि अहंप्रत्ययालम्बनतया आत्मेति तदाह -

तेन विज्ञानमेवेति ।

साङ्ख्याभिमतनित्यज्ञानरूपात्मानं व्यावर्तयति -

स्वरसभङ्गुरमिति ।

स्वभावतः क्षणिकमित्यर्थः ।

सोऽहमिति प्रत्यभिज्ञयैकत्वं गम्यत इत्याइत्यर्थाशङ्क्येतिशङ्क्य ज्वालायामिव सादृश्यात् सन्ततोदयाच्च प्रत्यभिज्ञेत्याह -

अविरतोदयमिति ।

कर्मज्ञानतत्फलबन्धमोक्षाद्याश्रयत्वं क्षणिकस्यायुक्तमित्याशङ्क्य हेतुफलभावेन विज्ञानानामेकसन्तानत्वाद्युज्यत इत्याह -

अखिललोकयात्रानिलयमिति ।

विज्ञानाश्रयैकस्थाय्यात्मन्यङ्गीकृते प्रत्यभिज्ञादि सर्वं मुख्यं लभ्यत इति, न तस्यानुभवाभावादित्याह -

अनुभवभग्नपक्षान्तरमिति ।

उल्लिख्यते गम्यत इत्यर्थः ।