अकस्मादेवेति ।
सुषुप्त्यनन्तरमहमिति जायमानप्रत्ययस्य समनन्तरपूर्वज्ञानाख्यकारणाभावादभावाद्दासत्वादितिसत्वादहमिति प्रतीयमानं शून्यमेव न विज्ञानमित्यर्थः । अहमुल्लेखशून्यस्य अहमिति प्रतीयमानरूपहीनस्य भोक्तृत्वस्य रूपादिविषयसंविदाश्रयत्वस्याहमिति प्रतीयमानरूपस्यैव विषयसंविदाश्रयत्वदर्शनादित्यर्थः ।