अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपर इति ॥
अहमुल्लेखशून्यस्य भोक्तृत्वस्यादर्शनात् , तस्य च प्रत्यभिज्ञानात् स्थिरत्वसिद्धेः, स्थिरस्य चावधिहेत्वनुपलब्धेर्नित्यत्वम् । निर्विकारस्य च भोगासम्भवात् , विकारस्य च क्रियाफलत्वात् , क्रियावेशात्मकत्वाच्च कर्तृत्वस्य, एवमात्मकत्वाच्च संसारित्वस्य, देहादेश्च बुद्धिपर्यन्तस्य भोक्तृत्वानुपपत्तेः, तद्व्यतिरिक्तः संसारी कर्ता भोक्ताऽहंप्रत्ययविषय इत्यपरे प्रतिजानते । कथं पुनस्तद्व्यतिरिक्तत्वं मन्यन्ते । तस्य भोक्तृत्वानुपपत्तेरित्युक्तम् ॥
तस्य चेति ।
अहमिति प्रातीयमानेतिप्रतीयमानरूपस्येत्यर्थः ।
अवधिहेत्वनुपलब्धेरिति ।
अवधिर्नाशःनाशरवधिहेतुस्येति तदस्यास्तीत्यवधिहेतुः, तद्भावोऽवधिहेतुत्वं, नाशनिमित्तत्वंनिमित्तवत्वमिति नास्तीति निरवयवासङ्गस्य हेतूपरागायोगादित्यर्थः । अथवा स्थिरत्वादेव स्वस्य स्वनाशं प्रति हेतुत्वानुपपत्तेअवधिहेतुत्वानुपपत्तेरितिरित्यर्थः ।
कथं तस्य कर्तृत्वभोक्तृत्वाख्यसंसारित्वमिति तत्प्रतिपादयति -
निर्विकारस्येत्यादिना ।
तस्य भोक्तृत्वानुपपत्तेरित्युक्तमिति ।
तस्य देहादेश्चैतन्यवत्वलक्षणभोक्तृत्वानुपपत्तेरित्यर्थः ।